भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 454, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 454

महाश्वेतावृत्तान्तप्रमोदनम् ० ५८] चन्द्रकला-विद्योतिनीसहिता। ४१५

कोमल-मलय-मारुतावतार-तरङ्गितानङ्ग-ध्वजांशुकेषु, मद-कलित-कामिनी-गण्डूष-सीधु-सेक-पुलकित-बकुलेषु, मधुकर-कुल-कलङ्क-कालीकृत-कालेयक-कुसुम-कुड्मलेषु, अशोकलता-ताडना-रणित-रमणी-मणि-नूपुर-झङ्कार-सहस्र-मुखरेषु, विकसन्मुकुल-परिमल-पुञ्जिनालिजाल-मञ्जु-शिञ्जित-सुभग-सहकारेषु, अविरल-कुसुम-धूलि-वालुका-पुलिन-धवलित-धरातलेषु, मधुर्मद-विह्वलित-मधुकरी-कदम्बक-संवाह्यमान-लता-दोलेषु, उत्फुल्ल-पल्लव-लवली-लीयमान-मत्त-

कोमलेति। कोमलो मन्दमन्दसञ्चारी यो मलयमारुतो मलयानलः तस्य अवतारेण उपस्थित्या तरङ्गितानि तरङ्गवत्प्रस्फुरितानि अनङ्गध्वजांशुकानि मदनध्वजस्यपताका येषु तेषु। वसन्तसमये महोत्सवाय प्राङ्गेनानङ्गपताकोत्थापनादित्याशयः।

मदेति। मदकलिताः मद्यपानजनितमत्तताव्याप्ता याः कामिन्यः स्त्रियः तासां गण्डूषोधूनां वदनपूरितमद्यानां सेकेन सेचनेन पुलकिताः रोमाञ्चवत् समुद्गतकोरका बकुला वृक्षा येषु तेषु। तथा च कविसमयख्यातिः—

'पादाघातादशोकं विकसितबकुलं योषितामास्यमद्यैः' इति।

मधुक्रेति। मधुकरकुलं भ्रमरसमूह एव कलङ्को लाञ्छनं मधुकरकुलं कलङ्क इव वा, तेन कालीकृतानि श्यामवर्णीकृतानि कालेयकानां दारुहरिद्रावृक्षाणां कालीयचन्दनानां वा कुसुमानि पुष्पाणि कुड्मलानि कोरकानि च येषु तेषु। इह 'मधुकरकुलकलङ्क' इत्यत्र किं रूपकं वा उपमेति सन्देहसङ्करः, वृत्यनुप्रासश्चेत्युभयोर्मिथः संसृष्टिः।

अशोकेति। अशोकतरुषु कङ्केल्लिवृक्षेषु ताडनाभिः कुसुमप्रस्फुटनाय चरणप्रहारैः रणिताः शब्दिता ये रमणीनां सुन्दरीणां मणिनूपुरा मणियुक्तकटकाः तेषां झङ्कारसहस्रेण 'झं झं' इति शब्दसमूहेन मुखराः शब्दायमानाः तेषु।

विकसन्निति। विकसन्तः प्रस्फुटन्तो ये मुकुलाः कोरकाः तेषां परिमलेन आमोदेन पुञ्जितस्य एकत्रीकृतस्य अलिजालस्य भ्रमरगणस्य मञ्जुशिञ्जितैः मनोहरशब्दैः सुभगा रमणीयाः सहकाराः आम्रतरवो येषु तेषु 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। वृत्यनुप्रासः।

अविरलेति। अविरला निविडाः कुसुमानां पुष्पाणां धूलयः परागा एव वालुकापुलिनानि सैकतानि अविरलकुसुमधूलो वालुकापुलिनानीव वा, तैः धवलितं श्वेतीकृतं धरातलं पृथ्वीतलं येषु तेषु।

इह 'अविरलकुसुमधूलिवालुकापुलिने' त्यत्र रूपकमुपमा वेति सन्देहसङ्करः।

मध्विति। मधुमदेन कुसुमरसपानजनितमत्ततया विह्वलितं विह्वलीकृतं यत् मधुकरीकदम्बकं भ्रमरीसमूहः तेन संवाह्यमाना इतस्ततः सञ्चाल्यमानाः लता वल्ल्य एव दोला प्रेङ्खा येषु तेषु। इह 'लता एव' इत्यत्र निरङ्गकेवलरूपकम्, तदनुप्राणिता ममासोक्तिश्चेति मद्यपानमत्तयुवतीदोलासञ्चालनकार्यप्रतीतेः।

उत्फुल्लेति। उत्फुल्लानि स्फुटानि पल्लवानि किसलया यासां तासु, लवलीषु लताविशेषेषु लीयमाना गुप्तमवतिष्ठमाना ये मत्तकोकिला मदोन्मत्तपिकाः तैः उल्लासितम् आलोड्य बहिरानांतं यन्मधु


हृदयको आनन्द-दायक चैत्रमासके दिनोंमें नये कुन्दवन प्रस्फुटित हो रहे थे, जिनकी कोमल कलियोंका कटाक्ष कामुकोंको उत्कण्ठित कर रहा था; मृदुमन्द मलय-समीरनके आगमनसे कामदेवकी पताका तरङ्गित हो (फहरा) रही थी, मदसे मत्ती हुई कामिनियोंके मुखमद्यसेचनसे बकुल पुलकित हो रहे थे; कलङ्कके समान भ्रमरोंके बैठ जानेसे दारुहरिद्राद्रुम (चमेली) की कलियाँ काली हो गई थीं; अशोकवृक्षोंको चरणप्रहार करनेमें शब्दायमान रमणियोंके मणिमय नूपुर (पायजेब) के झङ्कार (झन्-झनाहट) से दिशायें मुखरित हो रही थीं; विकसित कलियोंके सौरभसे सम्मेल (एकत्रित हुए) भ्रमरोंके मनोहर गुञ्जारसे आम्रके वृक्ष मनोहर लग रहे थे; बालूकामय पुलिन (रेती) के समान अविरल पुष्प-रेणुसे भूतल धवलवर्ण दिखलाई देता था; पुष्पके मधुमदसे मत्त हुई मधुकरीगण लतारूपी भूलोंपर झूल रही थीं; मत्त कोकिल गण पल्लवोंसे छाई हुई लवली-लताओंमें गुप्त रूपसे


१. ०कलेयककुड्मलेषु ।
२. ००ताडनार्ति-०रणित०… ।
३. ०सहस्रेषु… ?
४. '०मधुकर ।
५. वहीं… ।