कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
महाश्वेतावृत्तान्तप्रमोदनम् ० ५८] चन्द्रकला-विद्योतिनीसहिता। ४१५
कोमल-मलय-मारुतावतार-तरङ्गितानङ्ग-ध्वजांशुकेषु, मद-कलित-कामिनी-गण्डूष-सीधु-सेक-पुलकित-बकुलेषु, मधुकर-कुल-कलङ्क-कालीकृत-कालेयक-कुसुम-कुड्मलेषु, अशोकलता-ताडना-रणित-रमणी-मणि-नूपुर-झङ्कार-सहस्र-मुखरेषु, विकसन्मुकुल-परिमल-पुञ्जिनालिजाल-मञ्जु-शिञ्जित-सुभग-सहकारेषु, अविरल-कुसुम-धूलि-वालुका-पुलिन-धवलित-धरातलेषु, मधुर्मद-विह्वलित-मधुकरी-कदम्बक-संवाह्यमान-लता-दोलेषु, उत्फुल्ल-पल्लव-लवली-लीयमान-मत्त-
कोमलेति। कोमलो मन्दमन्दसञ्चारी यो मलयमारुतो मलयानलः तस्य अवतारेण उपस्थित्या तरङ्गितानि तरङ्गवत्प्रस्फुरितानि अनङ्गध्वजांशुकानि मदनध्वजस्यपताका येषु तेषु। वसन्तसमये महोत्सवाय प्राङ्गेनानङ्गपताकोत्थापनादित्याशयः।
मदेति। मदकलिताः मद्यपानजनितमत्तताव्याप्ता याः कामिन्यः स्त्रियः तासां गण्डूषोधूनां वदनपूरितमद्यानां सेकेन सेचनेन पुलकिताः रोमाञ्चवत् समुद्गतकोरका बकुला वृक्षा येषु तेषु। तथा च कविसमयख्यातिः—
'पादाघातादशोकं विकसितबकुलं योषितामास्यमद्यैः' इति।
मधुक्रेति। मधुकरकुलं भ्रमरसमूह एव कलङ्को लाञ्छनं मधुकरकुलं कलङ्क इव वा, तेन कालीकृतानि श्यामवर्णीकृतानि कालेयकानां दारुहरिद्रावृक्षाणां कालीयचन्दनानां वा कुसुमानि पुष्पाणि कुड्मलानि कोरकानि च येषु तेषु। इह 'मधुकरकुलकलङ्क' इत्यत्र किं रूपकं वा उपमेति सन्देहसङ्करः, वृत्यनुप्रासश्चेत्युभयोर्मिथः संसृष्टिः।
अशोकेति। अशोकतरुषु कङ्केल्लिवृक्षेषु ताडनाभिः कुसुमप्रस्फुटनाय चरणप्रहारैः रणिताः शब्दिता ये रमणीनां सुन्दरीणां मणिनूपुरा मणियुक्तकटकाः तेषां झङ्कारसहस्रेण 'झं झं' इति शब्दसमूहेन मुखराः शब्दायमानाः तेषु।
विकसन्निति। विकसन्तः प्रस्फुटन्तो ये मुकुलाः कोरकाः तेषां परिमलेन आमोदेन पुञ्जितस्य एकत्रीकृतस्य अलिजालस्य भ्रमरगणस्य मञ्जुशिञ्जितैः मनोहरशब्दैः सुभगा रमणीयाः सहकाराः आम्रतरवो येषु तेषु 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। वृत्यनुप्रासः।
अविरलेति। अविरला निविडाः कुसुमानां पुष्पाणां धूलयः परागा एव वालुकापुलिनानि सैकतानि अविरलकुसुमधूलो वालुकापुलिनानीव वा, तैः धवलितं श्वेतीकृतं धरातलं पृथ्वीतलं येषु तेषु।
इह 'अविरलकुसुमधूलिवालुकापुलिने' त्यत्र रूपकमुपमा वेति सन्देहसङ्करः।
मध्विति। मधुमदेन कुसुमरसपानजनितमत्ततया विह्वलितं विह्वलीकृतं यत् मधुकरीकदम्बकं भ्रमरीसमूहः तेन संवाह्यमाना इतस्ततः सञ्चाल्यमानाः लता वल्ल्य एव दोला प्रेङ्खा येषु तेषु। इह 'लता एव' इत्यत्र निरङ्गकेवलरूपकम्, तदनुप्राणिता ममासोक्तिश्चेति मद्यपानमत्तयुवतीदोलासञ्चालनकार्यप्रतीतेः।
उत्फुल्लेति। उत्फुल्लानि स्फुटानि पल्लवानि किसलया यासां तासु, लवलीषु लताविशेषेषु लीयमाना गुप्तमवतिष्ठमाना ये मत्तकोकिला मदोन्मत्तपिकाः तैः उल्लासितम् आलोड्य बहिरानांतं यन्मधु
हृदयको आनन्द-दायक चैत्रमासके दिनोंमें नये कुन्दवन प्रस्फुटित हो रहे थे, जिनकी कोमल कलियोंका कटाक्ष कामुकोंको उत्कण्ठित कर रहा था; मृदुमन्द मलय-समीरनके आगमनसे कामदेवकी पताका तरङ्गित हो (फहरा) रही थी, मदसे मत्ती हुई कामिनियोंके मुखमद्यसेचनसे बकुल पुलकित हो रहे थे; कलङ्कके समान भ्रमरोंके बैठ जानेसे दारुहरिद्राद्रुम (चमेली) की कलियाँ काली हो गई थीं; अशोकवृक्षोंको चरणप्रहार करनेमें शब्दायमान रमणियोंके मणिमय नूपुर (पायजेब) के झङ्कार (झन्-झनाहट) से दिशायें मुखरित हो रही थीं; विकसित कलियोंके सौरभसे सम्मेल (एकत्रित हुए) भ्रमरोंके मनोहर गुञ्जारसे आम्रके वृक्ष मनोहर लग रहे थे; बालूकामय पुलिन (रेती) के समान अविरल पुष्प-रेणुसे भूतल धवलवर्ण दिखलाई देता था; पुष्पके मधुमदसे मत्त हुई मधुकरीगण लतारूपी भूलोंपर झूल रही थीं; मत्त कोकिल गण पल्लवोंसे छाई हुई लवली-लताओंमें गुप्त रूपसे
१. ०कलेयककुड्मलेषु ।
२. ००ताडनार्ति-०रणित०… ।
३. ०सहस्रेषु… ?
४. '०मधुकर ।
५. वहीं… ।
| ४१६ | कादम्बरी- | [कथायाम्- |
|---|
कोकिलोल्लासित-मधु-शीकरोद्दामै-दुर्द्दिनेषु, प्रोषित-जनजाया-जीवोपहार-हृष्ट-मन्मथास्फालित-चाप-रव-भय-स्फुटित-पथिक-हृदय-रुधिराद्रीकृतमार्गेषु, अचिरत-पतत्कुसुमशर-पत्रत्रि-रव-सूंत्कारबधिरीकृत-दिङ्मुखेषु दिवापि प्रवृत्तानङ्गदर्शन-रागान्धाभिसारिका-सार्थ-सङ्केतेषु, उद्वेल-रति-रस-सागर-पूर-प्लावितेषु, सकल जीवलोक-हृदयानन्ददायकेषु, मधुनासदिवितेषु एकदाह-मम्बया सह मधुमासे-विस्तारित-शोभं प्रोत्फुल्ल-नव-नलिन-कुमुद कुवलय-कह्लारमिदमच्छोदं सरः स्नातुमभ्यागतम् । अत्र च स्नानायैनागत्य भगवत्या पार्वत्या तटशिलातलेषु विलिखितानि सद्भृङ्गिरिटीनि पांशु-निसर्गन-कृश-पद्मण्डलीनुमित-मुनिजन-प्रणाम-प्रदक्षिणानि त्र्यम्बक
पुष्परसः तस्य शीकरैः बिन्दुभिः उद्दामं नितान्तं दुर्द्दिनं दृष्टिर्यैषु तेषु ।
प्रोषितेति । प्रोषिता विदेशस्था ये जना लोकाः तेषां या जाया वियोगशिथिलाः स्त्रियः तासां जीवस्य जीवनस्य उपहारैण समर्पणेया मरणाय तदीयप्राणरूपोपायनप्राप्त्येत्यर्थः, हृष्टः सन्तुष्टो यो मन्मथः कामः तेन आस्फालितस्य कामिलक्ष्येषु बाणप्रक्षेपगाय भूयो भूय आकृष्टितस्य, चापस्य धनुषो रवात् शब्दात् भयेन त्रासेन स्फुटितानां विभिन्नानां पथिकहृदयानां वियोगिजनोरसां रुधिरैः शोणितैः सार्द्रीकृताः क्लिन्नीकृता मार्गा अध्वानो येषु तेषु । इह तथाविधशोणितैर्मार्गाणामाद्रीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः ।
अचिरतेति । अचिरतं विरन्तरं पतन्तः कामिलक्ष्यं प्रति धावन्तो ये कुसुमशरपत्रत्रिणः कामदेवबाणाः तेषां यानि पत्राणि पक्षाः (पुंखाः) तेषां सत्कारेण वेगागमनस्थानधिक 'सूंन्' इत्यव्यक्तध्वनिना बधिरीकृतानि दिङ्मुखानि तत्तद्दिक्स्यपायिजनश्रोत्राणि येषु तेषु । इहापि बधिरीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनात्पूर्वालङ्कारः ।
दिवेति । दिवाऽपि दिवसेऽपि, प्रवृत्तः समुत्पन्नः सन्तञ्चिते यो मदनरागः कामासक्तिः तेन सञ्चानां व्यग्रानाम् अमिसारिकाणां सुरताय सङ्केतस्थानं व्रजन्तीनां कामिनीनां सुन्दरीणां सार्थेन समूहेन सङ्केतेषु व्याजेषु ।
उद्वेलेति । उद्वेलो वेलामुल्लङ्घय गच्छन् (उन्मर्यादः) रतिरसः सुरतानुराग एव सागरः अगाधत्वात् समुद्रः तस्य पूरेण प्लवेन प्लावितेषु आच्छादितेषु । इह निरङ्गं केवलरूपकम् ।
सकलेति । सकलाः समग्रा ये जीवलोकाः तेषां हृदयाचन्दं चित्तप्रमोदं ददतीति तेषु, मधुनातादिवसेषु वसन्तवासरेषु ।
एकदेति । एकदा एकस्मिन् समये अम्बया जनन्या सह, मधुमासेन चैत्रेण विस्तारिता अतिरूपमुत्पादिता शोभा द्युतिः यस्य तत्, तथा प्रोत्फुल्लानि विकसितानि नवानि नूतनानि कुमुदानि श्वेतोत्पलानि, कुवलयानि नीलोत्पलानि कह्लारानि रक्तोत्पलानि च यत्र तत्, इदं पुरोऽवलोक्यमानम् अच्छोदं सरः अच्छोदाभिधानं कासारः स्नातुं स्नानाय अभ्यागन्तम् ।
अत्रेति । अत्र अस्मिन् स्थले स्नानायम् आप्लवनायम् आगतया गत्या भगवत्या ऐश्वर्यादिशक्तिमत्या पार्वत्या गौर्या तटशिलातलेषु तीरस्थप्रस्तरशेष्वप्रदेशेषु विलिखितानि रेखया रचितानि, सद्भृङ्गिरिटिना तत्संज्ञकशिवद्वातपालकरचा सह विद्यमानानीति सद्भृङ्गिरिटीनि 'भृङ्गिरिटिः' (पुं०) शिवद्वारपाल्यः
रहकर उसके फूलोंके मधुकी बूँदें गिर-गिरकर रूपी दुर्दिन (अत्यन्त वृष्टि) कर रहे थे; प्रोषितभर्तृकाओंके जीवन उपहार पाकर सन्तुष्ट चित्ते कामदेव अपने धनुषका बारंबार आस्फालन (टङ्कार) करता था, जिसके शब्दसे त्रस्त होकर विदीर्ण प्रवासियोंके हृदयोंसे बहते रुधिरसे समस्त मार्ग आर्द्र (तर) हो रहे थे; अनवरत (लगातार) गिरने कामदेवके बाणोंके पंखोंकी सूत्कारध्वनि (सनसनाहट) से समस्त दिशायें बधिर हो रही थीं; हृदयमें उत्पन्न कामवेगसे विह्वल होकर कामिनियों दिनमें भी सङ्केतस्थानमें जा रही थीं; रतानुरागरूप उच्छृङ्खल (उमड़ते) समुद्रके प्रवाहमें सब प्लावित हो (डूब) रहे थे। इस अच्छोदसरोवरमें स्नान करनेके लिए आई हुई भगवती पार्वतीके तीरवर्ती बहुत प्रस्तर खण्डके ऊपर गढ़ी हुई मूर्ति और रिटी सहित भृङ्गीकी मूर्त्तियेंके जिनके बालू-रेत (रेती) में बने हुए चरणोंके चिह्नोंको देखकर ऐसा अनुमान होता था कि यहाँ
१. ०'उद्दामै ।
२. ०'हृदन्नलेषु, सङ्केतसलितै ०...।
३. ०'रुधिरार्द्रीकृतेषु विमुखस्तनगोरेषु, रुधिरार्द्राणीष्विव विक्रुष्टस्तनार्तमार्गेषु ।
४. ०'पत्ररविरोहत०', पत्रकुङ्कमविरोहद०...।
५. ० हृष्ट-मदन ०...।
६. बानन्दकेषु ।
७. अम्बूपागन्तू, अभ्युपागन्त् ।
८. तन्मुण्डीरीने ।
महाश्वेतावृत्तान्तेऽव० २८ ] चन्द्रकला-विद्योतिनीसहिता। ४१७
प्रतिबिम्बकानि वन्दमाना, भ्रमर-भर-भुग्नगर्भ-केसर-जर्जरितकुसुमोपहार-रम्योऽयं लतामण्डपः, परभृत-नख-कोटि-पाटित-कुड्मल-जाल-विवरै-विगलितमधुधारः सुपुष्पितोऽयं सहकारतरुः, उन्मद-मयूर-कुल-कलकल-भीत-भुजङ्ग-मुक्ततला शिशिरेयं चन्दनवीथिका, विकच-कुसुम-पुञ्ज-पात-सूचित-वनदेवता-प्रेङ्खोलन-शोभनेयं लतादोला, बहुलकुसुमरजः-पटल-मग्न-कलहंस-पद-रेखामतिरमणीयमिदं तीरवनतलम् • इति स्निग्ध-मनोहरतराङ्गदृश-दर्शन-लोभाकृष्टहृदया सह सखीजनेन व्यचरम्।
एकस्मिंश्च प्रदेशे झटिति वनानिलोपनीतम्, निर्भरविकसितेऽपि कानने अभि-
द्वयङ्कलङ्कुलः। तया पांसुषु रजःसु निरुक्तैः मुद्रितैः अत एव कृत्स्नैः अस्पृष्टतयाऽव्यक्तयमानैः पदमण्डलैः चरणचिह्नसमूहैः अनुमितानि अनुमानविषयीकृतानि मुनिजनानां तपस्विवर्गाणां प्रणामप्रदक्षिणानि नमस्कृतिपरिक्रमणक्रिया येषां तानि । त्र्यम्बकस्य महेश्वरस्य प्रतिबिम्बकानि प्रतिमूर्तीः, वन्दमाना प्रणमन्ती, अहं व्यचरमित्युत्तरेण सम्बन्धः।
भ्रमरेति । भ्रमराणां मधुकराणां भरेण भारेण भुग्नाः कुटिलीकृताः गर्भकेसरा मध्यस्थामिश्रितमञ्जर्यः येषां तानि, अत एव जर्जरानि शतच्छिद्राणि यानि कुसुमानि पुष्पाणि तेषाम् उपहारेण वृन्तैश्च्युतैरितिप्रस्रपातनेन रम्यो मनोहरः।
परभृतेति । परभृताः कोकिलाः तेषां नखकोटिभिः नखराग्रैः पाटितानां विनिद्राणां कुड्मलानां कोरकाणामवबन्धानां विवरेश्यः विदिग्भ्यो विगलिताः विद्रुता मधूनां रसानां धारा आसारो यस्मिन् सः, सुपुष्पितः सम्यक्कुसुमसमुपयुक्तः अयं सहकारतरुः आम्रवृक्षः।
उन्मदेति । उन्मदो मदमत्तः यो मयूरः केकी तस्य कुलं वंशः तस्य कलकलेन कोलाहलेन भीतैः त्रस्तैः भुजङ्गैः सर्पैः मुक्तं परित्यक्तं तलं निम्नभागो यस्याः सा, शिशिरा शीतला, इयं दृश्यमाना चन्दनवीथिका मलयवृक्षपङ्क्तिः।
विकचेति । विकचस्य विकसितस्य कुसुमपुञ्जस्य पुष्पनिकरस्य पातेन पतनेन सूचितम् अनुमापितं यत् वनदेवतायाः अरण्यवास्ताव्याः प्रेङ्खोलनम् आन्दोलनं तेन शोभना मनोज्ञा, इयं दृश्यमाना लतादोला लतालम्बोदलनयन्त्रम्।
बहुलेति । बहुले अधिके पुञ्जीभूत इत्यर्थः कुसुमरजःपटले पुष्पपरागनिकरे मग्ना लीनाः कलहंसानां कादम्बानां पदरेखाः पादचिह्नानि यस्मिंस्तद्, अत एव अतिरमणीयम् अतिमनोहरम् इयं दृश्यमानं तीरसरस्तटं तदेतद्भावः प्रदेशः।
इतीति । इति पूर्व प्रकारेण स्निग्धानां नूतनकिसलयादिभिस्स्निग्धानाम् अत एव मनोहरतराणाम् अतिशयेन चित्तहारिणाम्, तद्देशानां वनैकप्रदेशानां दर्शनलोभेन अवलोकनतृष्णया आकृष्टम् आकृष्टं हृदयं येना वस्याः सा तादृशी अहम्, सखीजनेन वयस्याभिः समं व्यचरम् अभ्रमम्।
एकस्मिन्निति । झटिति सार्थः। एकस्मिन् प्रदेशे एकस्मिन् भागे इदिति शीघ्रं वनानिलोन, अरण्यपवनेन उपनीतम् आकृष्टम्, निर्भरम् अतिमात्रं यथा स्यात्तया विकसितेऽपि प्रस्फुटितेऽपि कानने
तपस्वियोंने प्रणाम करके प्रदक्षिण की थी- नमस्कार करती, यहाँ मधुकुरोंके भारसे नम्र (लचके) हुए गर्भ-तन्तुवाले जर्जरित पुष्पोंसे सुन्दर लता-मण्डप है, यहाँ सुपुष्पित आम्रवृक्ष है, इसकी विकसित हुई कलीकी टेंटीको कोकिलोंने नखायसे विदीर्ण (छिद्र) कर दिये हैं और उनसे मधुधारा निस्यन्द हो रही है, यहाँ मदमत्त मयूरोंके कोलाहलसे डरे हुए सर्पोंसे परित्यक्त हुए शीतल चन्दनवृक्षोंका वन है, यहाँ प्रस्फुटित पुष्पोंके गिरनेसे वनदेवताओंके भूलका ज्ञान सूचित करती, रमणीय लताओंकी दोला (हिंडोला) है, यहाँ प्रचुर पुष्पपरागके अन्दर गड़े कलहंसके चरणचिह्नोंवाला अतिरमणीय, तीरवर्ती वृक्षोंका तल है- यों कहती कहती सुस्निग्ध और अत्यन्त मनोहर स्थानोंको देखनेकी अभिलाषासे आकृष्ट चित्त होकर मैं सखियोंके साथ इतस्ततः भ्रमण करती रही। उसी समय किसी एक स्थानमें आई गई, समग्न वनके अत्यन्त विकसित होनेपर भी वन्य पुष्पोंके
१. 'बहुलकुसुमरजः', 'मग्न**' । २. 'दर्शनलोभावकृष्टहृदयोऽहं' । ३. ''कुङ्मलविवर'' । ४. ''समुन्निद्रतरुः। ५. मयूरकलकल'', 'सकलमयूरकलकल'। ६. चन्दनवनवीथिका । ७. अत्रैकस्मिन् ।
| ४१८ | कादम्बरी- | [ कथायाम्- |
|---|
भूतान्यकुसुमपरिमलम् , विसर्पन्तम् , अतिसुरभितया अनुलिम्पन्तमिव पूरयन्तमिव तर्पयन्तमिव घ्राणेन्द्रियम् , अहमहमिकया मधुकरकुलैरनुबध्यमानम् अनाघ्रातपूर्वम् , अमानुषलोकोचितम्, कुसुमगन्धमभ्यजिघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मधुकरीवाकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजात-नूपुरमणि-झङ्काराकृष्ट-सरःकलहंसानि कतिचित् पदानि गत्वा, हर-नयन^३-हुताशनेन्धनीकृत-मदन-शोकविधुरं वसन्तमिव तपस्यन्तम् , अखिल-मण्डल-प्राप्त्यर्थमीशान-शिरःशशाङ्कमिव धृत-
अरण्यकुसुमे इत्यर्थः, अभिभूताः तिरस्कृताः अन्येषां विजातीयानां कुसुमानां प्रसूनानां परिमलाः सौरभाणि येन तम् एतस्मादुत्कृष्टः कोऽपि परिमलो नास्तीत्याशयः । विसर्पन्तं सर्वतः प्रसरन्तम् । अतिसुरभितया अत्यन्तसौगन्ध्यवत्तया घ्राणेन्द्रियं नासिकाम् अनुलिम्पन्तमिव द्रवपदार्थवत् सर्वावयवेषु व्याप्नुवन्तमिव, पूरयन्तमिव परिपूर्णं कुर्वन्तमिव, तर्पयन्तमिव तृप्तिं जनयन्तमिव, अहमहमिकया 'अहमग्रे अहमग्रे' इत्यहङ्कारेण मधुकरकुलैः भ्रमरसमूहैः अनुबध्यमानम् अनुगम्यमानम् , अनाघ्रातपूर्वम् अघ्राणविषयीकृतपूर्वम् अमानुषलोकोचितं देवलोकयोग्यं कुसुमगन्धं पुष्पसौरभं जनमनोहारिणमित्यर्थः अजिघ्रम् घ्राणविषतामनयम् ।
इह 'अनुलिम्पन्मिव, पूरयन्तमिव, तर्पयन्तमिव' इति तिसृणामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः ।
कुत इति । कुतः कस्मात् प्रदेशाद् अयं गन्ध आयातीति शेषः इत्येवम् उपारूढम् उत्पन्नं कुतूहलं यस्याः सा तादृशी चाहम् , तेन कुसुमगन्धेन पुष्पामोदेन मुकुलिते कोरकवदीपदुन्मीलिते लोचने नयने यस्याः सा मधुकरी भ्रमरीव आकृष्यमाणा बलात्कारेण नीयमाना च सती, कौतुकेन कुतूहलेन तरलः द्रुतपदक्षेपाय कम्पः, अत्यधिकतरं पूर्वस्मादतिमात्रं यथा स्यात्तथा उपजात उत्पन्नो यो नूपुरमणीनां पादकटकखचितरत्नानां झङ्कारः 'झं झं'इति शब्दविशेषः तेन आकृष्टाः नूपुरखचितरत्नश्रवणेन कलहंसानामुपस्थितेः प्रागुक्तिकत्वात् चरणान्तिकमानीताः सरःक्लहंसाः कासारकादम्बा यैस्तानि, कतिचित् कियन्ति पदानि गत्वा, 'अतिमनोहरं स्नानार्थमागतं मुनिकुमारकमपश्यम्' इति दूरेण सम्बन्धः । इह द्वितीयेकवचनान्तपदानि अग्रेतनस्य 'मुनिकुमारकम्' इत्यस्य विशेषणानि ।
हरेति । हरनयनस्य महेशतृतीयनेत्रस्य यो हुताशनो वह्निः तेन इन्धनीकृतः भस्मीकृत इत्यर्थः यो मदनः कामः तस्य शोकेन खेदेन विधुरं विह्वलम् अत एव तपस्यन्तं वैराग्यात्तपश्चरन्तं वसन्तं सुरभिसमयमित्र, पुष्पसौरभवत्त्वात्तस्य कामसखत्वाच्चेत्याशयः । इह पदार्थहेतुककाव्यलिङ्गेन द्रव्योत्प्रेक्षा सङ्कीर्यते ।
अखिलेति । अखिलमण्डलप्राप्त्यर्थं तत्स्वरूपस्य कलामात्रत्वात् समस्तमण्डललाभार्थं घृतव्रतं स्वीकृततपोनियमम् , ईशानशिरःशशाङ्कं महेशभालस्थचन्द्रमिव, तत्सदृशधवलरूपत्वादित्याशयः । उक्ताऽलङ्कारः ।
सौरभको परास्त करता, सब स्थानोंमें फैलता, अत्यधिक सुगन्धि होनेसे घ्राणेन्द्रियको मानो लिप्त करता, तृप्त करना, पूर्ण करता, उतावलीमें द्रुततर-पदक्षेप करते (दौड़ते) भ्रमरोंके झुण्डोंसे अनुगत, 'अनाघ्रातपूर्व, मनुष्य-लोकके अयोग्य पुष्प-सौरभ आया । 'यह कहाँसे आया है ?' ऐसा कौतूहल उत्पन्न होनेसे मैं, थोड़ा-थोड़ा नयन उन्मीलित (आँखें मीच ) कर, भ्रमरीके समान उस कुसुम-सौरभसे आकृष्ट हो, जिज्ञासासे चञ्चल होकर, कितने ही पद (कदम) आगे गई । मेरे पदक्षेप करनेसे अधिक हिलते नूपुर-मणि के झङ्कारसे अच्छोदसरोवरमेंसे कलहंसगण आकृष्ट होकर दौड़ने लगे । उसके बाद स्नान करनेके लिए आए हुए एक अत्यन्त सुन्दर मुनिकुमारको मैंने देखा । उसे देखकर प्रतीत होता था कि—महादेवके नयनमेंसे निकली अग्निसे भस्मसात् किये (जलाये) गये कामदेवके शोकसे विह्वल होकर वसन्त मानो तपस्या करता था, महादेवके मस्तकस्थित क्षुद्र-चन्द्र मानो अपने सम्पूर्ण
१. मधुकरानुकृष्यमाणा, **मधुकरीवावकृष्यमाणा ।
२. मणिनूपुर ।
३. क्वचित् 'नयन' इति पदं न विद्यते ।
पुण्डरीकवर्णना ५९ ] चन्द्रकला-विद्योतिनोसहिता
व्रतम्, अयुग्मलोचनं वशीकर्त्तुं कामं काममिव सनियमं अतितेजस्वितया प्रचलत्तडिल्लता-पञ्जर-मध्यगतमिव ग्रीष्म-दिवस-दिवसकर-मण्डलोदर-प्रविष्टमिव ज्वलन-ज्वाला-कलाप-मध्य-स्थितमिव विभाव्यमानम्, उन्मिषन्त्या बहुलबहुलया दीपिकालोकपिङ्गलया देहप्रभया कपिली-कृतकाननं कनकमयमित्र तं प्रदेशं कुर्वाणम्, रोचना रस-लुलित-प्रतिसर-सभान-सुकुमार-पिङ्गे-ङ्गल-जटम्, पुण्यपताकायमानया सरस्वतीसमागमोत्कण्ठा-कृत-चन्दनरेचयैव भस्मलाटिकाया बालपुलिनलेखयेव गङ्गाप्रवाहमुद्भासमानम्, अनेक शाप-भ्रुकुटि-भवनतोरणेन भ्रूलता-
अयुग्मेति। अयुग्मे विषमे लोचने नयने यस्य तं त्रिलोचनं महेशम्, वशीकर्त्तुं स्वापराधेन प्रतिकूलीभूतत्वात् पुनः प्रसादीकर्त्तुं कामः स्पृहाऽस्येति तम्, अत एव सनियमं महेशोपासणारूपव्रतसहितं कामं मन्मथमिव, तद्गत्यन्तरमगीयस्त्वादित्याशयः। उक्तालंकारः।
अनेति। अतितेजस्वितया नितान्तप्रतापवत्तया कारणेन, प्रचलाः स्पन्दमाना याः तडिल्लताः विद्युल्लताः तासां पञ्जरमध्यगतमिव समूह्वाभ्यन्तरस्थितमिव ग्रीष्मदिवसस्य तत्समये सूर्यस्यातितेजस्वित्त्वादित्याशयः, यत् दिवसकरमण्डलं सूर्य्यबिम्बं तस्य उदरे अन्तः प्रविष्टमिव, तथा ज्वलनस्य वह्नेर्यो ज्वालाकलापः शिखासमूहः तस्य मध्यस्थितमिव अभ्यन्तरगतमिव, विभाव्यमानं प्रतीयमानम्।
इह '...मध्यगतमिव' '...प्रविष्टमिव' '...मध्यस्थितमिव' इति तिसृणां क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण विद्यमानतया संसृष्टिः। एवं दिवसपदस्य पुनरुक्त्या पुनरुक्तत्वं दोषः समापतति स च हि ग्रीष्मसमयेति पाठेन समाधातुं शक्यः।
उन्मिषन्त्येति। उन्मिषन्त्या शरीरादेव विकसन्त्या, बहुलबहुलया अत्यधिकया, दीपकालोकवत् प्रदीपप्रभावत् पिङ्गलया पिञ्जरया, देहप्रभया शरीरकान्त्या, कपिलीकृतं पिङ्गलवणींकृतं काननमरण्यं येन तम्, अत एव तं प्रदेशं स्थानं कनकमयमित्र कुर्वाणं विदधतम्।
इह 'दीपालोकपिङ्गटया' इत्यत्र लुप्तोपमा, काननस्य पिङ्गलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, पदार्थहेतुकं काव्यलिङ्गम्, गुणोत्प्रेक्षा चेत्येतासामङ्गाङ्गिभावसङ्करः।
रोचनेति। रोचनारसेन गोरोचनाद्रवेण लुलितो रक्तो यः प्रतिसरः परिणयादिधारणीय हस्तसूत्रं तत्समानाः तत्सद्दश्याः सुकुमाराः सुकोमलाः पिङ्गलाः पिञ्जराश्च जटाः सटा यस्य तम्। इह लुप्तोपमा।
पुण्येति। पुण्यपताकायमानया धर्मवैजयन्तीवदाचरमाणया, तस्या अपि श्वेतत्त्वादित्याशयः। सरस्वत्या भारत्याः समागमाय सङ्गमाय या उत्कण्ठा उत्कलिका नया कृता विहिता या चन्दनरेखा मलयजरेखा तयैव विद्यमानया, भस्मनो विभूतेः ललाटिकया पुण्ड्रकविशेषेण बालपुलिनलेखया सूक्ष्मजलोत्थिततीरलेखया गङ्गाप्रवाहिक्रेव, उद्भासमानम्।
इह 'पुण्यपताकायमानया' इत्यत्र व्यङ्ग्यगतोपमा, '...चन्दनरेखयेव' इत्यत्र जात्युत्प्रेक्षा, 'गङ्गाप्रवाहमिव' इत्यत्र श्रौतोपमा चेति परस्परेतासामङ्गाङ्गिभावसङ्करः।
अनेकेति। अनेके अगणिता ये शापा अभिसम्पाताः, तेभ्यो भ्रुकुटिः भ्रूसङ्कोच एव भवनं सद्म तस्य तोरणेन द्वारस्थायिधनुराकृतिदारुविशेषरूपेण भ्रूलताद्वयेन भ्रूयल्लीयुगलेन करणेन विराजितं शोभितम्।
मण्डलकी प्राप्तिके लिए व्रतालम्बन किया था, कामदेव मानो फिरसे महादेवको प्रसन्न करनेकी इच्छा कर उसके उपासना-रूप व्रतका अवलम्बन किया था, और वह मुनिकुमार अत्यन्त तेजस्वी था, इससे प्रतीत होता था कि मानो चमकती हुई विजलियोंके पिजरेमें हो, ग्रीष्मकालके सूर्यमण्डलके उदरमें प्रविष्ट हुआ हो, या अग्निकी लपटोंके मध्यमें खड़ा हो। शरीरमेंसे निकलती दीपप्रकाशके समान पीली, चारों ओर अत्यन्त झलकती प्रभासे उस वनको पीला करके, उस स्थानको मानो वह सुवर्णमय (सुनहरा) बना रहा था। उसके मस्तकमें जटा गोरोचनके रसमें डुबाये हुए विवाहादिमें धारणीय मङ्गल-हस्त-सूत्रके समान सुकुमार और पीली थीं। उसके ललाटमें धर्मपताकाके समान एवं सरस्वतीके साथ समागमकी उत्कण्ठाने की हुई चन्दन रेखाके समान भस्मका तिलक था, उससे वह क्षुद्र वालुकामय पुलिन-रेखाद्वारा गङ्गाप्रवाहके समान शोभायमान प्रतीत होता था। उसकी दोनों भ्रूलताएँ बहुतर अभिसम्पात (शाप) कालकी भुकुटियोंके भवन-तोरणके समान लगती थीं। लोचनोंके
१. प्रचलत्त..., ग्रीष्मदिवसं दिवस... ज्वलनं ज्वाला... जटदनल, ज्वलज्ज्वलन। २. सुकुमारजटम्। ३. ...चन्दनलेखयेव। ४. *रेखयेव। ५. उद्भाव्यमानम्। ६. भृकुटि, भ्रेकुटिः।
| ४२० | कादम्बरी- | [कथामुखम् |
|---|
द्वयेन विराजितम्; अत्यायततया लोचनमयीं मालामिव प्रथितामुद्वहन्तम्; सर्वहरिणैरिव दत्तलोचनशोभासंविभागम्; आयतोत्तुङ्गघ्राणवंशम्; अप्राप्तेन्द्रियप्रवेशेन नवयौवनरागेणेव सर्वात्मना पाटलीकृताधररुचकम्; अनुद्भिन्नश्मश्रुत्वात् अनासादितमधुकरावलिवलयपरिक्षेपविलासमिव बालकमलमाननं दधानम्; अनङ्गकार्मुकगुणेनेव कुण्डलीकृतेन तपस्तडागकमलिनीमृणालेनेव यज्ञोपवीतेनालङ्कृतम्; एकेन सनालबकुलफलाकारं कमण्डलुम्, अपरेण मकरकेतुविनाशशोकरुदिताया रतेरिव बाष्पजलबिन्दुभिरारचितां स्फाटि-
इह परम्परितरूपकम् ।
तत्तेति। अत्यायततया नयनयोरतिविस्तीर्णतया कारणेन लोचनमयीं नेत्रमयीं प्रथितां गुम्फितां मालामिव विसारित्वात् स्रजमिव उद्वहन्तं धारयन्तम्। जात्युत्प्रेक्षा।
सर्वैति। सर्वहरिणैः समग्रमृगैः दत्तः अर्पितो लोचनशोभाया निजनयनद्युतेः संविभागो विभक्तांशो यस्मै तमिव मृगवन्नयनशोभावत्वादित्याशयः। इह तथाविधादानोत्प्रेक्षात् क्रियोत्प्रेक्षा।
आयतेति। आयतो विस्तीर्ण उत्तुङ्ग अभ्युच्चश्च घ्राणवंशो नासिकादण्डो यस्य तम्।
अप्राप्तेति। अप्राप्तः वशेन्द्रियत्वादलब्धश्च हृदये चित्ते प्रवेशो येन तेन, नवयौवनस्य प्रत्यग्रतारुण्यस्य रागः सुन्दरीष्वनुराग एव रागो लौहित्यं तेन, सर्वात्मना सर्वप्रकारेणप्रयत्नेन, पाटलीकृतं श्वेतरक्तीकृतम् अधरो रुचको बीजपूर इव यस्य तम्। ‘रुचको बीजपूरे च निष्के दन्तक्षतौ तयोः’ इति मेदिनी!
इह अनुरागलौहित्ययोर्भेदेऽपि रागसुन्दरश्लेषेणाभेदाध्यवसायादतिशयोक्तिः, प्राक्तिकश्वेतरक्ताधरे प्रत्यग्रतारुण्यरागकर्तृकपाटलीकरणोत्प्रेक्षणात्क्रियोत्प्रेक्षा, ‘...अधररुचकं’ इत्यत्र लुप्तोपमा चेति परस्परनासामङ्गिभावासङ्करः।
अनुद्भिनेति। न उद्भिन्नानि प्रकटितानि श्मश्रूणि मुखलोमानि यस्य तस्य भावस्तत्त्वं तस्मात्कारणात्, न आसादितो लब्धः, मधुकरालीनांवलयेन भ्रमरपङ्क्तिमण्डलेन परिक्षेपविलासः परिवेष्टनशोभा येन तत्तथोक्तम्, बालकमलम् नलिनवपुर्मुखमिव, आननं मुखं दधानं धारयन्तम्। इह ‘बालकमलमिव’ इत्यत्र श्रौतोपमा।
अनङ्गेति। अनङ्गस्य कामस्य कार्मुकगुणेनेव धनुर्ज्ययेव, सुन्दरीणां कामोद्दीपनादित्याशयः, कुण्डलीकृतेन वलयीकृतेन, तथा तप एव तडागः सरोवरः तस्य या कमलिनी नलिनी तस्या मृणालेन बिसेनेव, श्वेतत्वादित्यभिप्रायः, यज्ञोपवीतेन यज्ञसूत्रेण अलङ्कृतं विभूषितम्।
इह ‘कार्मुकगुणेनेव’ इत्यत्र श्रौतोपमा, ‘तपस्तडागे’ त्यत्र निरङ्गकेवलरूपकम्, ‘...कमलिनीमृणालेनेव’ इत्यत्र च पुनः श्रौतोपमा, संसृष्टिमङ्गिभावसङ्करः।
एकेनेति। एकेन करेण वामहस्तेनेत्यर्थः, सनालं सवृन्तं यद् बकुलफलं केसरफलं तद्वत् आकार आकृतिर्यस्य तं तथोक्तं कमण्डलुं कलयन्तमिति सम्बन्धः। कमण्डलोरपि नालसत्त्वाद् सनालेति विशेषणम्। अपरेण च दक्षिणेन हस्तेन मकरकेतोः कामस्य विनाशशोकेन हरतृतीयलोचनस्मजनितशोकेन रुदितायाः कृताश्रुपाताया रतेः कामपत्नयाः बाष्पजलबिन्दुभिः नेत्रवारिपृषद्भिः आरचितां निर्मितामिव, श्वेतत्वादित्यभिप्रायः, स्फाटिकस्य श्वेतमणेः अक्षमालिकां जपमालिकां कलयन्तम् धारयन्तम्। तत्तपस्विकुमारस्य समस्तसामग्रीणामेव कामोद्दीपकत्वं प्रत्याययितुं मकरकेतुसम्बन्धिविशेषणमियत्यवेयम्। इह प्रथमविशेषणे साधर्म्योपमा, द्वितीयविशेषणे च क्रियोत्प्रेक्षेति परस्परमनयोनैरपेक्ष्येण विद्यमानतया संसृष्टिः।
अत्यन्त विस्तृत होनेके कारण उसने मानो लोचनों की ही गूँथी माला धारण किया था। समस्त हरिणोंने मानो उसके लोचनोंकी शोभाको दानद्वारा विभक्तकर दिया था। उसका नासिकादण्ड लम्बा और ऊँचा था। नवयौवनका अनुराग उसके हृदयमें प्रवेश नहीं कर सका था इसलिए ही मानो बीजपूरक फलके समान उसका ओष्ठयुगल श्वेतरक्त था। दाढ़ी न निकलनेके कारण उसका मुखमण्डल, भ्रमरपङ्क्तियोंके द्वारा मण्डलरूपसे परिवेष्टनरूप शोभाविहीन बालकमलके समान दिखलाई देता था। कामदेव-धनुषके मण्डलाकार किये हुए गुण (डोरी) के समान एवं तपस्यारूपी सरोवरकी कमलिनीके मृणालके समान शुभ्रवर्ण यज्ञोपवीत उसने धारण किया था। एक हाथमें उसने, वृत्तसहित (डंडी सहित) बकुलफलके सदृश एक कमण्डलु धारण किया था और दूसरे हाथमें कामदेवके विनाशसे शोकातुर हो रुदन करती रतिके मानो अश्रुबिन्दुओंके द्वारा ही निर्मित हुई एक
१. अनुद्भूत, ॰भ्रमरावलि० । २. कार्मुकगुणेन ।
पुण्डरीकवर्णनम् ५९ ] चन्द्रकला-विद्योतिनीसहिता । ४२१
काक्षमालिकां करेण कलयन्तम् , अनेक-विद्यापगा-सङ्गमावर्त्तनिभया नाभिसमुद्रयोपशोभमानम् , अन्तर्ज्ञाननिराकृतस्य मोहान्धकारस्यापयान²-पदवीमिवाञ्जनरजोलखाश्यामलां रोमराजिमुदरेण तनीयसीं³ बिभ्राणम् , आत्मतेजसा विजित्य सवितारं परिगृहीतेनं⁴ परिवेषमण्डलेनेव मौञ्जमेखलागुणेन परिक्षिप्तजघनभागम् , अभ्रगङ्गास्रोतो जलप्रक्षालितेन जरच्चकोरलोचनपुट-पाटल कान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम्, अलङ्कारमिव ब्रह्मचर्य्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम् , सङ्केत-
अनेकेति । अनेका नानाप्रकारा विद्या आन्वीक्षिक्याद्या एव आपगा नद्यः तासां सङ्गमे सम्मेलने य आवर्त्तः अम्भसां भ्रमः तन्निभया तत्सदृश्या नाभिसमुद्रया तुन्दकूपिकया उपशोभमानं विराजमानम् ।
इव '...विद्यापगां' इत्यत्र निरङ्गकेवलरूपकम् , 'आवर्त्तनिभया' इत्यत्र आर्थोपमेययोरङ्गाङ्गिभावसङ्करः ।
अन्तरिति । उदरेण जठरेण करणेन, अन्तर्ज्ञानेन आन्तरिकतत्त्ववोधेन निराकृतस्य दूरीकृतस्य, मोहाऽज्ञानमेव अन्धकारस्तिमिरं तस्य अपयानपदवीमिव निःसरणमार्गमिव, अञ्जनरजसां कज्जलधूलीनां लेखेव रेखेव श्यामला कृष्णा ताम् , तनीयसीं केवलमुरस्यारम्भात् कृशतरां रोमराजिं तनूरुहश्रेणीं बिभ्राणं दधानम् ।
इह मोहे तिमिरत्वारोपः शाब्दः, अन्तर्ज्ञाने प्रकाशत्वारोपस्त्वार्थः इत्येकदेशविवर्त्तिरूपकम् , 'अपयानपदवीमिव' इत्यत्र जात्युत्प्रेक्षा, 'अञ्जनरजोलखाश्यामलाम्' इत्यत्र लुप्तोपमा चेत्यासामङ्गाङ्गिभावसङ्करः । अपुष्टार्थत्वदोषस्तु न, तरलाञ्जनरेखावत् लोमावल्याः सर्वथा सादृश्यराहित्यव्यञ्जनार्थं रजः पदोपादानात् ।
आत्मति । आत्मतेजसा स्वकीयतपःप्रभावेण सवितारं सूर्य्यं विजित्य पराभूय परिगृहीतेन हठादानीतेन, परिवेषमण्डलेनेव परिधिवलयेनेव विद्यमानेन, मौञ्जमेखलागुणेन मुञ्जनिमित्तरशनाडोरकेण परिक्षिप्तः परिवेष्टितः जघनभागः अग्रप्रदेशो यस्य तम्। जात्युत्प्रेक्षा ।
अभ्रेति । अभ्रगङ्गायां व्योमनद्याः स्रोतो जलेन प्रवाहसलिलेन प्रक्षालितं धौतं तेन, जरतो वृद्धस्य चकोरस्य जीवञ्जीवस्य पक्षिविशेषस्य लोचनपुटवत् पाटला श्वेतरक्ता कान्तिः शोभा यस्य तेन मन्दारस्य देववृक्षविशेषस्य वल्कलेन त्वचा करणेन , उपपादितं सम्पादितम् अम्बरप्रयोजनं परिधेयवसनकृत्यं येन तम् , तयोरेकमेकं मन्दारवल्कं परिदधानमित्यर्थः । 'इह जरच्चकोरलोचनपुटपाटले' त्यत्र लुप्तोपमा । इहाऽपुष्टार्थत्वदोषस्तु न भवति, वृद्धचकोरस्यैव नयनपुटद्युतिरधिकश्वेतरक्ती भवतीति ध्वननार्थं जरत्पदोपादानात् ।
अलमिति । ब्रह्मचर्य्यस्य स्त्रीसम्बन्धपरिवर्जनरूपस्य अलङ्कारं भूषणमिव, एनं प्राप्य पूर्णावयवतया तस्य कान्त्यतिशयादित्याशयः ब्रह्मचर्यलक्षणमाहाह्निकसूत्रावल्याम्—
'स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्व्वत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपर्ययं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम् ॥'
धर्मस्य सुकृतस्य यौवनं तारुण्यमिव, इह पूर्णत्वादित्यभिप्रायः । सरस्वत्या भारत्या विलासं विभ्रममिव, एनं प्राप्य तस्या अपि अत्यधिककान्तिप्रापणादिति भावः । सर्वविद्यानाम् आन्वीक्षिक्यादिचतुर्दश-
स्फटिकमय अक्षमालिका ( जपमाला ) धारण की थी। उसकी नाभिमुद्रा बहुविध विद्यारूपी नदियोंके संगमते उत्पन्न हुए आवर्त्तके समान शोभायमान थी। आन्तरिक तत्त्वज्ञानरूपी प्रकाशसे निकाले गए मोहान्धकारके बाहर निकलनेके मार्गके समान एवं कज्जल-रेणु-रेखाके समान कुछ-कुछ श्यामवर्ण महीन रोमराजि उसके उदरपर निकल रही थी । अपने तेजसे सूर्यको पराजित कर बलपूर्वक लाए हुए परिवेष-मण्डलके समान एक मुञ्जमेखला ( मूँजकी तागड़ीकी डोरी ) से उसका जघनदेश परिवेष्टित था और आकाशगङ्गाके स्रोतो-जलमें प्रक्षालित, एवं वृद्ध चकोर-पक्षीके लोचनके समान श्वेतरक्त-कान्ति-सम्पन्न एक मन्दार वृक्षके वल्कलसे उसके वस्त्रका प्रयोजन-सम्पादन होता था ( अर्थात् उस प्रकारका एक वल्कल पहना था )। और ब्रह्मचर्यका मानो वह अलङ्कार था, धर्मका मानो यौवनकाल था, सरस्वतीका मानो विलास था, सब विद्याओंका मानो स्वयंवर-पति था और सब वेदोंका
१. स्फटिकगुलिकाक्षमालिकां । २. अपनयन । ३. '...तनीयसा तनीयसीं । ४. आगृहीतेन । ५. आपत्तिमिव ।
| ४२२ | कादम्बरी- | [ कथायाम्- |
|---|
स्थानमिव सर्वश्रुतीनाम्$^१$, निदाघकालमिव साषाढम्, हिमसमयकाननमिव स्फुटितप्रियंगु-मञ्जरीगौरम्, मधुमासमिव कुसुम-धवल-तिलक-भूति-भूषित$^२$-मुखम्, आत्मानुरूपेण सवयसा अपरेण देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतम्, अतिमनोहरम्, स्नानार्थमागतम्, मुनिकुमारमपश्यम् ।
तेन च कर्णावतंसीकृतां वसन्तदर्शनानन्दितायाः स्मितप्रभामिव वनश्रियः, मलयमारुतागमनार्थं$^३$ लाजाञ्जलिमिव मधुमासस्य, यौवनलीलामिव कुसुमलक्ष्म्थाः, सुरत-परिश्रम-
विद्यानामित्यर्थः, स्वयं व्रियत इति स्वयंवरस्तद्योक्तः पतिः स्वामी तमिव, विद्याभिः स्वयमेवाश्याङ्गीकरणात् अनेन च तदर्थं प्रयत्नाकरणादित्याशयः । सर्वश्रुतीनां समस्तवेदानां सङ्केतस्थानमिव संयोगाय मिथो निर्दिष्टभूमिमिव, स्वेनैव तासां तत्रागमनादित्यभिप्रायः । यद्यपि सर्वविद्यासु श्रुतीनामप्यन्तर्भावो भवत्येव तथापि प्राधान्यबोधनाय पृथगुपन्यासः गोवलीवद्दन्यायात् ।
इह 'अलङ्कारमिव' इत्यारभ्य 'सङ्केतस्थानमिव' इत्यन्तं यावत् सर्वत्र जात्युत्प्रेक्षालङ्कारः ।
निदाघेति । निदाघकालं ग्रीष्मसमयमिव, आषाढेन आषाढदण्डेन शुचिमासेन च सहेति साषाढम् । 'आषाढो यतिनां दण्डे मासे मलयपर्वते' इति 'शुचिर्ग्रीष्माग्निशृङ्गारैष्वाषाढे शुद्धमन्त्रिणि' इति च मेदिनी ।
हिमेति । हिमसमयः शीतकालः तस्य काननं वनमिव, स्फुटिता प्रफुल्ला या प्रियंगुमञ्जरी फलिनीवल्लरी तद्वद् गौरं शुभ्रवर्णं प्रियंगुमञ्जर्या च गौरम्। शीतसमय एव तत्स्फुटनात् हिमसमयेति विशेषणम् ।
मध्विति । मधुमासश्चैत्रमासः तमिव, कुसुमवत् पुष्पवत् धवला शुभ्रा या तिलकभूतिः त्रिपुण्ड्रात्मकं भस्म तया भूषितम् अलङ्कृतं मुखम् आननमण्डलं यस्य तम्, अन्यत्र तु कुसुमैः पुष्पैः धवला ये तिलकाः तिलकसंज्ञकवृक्षविशेषाः तेषां भूत्या समृद्ध्या भूषितं मुखम् अग्रभागो यस्य तम्, वसन्तप्रथमकाल एव तिलकतरूणां प्रसूतोत्पत्तेः । 'तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके । तिलकं रुचके क्लोम्नि' इति हैमः। 'भूतिर्भस्मनि सम्पत्तिहस्तिशृङ्गारयोः स्त्रियाम्' इति मेदिनी ।
इह 'निदाघकालमिव' इत्यारभ्य 'मधुमासमिव' इत्यन्तं पूर्णोपमालङ्कारः ।
आत्मेति । आत्मानुरूपेण आत्मसदृशेन समानं तुल्यं वयोऽवस्था यस्य तेन सवयसा मित्रेण अपरेण द्वितीयेन देवतार्चनकुसुमानि देवपूजनपुष्पाणि उच्चिन्वता अवचयनं कुर्वता तापसकुमारेण मुनिबालकेन अनुगतं सहितम्, अतिमनोहरम् अतिरुचिरं स्नानार्थम् आप्लवार्थम् आगतम् आयातम्, मुनिकुमारं तापसबालकम् अपश्यम् अवलोकयम् । 'मुनिकुमारकम्' इत्यत्रानुकम्पार्यै कः ।
तेनेति । क्लिङ्गेति चार्थः । तेन मुनिकुमारेण कर्णावतंसीकृतां श्रवणविभूषणीकृतां कुसुममञ्जरीमद्राक्षमित्यन्वयः । वसन्तस्य ऋतुराजस्य दर्शनेन अवलोकनेन आनन्दितायाः प्रहर्षितायाः वनश्रियः काननलक्ष्म्याः, स्मितप्रभां मन्दहास्यच्छविमिव, श्वेतत्वसादृश्यादित्याशयः । मधुमासस्य चैत्रमासस्य, मलयमारुतस्य मलयानलिस्य आगमनार्थम् आगमनाभिनन्दननिमित्तं यो लाजाञ्जलिः अञ्जलिपूर्णा धानाः तमिव, श्वेतत्वसादृश्यादित्याशयः । अन्योऽपि सम्माननीयपुरुषामने तदभिनन्दनाय लाजानादत्त इति । कुसुममक्ष्म्याः पुष्पश्रियॊ यौवनलीलामिव तारुण्यक्रीडामिव, कामाभिव्यक्तिकत्वादित्याशयः । रतेः काम
मानो सम्मिलित होनेका सङ्केतस्थान था। ग्रीष्मकालमें जिस प्रकार आषाढ़मास रहता है, उसके हाथमें भी उसी प्रकार एक दण्ड था; शीतकालका वन जिस प्रकार स्फुटित प्रियङ्गुमञ्जरी द्वारा गौरवर्ण होता है, वह भी उसी प्रकार प्रस्फुटित प्रियंगुमञ्जरीके समान गौरवर्ण था; चैत्रमासके प्रथम भाग (वसन्तके आरंभ) में जिस प्रकार तिलक-वृक्ष श्वेतवर्ण पुष्पोंसे भूषित होता है, उसका मुखमण्डल भी उसी प्रकार पुष्पके समान श्वेतवर्ण भस्मके तिलकसे भूषित था; और अपने अनुरूप और समान वयस्क एक दूसरा मुनिकुमार देवपूजन करनेके लिए पुष्पचयन करता-करता उसके पीछे-पीछे था ।
पूर्ववर्णित उस ऋषिकुमारके कानमें उसी, अमृतविन्दु टपकाती एक अदृष्टपूर्व कुसुममञ्जरीको मैने देखा । वह मानो—वसन्तकाल दर्शनसे आनन्दित हुई वनलक्ष्मीकी ईषद्धास्यप्रभाके समान, मलय-पवनके स्वागताभिनन्दनके लिए चैत्रमास (वसंत) की लाजाञ्जलीके समान, कुसुम-श्रीकी यौवन-लीलाके समान, रतिदेवीके
१. सर्वश्रुतानाम् ।
२. ॰॰॰विभूषित॰ 'कुपित॰॰॰' ।
३. ॰॰॰आगमनार्थं ।
पुण्डरीकवर्णनम् ५९ ] चन्द्रकला-विद्योतिनीसहिता । ४२३
स्वेद-जल-कण-जालकावलीमिव रतेः, ध्वजचिह्न-चामर-पिच्छिकामिव मनोभवगजस्य, मधुकर-कामुकाभिसारिकाम्, कृत्तिकातारास्तवकानुकारिणीम्, अमृतबिन्दुनिष्यन्दिनीम्, अदृष्टपूर्वां कुसुममञ्जरीमद्राक्षम्। 'अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमलः' इति मनसा निश्चित्य तं तपोघन-युवानमीक्षमाणाहमचिन्तयम्-'अहो! रूपातिशय-निष्पादनोपकरणकोशस्य अक्षीणता विधातुः यत्त्रिभुवनाद्भुतरूपसम्भारं भगवन्तं कुसुमायुधमुत्पाद्य तदाकारानिरिक्तरूपराशिः अयमपरो
पन्त्याः सुरतपरिश्रमेण सादलेपजनितस्वेदेन यानि स्वेदजलानि शरीरनिःसृतघर्मजलानि तेषां कण-जालकावलीमिव बिन्दुसमूहपङ्क्तिमिव, तद्वत् निर्मलश्वेतत्वादित्यभिप्रायः। मनोभवः काम एव गजो हस्ती तस्य, ध्वजस्य पताकायाः चिह्नभूपा लक्ष्मरूपा या चामरपिच्छिका निम्नगुम्फिता चामररूपा पिच्छिका बर्हचूडा तामिव, तत्पिच्छिकावलोकनेन गजप्राकट्यज्ञानवत् तन्मञ्जर्यवलोकनेन कामाविष्कार-प्रतीतेरित्याशयः।
'पिच्छा पूगच्छटाछोपमोचाशाखामलिद्वेटके। मरुम्ममभूतमण्डे च पङ्क्तावश्वपदामये। स्त्रियां पुंसि तु लाङ्गूले न द्वयोर्बर्हिचूडयोः॥'
इति मेदिनी। मधुकरो भ्रमर एव कामुकः कामाभिलाषी तस्य अभिसारिकाम् 'अभिसारयते कान्तं स्वयं वाऽभिसरत्यपि' इत्यादिलक्षणेन कामिजनानयनकारिणीं स्वयं वा सङ्केतस्थलगामिनी नायिकामिव, तदुद्देशेन द्रुतगमनादित्याशयः। कृत्तिकाताराः कृत्तिकासंज्ञकानि षट् नक्षत्राणि तेषां स्तवकं गुच्छम् अनुकर्तुं शीलं यस्याः ताम्, अत्यधिकश्वेतत्वादित्याशयः। अमृतबिन्दुनिष्यन्दिनीं मधुकणस्राविणीम्, अदृष्टपूर्वाम् अनवलोकितपूर्वां कुसुममञ्जरीं पुष्पमञ्जरीम् अद्राक्षम् अपश्यम्।
इह 'स्मितप्रभामिव, ......'लाजाञ्जलिमिव' इत्युभयत्र जात्युत्प्रेक्षा। 'यौवनलीलामिव' इत्यत्र गुणोत्प्रेक्षा। '......'जालकावलीम्' इत्यत्र जात्युत्प्रेक्षा। '......'चामरपिच्छिकामिव' इत्यत्रापि जात्युत्प्रेक्षा, 'मनोभवगजस्य' इत्यत्र तु निरङ्गकेवलंरूपकम्, इत्युभयोरङ्गाङ्गिभावसङ्करः। 'मधुकरकामुके'त्यत्र मधुकरे कामुकत्वारोपो मञ्जर्यामभिसारिकारोपे निमित्तमिति परम्परितरूपकम्। 'कृत्तिकातारास्तवकानुका-रिणीम्' इत्यत्र तु आर्योपमा।
अस्या इति। अस्याः कुसुममञ्जर्याः, अयं परिमलो गन्धः, परिभूतोऽभिभूतः तिरस्कृत इत्यर्थः, अन्येषां स्वेतरपुष्पाणाम् आमोदः परिमलो येन स तथोक्तो ननु तयाविध एव, अत एवेममेव गन्धमहं पूर्वमभ्यजिघ्रमित्याशयः। इति एवं मनसा हृदयेन निश्चित्य निर्णीय तं तपोघनयुवानं मुनिकुमारकम् ईक्षमाणा पश्यन्ती अहं महाश्वेता अचिन्तयन् चिन्तामकरवम्।
अहो इति। अहो इत्याश्चर्ये। विधातुः सृष्टिकर्तुः, रूपातिशयस्य सौन्दर्याधिक्यस्य निष्पादने निर्माणविषये यानि उपकरणानि साधनानि तेषां कोशस्य भाण्डागारस्य अक्षीणता अक्षयत्वं चिरपूर्णमित्यर्थः।
कयमेतदवगम्यत इत्यत आह—यदिनेति। यद् यस्मात् कारणात्, त्रिभुवने त्रिविष्टपे अद्भुत अनितार्थी रूपसम्भारः सौन्दर्यसमूहो यत्र सः। भगवन्तं कुसुमायुधं मदनम् उत्पाद्य निर्माय तदाकाराद् कुसुमायुधाकृतेः अतिरिक्तः अधिकः रूपराशिः सौन्दर्यसमूहः, मुनिमायामयः तापसद्याज्ञमयः, तपस्वि-
संभोगपरिश्रमके घर्मजल (पसीने) की बिन्दुराशिके हारके समान, मदन-रूपी हाथीकी पूर्ववर्ती ध्वजके चिह्नभूत चामर के समान, भ्रमर-रूपी कामुककी अभिसारिकाके समान, और कृत्तिका नामक नक्षत्रके तारोंके गुच्छेके समान प्रतीत होती थी।
'इस कुसुममञ्जरीका सुगन्ध ही अन्य सब पुष्पोंकी सुगन्धको आच्छादित कर देती है' इस प्रकार मनमें निश्चय कर उस तपस्वी युवकको देखती-देखती मैं विचार करने लगी—अहो! (क्या आश्चर्य!) विधाताके असाधारण सौन्दर्यनिर्माणके उपयोगी साधनोंके भण्डारमें कभी-कमी नहीं होती! क्योंकि-उस (विधान) ने त्रिभुवनके मध्यमें आश्चर्य-रूपराशि विशिष्ट भगवान् कामदेवको उत्पन्न करके भी उससे बढ़ कर मनोहर
१. रूपराप्तिः। २. 'उपकरणकौशल्याक्षीणता। ३. रूपादिशयराप्तिः।
| ४२४ | कादम्बरी- | [ कथायाम्- |
|---|
मुनिमायामयो मकरकेतुरुत्पादितः। मन्ये च सकलजगन्नयनआनन्दकरं शशिबिम्बं विरचयता लक्ष्मी-लीलावासभवनानि कमलानि सृजता प्रजापतिना एतदाननाकार-करणकौशलाभ्यास एव कृतः, अन्यथा किमिव हि सदृशवस्तुविरचनायै कारणम्। अलीकञ्चेदं यथा किल सकलाः कलाः कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नन्नाम्ना रश्मिना रविरापिवतीति, ताः खल्वस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति, कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्त्तमानस्येदं लावण्यम्। इति चिन्तयन्तीमेवं मामविचारितगुणदोषविशेषो रूपैकपक्ष-
वेषधारीत्यर्थः, अयं पुरोऽवलोक्यमानः कुमारः, अपरो मकरकेतुः द्वितीयः कामः कृत्वा उत्पादितो जनितः विधात्रेति शेषः। सृष्टिकर्तुः तत्साधनभाण्डागारस्य क्षयिष्णुत्वे तदेकमकरकेतुनिष्पादनेनैव तत्क्षयात्पुनरस्य तथाविधभावेन निष्पादनासम्भव इत्याशयः। मुनिमायामय इत्यत्र प्रकृतं प्रतिषिध्यान्यस्थापनादपह्नुतिः।
मन्य इति। किञ्चेति चार्थः। प्रथमं सकलजगतः समग्रसंसारस्य नयनानन्दकरं प्रमोदजनकं शशिबिम्बं चन्द्रमण्डलं विरचयता निर्माणं कुर्वता, तथा लक्ष्म्याः पद्मा याः लीलया क्रीडया वासस्य वसतेः भवनानि आधाररूपाणि कमलानि पङ्कजानि सृजता सृष्टिं विदधता प्रजापतिना ब्रह्मणा, एतस्य मुनिकुमारकस्य आननाकारस्य मुखाकृतेः करणकौशलस्य रचनापयोगिनैपुण्यस्य अभ्यासः पौनःपुन्येन प्रवृत्तिरेव (शिक्षैव) कृतो विहितः, इति मन्य इत्यर्थः। अन्योऽपि रमणीयं वस्तुविशेषं रचयितुं प्रथमं तद्रूपान्यवस्तुराचनया तत्कौशलं शिक्षते। इह 'मन्ये' शब्दप्रयोगाद्वाच्या क्रियोत्प्रेक्षा, तेन च शशितः पद्माच्च मुनिकुमारमुखस्यात्यन्तरमणीयत्वोधनेन व्यतिरेकोऽवगम्यत इत्यलंकारेणालङ्कारध्वनिः।
नन्विदं कथं प्रतीयत इत्यत आह-अन्यथेति । अन्यथा उक्तवैपरीत्ये, सदृशवस्तुविरचनायाः समानपदार्थनिर्माणस्य, किमिव कारणं नियामकम् ।
अलीकमिति। अपि चेति चार्थः। रविः सूर्यः सुषुम्ननाम्ना सुषुम्नासंज्ञकेन रश्मिना निजकिरणविशेषेण, बहुलपक्षे कृष्णपक्षे क्षीयमाणस्य कृशतां प्राप्यमाणस्य कलावतश्चन्द्रस्य सकलाः समग्राः कलाः षोडशांशाः आपिबति पानं करोति इति इदं पुराणवचनम् अलीकम् असत्यम्। तथा च विष्णुपुराणम्—
'सूर्य्यरश्मिः सुषुम्नो यस्तर्पितस्तेन चन्द्रमाः। कृष्णपक्षेऽमरैः सार्धं पीयते वै सुधामयः ॥'
इहालीकत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
अथैवं परमार्थतः किं नाम सत्यमित्यत आह—ता इति । अस्य चन्द्रस्य खलु निश्चयेन ताः कलाः समस्ता गमस्तयो रश्मयश्च इदम् अवलोक्यमानं वपुः मुनिकुमारकंशरीरम् आविशन्ति प्रजापतेरिच्छया प्रविशन्ति, इत्येवं सत्यमित्याशयः।
इहापि शशिकला रश्मीनां तच्छरीरे प्रवेशसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
नन्वेवं कथमवगम्यत इत्यत आह—कुत इति। अन्यथा शशिनः कलानां रश्मीनाञ्चाप्रवेशे रूपापहारिणि क्लेशातिशयात् सौन्दर्यविघातके तपसि तपस्यायां वर्त्तमानस्य स्थितस्य इदं लावण्यं सर्वोत्कृष्टसौन्दर्यं कुतः स्यात् कुतोऽपि नेत्यर्थः, कारणव्यतिरेकेण कार्यानुदयादित्याशयः।
इतीति । इति चिन्तयन्तीमेव इति ध्यायन्तीमेव मां महाश्वेतां न विचारितो नालोचितो गुणदोषयोः विशेषो वैषम्यं येन सः, अनेनस्मिन् ममासक्तौ दोष एवासोदित्यवगम्यते। रूपैकपक्षपाती सौन्दर्ये
(सौन्दर्यशाली) मुनिवेषधारी यह एक दूसरा कामदेव बनाया। मुझे प्रतीत होता है कि ब्रह्माने समस्त जगत्के नयनोंको आनन्द देनेवाले चन्द्रमण्डलको, एवं लक्ष्मीके लीलागृह कमलोंको उत्पन्न करके इस कुमारकी मुखाकृति निर्माण करनेमें दक्ष होनेके लिए पहले अभ्यास किया था; नहीं तो एक तरहकी अनेक वस्तुके निर्माण करनेका क्या कारण ? फिर यह पौराणिक प्रवाद भी मिथ्या है कि—'सूर्यदेव स्वकीय सुषुम्ननामक रश्मिद्वारा कृष्णपक्षके क्षीयमाण चन्द्रकी समस्त कलाओंका पान करता है;' चन्द्रकी वे कलाएँ और किरणसमूह तो सचमुच इसके ही शरीरमें प्रवेश करते हैं; नहीं तो सौन्दर्यका हरण करते—क्लेशते परिपूर्ण तप करनेवालेका इस प्रकारका लावण्य कैसे हो सकता है ? यों मैं चिन्तन करती थी कि, इतनेमें गुण-दोषका वैषम्य न देख, केवल सौन्दर्यका ही
१. मुनिर्मायामयः। २. ब्रह्मणा, प्रथममे। ३. विरचनायां । ४. अभूष्य ।.. ५. सुषुम्ना । ६. विचिन्तयन्तीमेव ।
पुण्ड० अवने० महाश्वेतादशावर्ण० ६० ] चन्द्रकला-विद्योतिनीसहिता । ४२५
पापी नवयौवनसुलभः कुसुमायुधः कुसुमासव-मद इव मधुकरों परवशामकरोत् । उच्छ्वसितैः सह विस्मृतनिमेषेण किञ्चिदामुकुलितपक्ष्मणा जिह्मित-तरल-तर-तार-शा-रोदरेण दक्षिणेन चक्षुषा मस्पृहमापिबन्तीव, किमपि याचमानेव, 'त्वदायत्तास्मि' इति वदन्तीव, अभिमुखं हृदयमर्पयन्तीव, सर्वात्मनानुप्रविशन्तीव, तन्मयतामिव गन्तुमीहमाना, 'मनोभवाभिभूतां त्रायस्व' इति शरणमिवोपयान्ती, 'देहि मे हृदयेऽवकाशम्' इत्यर्थितामिव दर्शयन्ती, 'हा हा किमिदमसाम्प्रतमतिहेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतम्' इति जानानाप्यप्रभवन्ती करपानाम्, स्तम्भितेव, लिखितेव, उत्कीर्णेव, संयतेव, मूर्च्छितेव, केनापि³
पञ्चमात्रावदभ्र्दी नवयौवनसुलभः प्रत्यग्रतारुण्यसुलभः कुसुमायुधः कामः, कुसुमासवमदः पुष्परसपानजनितमदमत्तां मधुकरों भ्रमरीमिव, परवशां पराधीनामकरोत् व्यदधात् । इहोपमा । तथा कुसुमासवमदो भ्रमरों पराधीनां करोति, इत्यत्र हि कालभेदादप्रनप्रक्रमनादोषः समापतति, स च कुसुमासवमदो मधुकरों यथा करोति, तथा परवशां मामकरोदिति पाठेन समाधेय इति कुशला वदन्ति ।
उच्छ्वसितैरिति । उच्छ्वसितैः निश्वासमारुतैः सह विस्मृतो विस्मरणं प्राप्तो निमेषो निमीलनं येन तेन, कामवेगाद्विस्मयवशादवरुद्धश्वासप्रशमानां निर्निमेषेणेत्यर्थः, किञ्चिदामुकुलितानि ईषद्सङ्कुटितानि पद्मानि रोमाणि यस्य तेन, लाजिह्मिते किञ्चित्कुटिलीकृते तरलतरे नितान्तचपले तारे कनीनिके यस्य तच्च तद् शारोदरं विचित्रमध्यभागञ्चेति तनेन तादृशेन, दक्षिणेन अपसव्येन चक्षुषा नयनेन सस्पृहं साभिलाषं यथा स्यात्तथा आपिबन्तीव अत्यादरेणावलोकयन्तीव, किमपि अनिर्वचनीयस्वरूपं याचमानेव प्रार्थयमानेव, 'त्वदायत्ता त्वदधीना अस्मि' इति वदन्तीव, ब्रुवन्तीव, अभिमुखं तत्सम्मुखं हृदयं चित्तम् अर्पयन्तीव निक्षिपन्तीव, सर्वात्मना सर्वप्रयत्नेन अनुप्रविशन्तीव तच्चित्तं प्रविशन्तीव, तन्मयतां तत्साद्दश्यं गन्तुं प्राप्तुम् ईहमाना चेष्टमानेव, 'मनोभवेन कामेन अभिभूतां पराभूतां त्रायस्व पाहि' इति हेतोः शरणं त्राणम् उपयान्तीव गच्छन्तीव, 'हृदये स्वस्य चित्ते मे मम अवकाशं स्थानं देहि' इति अर्थितां याचकत्वं दर्शयन्तीव प्रकाशयन्तीव, 'हा' इति खेदे किमिदम् असाम्प्रतं झटित्येव सम्मेलनोद्योगादयुक्तम्, अतिहेपणं झटित्येव तयाभावादात्यन्तलज्जाकरम्, कुलकुमारीजनस्य वंशोद्भवकन्यकावर्गस्य उचितं योग्यं न भवतीति अकुलकुमारीजनोचितं कुलकन्यासु सर्वथा नोचितमित्याशयः, इदम् एतादृशं कर्म मया महाश्वेतया प्रस्तुतम् आरब्धम्' इति पूर्वं जानानापि बुध्यमानापि करणानां लोचनादीनामिन्द्रियाणाम् अप्रभवन्ती असमर्था सती लोचनादीनीन्द्रियाणि निरोद्धुमसमर्थवती सतीत्यर्थः, तमविचिरं व्यलोकयमिति सम्बन्धः । इह प्रतिवाक्ये एव वाच्या क्रियोत्प्रेक्षा ।
अथान्यान्यपि तत्समयोत्पन्नानि स्वविशेषणानि प्रतिपाद्यति—लम्भितेवेति । स्तम्भितेव जडीकृतेव, लिखितेव चित्रितेव, उत्कीर्णेव काष्ठे प्रस्तरं वा मन्तश्चर प्रकटितेव संयतेव, बद्धेव, मूर्च्छितेव मूर्च्छया चेतणारहितेव, तया केनापि अनिर्वचनीयपुटपेग विघृतेव गृहीतेव सती, निष्पन्दानि चेष्टा-
पन्नन कर, नवयौवनसुलभ उस कामने, वसन्तसुन्दका मधुजनजनित मद जिस प्रकार भ्रमरीको पराधीन कर देता है उसी प्रकार मुझे अपने अधीन कर दिया ।
उस समय मेरे श्वास-प्रश्वास नहीं चलते थे, एवं में निमेष रहित कुछ कुछ नीची हुई, टेढ़ी और अनिर्वचल पुतलो से मध्यदेश विचित्र हुई दाई आँखके द्वारा अभिलाषा के साथ (तृष्णासे) उसका मानो पान करतो थी । इन रूपमें—मैं मानो, कुछ प्रार्थना करती (मांगती) थी, 'मैं तेरे अधीन हूँ' इस प्रकार मानो कहती थी, उसके सामने मानो हृदय-समर्पण करती थी, सर्वप्रयत्नसे उसके हृदयमें मानो प्रवेश करती थी, तन्मयता लाभ करनेके लिए मानो चेष्टा करती थी, 'कामोत्पीड़िता सुन्दरी की रक्षा करो' इस प्रकार कहकर मानो रक्षाके निमित्त शरणागत होती थी, 'तुम अपने हृदयमें मुझे एक स्थान दो' इस प्रकार कहकर मानो याचकभाव जनाती थी । हाय ! हाय ! मैने क्या अन्याय आचरण आरम्भ कर, यह अत्यन्त लज्जाजनक, कुलीनकुमारियोंके पक्षमे विशेषतः अनुचित किया ! ऐसा समझती भी मैं इन्द्रियोंको दमन करनेमें समर्थ नहीं हो सकी । उस समय मैं मानो स्तम्भित (स्तब्ध) के समान, चित्रितके समान, उत्कीर्ण (उत्कीर्ण) के समान, बाँधी गईके समान, मूर्च्छितके समान एवं
१. कुसुमस्तनमद इव ।
२. किन्दन् ।
३. क्वचित् 'केनापि' इति पाठो नास्ति ।
२७ का०
| ४२६ | कादम्बरी- | [ महाश्वेता- |
|---|
विष्टम्भेनेव, निष्पन्दसकलावयवा तत्कालाविर्भूतेनावष्टम्भेन, अक्रियतशिक्षितेन अनाख्येयेन स्वसंवेद्येन केवलम्, न विभाव्यते, किं तद्रूपसम्पदा, किं मनसा, किं मनसिजेन, किमभिनवयौवनेन, किमनुरागेण वा उपदिश्यमानौ किमन्येनैव वा केनापि प्रकारेण, अहमपि न जानामि कथं कथमिति तमनिचिरं व्यलोकयम् ।
इतितश्च नीयमानेव तत्समीपमिन्द्रियैः पुरस्तादाकृष्यमाणेव हृदयेन, पृष्ठतः प्रेर्य्यमाणेव पुष्पधन्वना, कथमपि मुक्तप्रयत्नप्यात्मानम् अवधारयम् । अनन्तरञ्च मेऽन्तर्भङ्गने
सकलाः समग्रा अवयवा अङ्गानि यस्याःसा तादृशी अहम्, अक्रियतोगपि लोचनं विष्टम्भिदुन्मुद्रद्विट्टोऽपि शिक्षितस्तत्र निपुणः तेन, अनाख्येयेन आख्यातुमकथयितुं शक्यः कीदृश इति कशयितुं वक्तुमसमर्थेन, अत एव स्वसंवेद्येन स्वकीयकेवलमनोगम्येन, तत्काले तद्भावे आविर्भूतेन प्रकटीतेन, अवष्टम्भेन निश्चेष्टतापप्रयोजक-सात्त्विकविकारविशेषप्रयत्नेन, केवलं तमनिचिरं व्यलोकयमिति सम्बन्धः। इहापि प्रतिविशेपणं दूव दाप्या क्रियोत्प्रेक्षा।
नेति । न विभाव्यते निरूपदिष्यमानानां मध्ये केन उपदिश्यमाना सती तमनिचिरं व्यलोकयमिति न निर्णतुं शक्यत इत्यर्थः । किं तस्य तापसकुमारस्य रूपसम्पदा सौन्दर्यसमृद्धया उपदिश्यमाना सती तमनिचिरं व्यलोकयम् एवं सर्वत्र सम्बन्धः । किं मनसा चित्तेन, किं मनसिजेन कामेन, किम् अभिनवयौवनेन प्रत्यग्रतारुण्येन, किंवा अनुरागेण अन्तःप्रप्रेम्णा वा अथवा किम् अन्येनैव एकव्यतिरिक्तेनैव व्यतिरिक्तरेण केनापि प्रकारेण अनिर्वचनीयभावेन उपदिश्यमाना उपदेशविषयीक्रियमाणा सती, कथं केनाप्यतिदुर्वचनीयस्वरूपेण, अतिचिरम् अत्याधिकतरकालं यावत् तं तापसकुमारं व्यलोकयम् अवश्यम्, किन्तु कथं से तथा व्यलोकयमित्यहमपि न जानामि नावगच्छामीत्यर्थः ।
इह विप्रलम्भशृङ्गारमस्य विवकेसंज्ञको भावोऽहमिति प्रेयोनामाऽलङ्कारः। इह गर्भितत्वं दोषो न किन्तु 'गर्भितत्वं गुणः क्वापि' इति साहित्यदर्पणदिशा विविक्षतविषयप्रकटनाद् गुण एवेत्यवधेयम्।
चक्षुरिति। इन्द्रियैर्लोचनादिभिःकरणैः सहिप्य उच्चैल्य तस्य तापसकुमारस्य समीपम् अन्तिकं नीयमानेव प्राप्यमानेव । एतेनोत्कण्ठा निरूपिता । हृदयेन चेतसा पुरस्ताद् अग्रे आकृष्यमाणेव, पुष्पधन्वना कामेन पृष्ठतः पश्चात्तः प्रेर्य्यमाणेव चाष्टद्यमानेव सती, मुक्तस्त्यक्तः प्रयत्नः तदन्तिकप्राप्तिनिवारणव्यापारो येन तं तादृशमपि आत्मानं शरीरं कथमपि महता वलेनेवेत्यर्थः, अधारयं न्यरुन्धान् एवारक्षयम् । अनेन धृतिः प्रतिपादिता । इह 'नीयमानेव' 'आकृष्यमाणेव' 'प्रेर्य्यमानेव' इति तिसृणामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण विद्भानात्वत्संसृष्टिः ।
अनेति। किञ्चेति चार्थः। अनन्तरं मे मम स्वतः हृदयाभ्यन्तरे अवकाशं तस्य तापसकुमारस्य निवासस्थानं दातुमभितुनिव मदनेन कामेन सहित इत्यादितः सन्ताने विस्तारो येषां ते तादृशाः
किसी व्यक्ति द्वारा पकड़ी गईके समान हो गई। उस समय सब अवयव निश्चल हो गये, इस प्रकार तत्काल एक प्रकारका निष्पन्दता (निश्चलता) प्रयोजक सात्त्विकविकारविशेष उपस्थित हुआ सुनिपुणकरणके प्रति दृष्टिदान करानेके लिए उस विकार विशेषको उपदेश नहीं देनेपर भी वह उस विषयमें पूर्ण विशेषज्ञथा, एवं उस विकार का स्वरूप वर्णन नहीं किया जा सकता था, केवल मनसे ही ज्ञात हो सकता था, मैं उस विकार विशेषके प्रभावसे ही केवल उसे देखने लगी। मैं निश्चय करके कह नहीं सकती हूँ कि—उसे देखनेके लिए क्या उसकी सौन्दर्य-समृद्धि, या मेरा मन, अथवा कामदेव, या मेरा नवयौवन, अथवा अनुराग, या स्वव्यतिरिक्त अन्य कोई अनिर्वचनीय प्रकारका व साधन जिससे मुझे उपदेश दिया गया। इस तरह मैंने किस अनिर्वचनीय भावसे अधिक देर तक उसे देखा—यह मेरी समझ में नहीं आता।
[उसके बाद] मेरी इन्द्रियादि शंखेर्या मानो मुझे चलाकर उसके समीप ले जाने लगीं, आगेसे हृदय मानो आकर्षण करने लगा एवं पीछेसे कामदेव मानो प्रेरणा करने लगा। उस हालतमें मैंने उसके समीप जानेने निवारण करनेको चेष्टापरित्याग कर रहनेपर भी कठिनाईसे अपनेको अपने अधीनतामें ही रक्खा।
१. कान्त्या। २. रूपेणेव। ३. व्यापदिश्यमानां। ४. नाहं। ५. मुग्धप्रयत्नामात्मानं आत्मानमपि। ६. उन्मदनेन हन्मदमनेन।
पु० अवलो० महाश्वेताव० ६० ] चन्द्रकला-विद्योतिनीसहिता । ४२७
अवकाशमिव दातुमाहितसन्ताना निर्ययुः श्वासमरुतः । साभिलाषं हृदयमाख्यातुकाममिव स्फुरितमुखमभूत् कुचयुगलम् । स्वेद-लवं-लेखा-क्षालितेवागलल्लज्जा । मकरध्वज-निशित-शर-निकर-निपातैस्त्रस्तेवाकम्पत गात्रयष्टिः । तद्रूपातिशयं द्रष्टुमिव कुतूहलादालिङ्गन लालसेभ्योऽङ्गेभ्यो निरगाद्रोमाञ्चजालकम् । अशेषतः स्वेद्दाम्भसा धौतश्चरणयुगलादिव हृदयमविशद्रागः ।
आसीच्च मम मनसि- 'शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽस्मिन् जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवञ्च नामातिमूढं हृदयमङ्गनाजनस्य, यदनु-
श्वासमरुतो निःश्वसितवायवो निर्ययुर्निःसृताः, श्वासनिसरणेनैव हृदयेऽवकाशजननमित्याशयः । क्रियोत्प्रेक्षा ।
साभीति । कुचयुगलं स्तनद्वयं कर्तृ, साभिलाषं सस्पृहं तत्तपस्विकुमारलाभेच्छापरिपूर्णमित्यर्थः, हृदयं मनः कर्म, आख्यातुकाममिव 'नूनं त्वमेनं लप्स्यसे' इति प्रियोदन्तं कथयितुम् इच्छुरिव सत्, स्फुरितं स्पन्दितं मुखम् अग्रप्रदेश एवाननं यस्य तत्तादृशम् अभूत् बभूव । अन्योऽपि किञ्चिद्विवक्षुः स्फुरितवदनो भवति । एतेनाभिलाषः प्रतिपादितः । इह गुणोत्प्रेक्षानुप्राणिता अग्रदेशमुखयोर्व्यतिरेकेऽपि श्लेषेण तदध्यतिरेकाध्यवसायादतिशयोक्तिः ।
स्वेदेति । लज्जा त्रपा, स्वेदलवलेखा धर्मबिन्दुपंक्त्या क्षालिता धौतेव सती अगलत् अक्ष्रवत् , रजोवदित्याशयः । अनेन स्वेदो निरूपितः । क्रियोत्प्रेक्षा ।
मकरेति । गात्रयष्टिः शरीरयष्टिः, मकरध्वजस्य कन्दर्पस्य ये निशिताः तीक्ष्णाः शरा बाणाः तेषां निकरस्य समूहस्य निपातात् आघातात् त्रस्ता भीतेव सती अकम्पत कम्पयामास । एतेन कम्प उक्तः । उक्तालंङ्कारः ।
तदिति । रोमाञ्चानां पुलकानां जालकं समूहः, तस्य तापसकुमारस्य यो रूपातिशयः सौन्दर्योत्कर्षः तं द्रष्टुं वीक्षितुमिव आलिङ्गनलालसेभ्यः उपगूहनलोलुपेभ्यः अङ्गेभ्यो हस्तपादादिभ्योऽवयवेभ्यः कुतूहलात् कौतुकात् निरगात् निःसृतो बभूव, ऐन्द्रजालिकक्रियादिकमवलोकयितुं भवनात् कुलवधुमुखवदित्याशयः । एतेन रोमाञ्चोऽभिहितः । इहापि 'द्रष्टुमिव' इति दर्शनक्रियारूपफलोत्प्रेक्षा ।
अशेषत इति । स्वेदाम्भसा श्रमोत्थधर्मवारिणा अशेषतः सामस्त्येन धौतः प्रक्षालितः रागोऽलक्तरूणारुण्यमिव रागोऽनुरागः चरणयुगलात् अङ्घ्रिगुग्मात् हृदयम् अविशदिव प्रवेशमकरोदिव । एतेन रतिर्नाम स्थायिभावोऽभिहितः । इह क्रियोत्प्रेक्षानुप्राणिता आरुण्यानुरागयोर्व्यतिरेकेऽपि रागपदश्लेषेणाव्यतिरेकाध्यवसायरूपातिशयोक्तिः । स्थायिभावस्वरूपं तु दर्पणे—
'अविरुद्ध विरुद्धो वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति सम्मतः ॥' इति ।
आसीदिति । किञ्चेति चार्थः । तत्समये मम मनसि चेतसि एषा धारणा जातेत्यर्थः । शान्तः सत्त्वगुणसंयुतः आत्मा मनो यस्य तस्मिंस्तादृशे, तथा दूरीकृतः दूरीजितः सुरतव्यतिकरः सम्भोगसम्बन्धो येन तस्मिन्, अस्मिन् जने मां विक्षिप्ता प्रहरता अनार्येण असभ्येन मनसिजेन कामेन किमिदम् अलदृशम् असाधुजनोचितम् आरब्धं प्रारब्धम् ।
एवमिति । किञ्चेति चार्थः । एवं पूर्वोक्तप्रकारेण नामेति कोमलामन्त्रणे । अङ्गनाजनस्य स्त्रीलोकस्य हृदयं वित्तम् अतिमूढम् अतिमुग्धम् , यद् यस्मात् कारणात् अनुरागविषययोग्यतामपि 'अस्मिन् स्थलेऽ-
तदनन्तर कामदेवको मानो मेरे हृदयमें वास करनेका स्थान देनेके लिए ही मेरे शरीरमेंसे श्वासवायु विस्तृत होकर बराबर बाहर निकलने लगा । उसके प्रति अभिलाषी मेरे मनके प्रियसम्वादको कहनेके लिए ही मानो मेरे स्तनयुगलके मुख स्फुरित होने ( कापने ) लगे । घर्म-जल-बिन्दुओं ( पसीनेकी बूँदों ) से प्रक्षालित होकर ही मानो मेरी लज्जा [ धूलिकी तरह ] गलने लगी । कामदेवके तीक्ष्णवाणसमूह ( पैने शरों ) के प्रहारसे डर कर ही मानो मेरा शरीर कापने लगा । उसके असाधारण सौन्दर्यको देखनेके लिए ही मानो कौतुकवशात्ते आलिङ्गन करनेके लिए तड़पते हुए अवयवोंसे रोमाञ्चसमूह निकलने लगे । एवं घर्मजल ( पसीने ) से सम्पूर्ण प्रक्षालित होकर ही मानो राग ( लौहित्य, अनुराग ) ने चरणोंमेंसे मेरे हृदयमें प्रवेश किया।
उस समय मेरे मनमें होने लगा कि-जिसने स्त्री-सम्भोग छोड़ दिया है ऐसे शान्तचित्त जनपर मुझे मोहित कर असभ्य कामदेवने कैसा अन्याय आचरण आरम्भ किया है ? स्त्रियोंका हृदय, निःसन्देह ऐसा
१. स्वेदसलिललव...। २. ...पात...।
| ४२८ | कादम्बरी- | [ कथायाम्- |
|---|
रागविषययोग्यतामपि विचारयितुं नालम्। क्वेदमतिभास्वरं धाम तेजसां तपसाञ्च, क्व च प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि¹। नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्य-मानामुपहसति। मनसा चित्रञ्चेदं यदहमेवं गच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम्²। अन्या अपि कन्यकास्त्रपां विहाय स्वयमुपयाताः पतीन्, अन्या अप्यनेन दुर्विनीतेन मन्म-थेनोन्मत्ततां नीता नार्य्यः, न पुनरहमेका यथा। कथमनेन क्षणेनाकारमात्रालोकनाकुली-भूतामेवमस्वतन्त्रतामुपैत्यन्तःकरणम्। कालो हि गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा। यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघ-
नुरागो युक्तः, अस्मिन् स्थले न युक्तः' इति विषयविभागोचितामपि विचारयितुं नालं न समर्थम्। इहा-प्रकृतात् स्त्रीहृदयसामान्यात् प्रकृतस्यात्महृदयरूपविशेषस्यावगमादप्रस्तुतप्रशंसा।
ननु स्त्रीलोकस्य हृदयं कथं नामातिमुग्धमित्यत आह—क्केदमिति। तेजसां तपसां च अतिभास्वरम् अत्यन्तदीप्तस्वभावम् इदं तापसकुमारस्वरूपं धाम आश्रयः क्व, तथा प्राकृतजनैः साधारणपुरुषैः अभि-नन्दितानि अनुमोदितानि मन्मथपरिस्पन्दितानि कन्दर्पचेष्टितानि च क्व, द्वौ क्वौ महदन्तरं सूचयतः, एवं-विधमुनिजने मन्मथचेष्टायाः सर्वथैव निष्प्रयोजनत्वात्तन्निमित्तक्षोभोगान्मम हृदथमतिमुग्धमित्याशयः। इहं विसदृशयोः संयोजनया विषमः।
नियतमिति। अयं कुमारः, मकरलाञ्छनेन कामेन एवम् अनेन प्रकारेण विडम्ब्यमानां प्रतार्यमाणां मां महाश्वेतां नियतं निश्चितमेव मनसा चेतसा उपहसति उपहासं करोति, असम्भवनीयविषयप्रवृत्ते-रित्याशयः।
चित्रमिति। अपि चेति चार्थः। इदं प्रत्यक्षातो वर्त्तमानं चित्रम् आश्चर्यम्, यद् यस्मात्कारणात् अहम् एवं पूर्वोक्तप्रकारेण कामद्वारा विडम्बनां तपस्विकुमारद्वारोपहासञ्च अवगच्छन्त्यपि जानन्त्यपि आत्मनः स्वस्य विकारं विकृतिम् उपसंहर्तुं दूरीकर्त्तुं न शक्नोमि न समर्था भवामि।
अन्या इति। अन्या मह्यतिरिक्ता अपि कन्यका दारिकाः त्रपां लज्जां विहाय परित्यज्य स्वयम् आत्मना पतीन् स्वामिन उपयाता उपगता, अन्या अपि याः काश्चनातिकामुका नोपयातास्ता अपि दुर्वि-नीतेन दुराचारेण अनेन मन्मथेन कन्दर्पेण उन्मत्ततां सविकारतां नीताः प्रापिताः, न पुनरहमेका यथा, अत एव नास्मदधिकारो विद्यत इत्याशयः।
कथमिति। अनेन क्षणेन समयेन आकारमात्रस्य अस्य तापसकुमारस्य केवलाकृतेः आलोकनेनैव निरीपणेनव आकुलीभूतं व्यग्रीभूतम् अन्तःकरणं मम हृदयम्, एवम् अनेन प्रकारेण अस्वतन्त्रताम् इत्यं तदायत्ततां कथम् उपैति प्राप्नोति।
तत्र हेतुं प्रदर्शयति—काल इति। हि यस्मात्, कालो वसन्तादिः, गुणाः सौन्दर्यप्रभृतयश्च, मद-नस्य कामस्य सर्वथा सर्वप्रकारेण दुर्निवारताम् आरोपयन्ति व्यवस्थापयन्ति, तस्मादनेन वसन्तसमयेन अस्य गुणेन च दुःशक्यकामारोपणान्मम हृदयमेवं पराधीनतां प्राप्नोतीत्याशयः। अत एवेहाप्रकृतात् सामान्यात् प्रकृतस्य विशेषस्यावगमादप्रस्तुतप्रशंसा।
यावदिति। यावदेव यावत्कालं सचेतनाऽस्मि अस्य रूपादलोकनैन अत्यधिकमदनावेशवशाद् विधेयाविधेयज्ञानरहिता न भवामीत्यर्थः। यावदेव योवत्कालम् अनेन कुमारेण मे मम एतत्, मदनदुश्चे-
नितान्त मूढ होता है कि वह अनुरागके विषयको भी विवेचना नहीं कर सकता। क्योंकि, यह देदीप्यमान तेज और तपस्याका आधार ही कहाँ, और प्राकृत जनोंकी आदरणीय (प्रिय) कामचेष्टा ही कहाँ ! निःसन्देह यह कुमार मुझे इस प्रकार कामदेव द्वारा वञ्चित देखकर अपने मनमें हँसता होगा। और यह भी एक आश्चर्य ही है कि मैं इतना समझनेपर भी अपने मनका विकार दूर नहीं कर सकती। अन्यान्य कन्याएँ भी लज्जा परित्याग कर अपने आप पतिकी प्राप्ति की है। अन्य बहुत-सी सुन्दरियां भी इस अविनीत कामदेवके प्रभावसे उन्मत्त हुई हैं, किन्तु मेरे समान एक भी नहीं हुई है। केवल आकृति ही देखनेसे व्यग्र हो (घबटा) कर मेरा अन्तःकरण इस प्रकार क्यों परतन्त्र हो गया है? काल और गुण ये दोनों ही सर्वथा कामदेवको दुर्निवारणीय कर देते हैं। अतएव जब तक मैं सचेतन हूँ एवं जब तक मेरी कामविकारजनित लघुता स्पष्टरूपसे समझनेमें नहीं आती तब
१. ०° परिस्पन्दितानि । २. अपहाय ।
हाश्वेतावलो० पुण्डरीकदशाव० ६१] चन्द्रकला-विद्योतिनीसहिता । ४२६
मेतत्, तावदेवास्मात् प्रदेशादपसर्पणं श्रेयः, कदाचिदनभिमत-स्मर-विकार-दर्शन-कुपि- तोऽयं शापामिग्नां करोति माम् । अदूरकोपा हि मुनिजनप्रकृतिः।' इत्यवधार्यापसर्पणाभि- लाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वा तद्वदनाकृष्टदृष्टिप्रसरम्, अच- लितपक्ष्ममालम्, अदृष्टभूतलम्, ईषदुल्लसित-कर्णपल्लवोन्मुक्त-कपोलमण्डलम्, आलोलालक- लता- लमत्कुसुमावतंसम्, अंसदेश-दोलायित-मणिकुण्डलम् ; अस्मै प्रणाममकरवम् ।
अथ कृतप्रणामायां मयि दुर्लङ्घ्यशासनतया भगवतः मनोभुवः, मदजननतया च मधु- मासस्य, अतिरमणीयतया च तस्य प्रदेशस्य, अविनयबहुलतया चाभिनवयौवनस्य, चञ्चल- प्रकृतितया चेन्द्रियाणाम्, दुर्निवारतया चाभिलाषाणाम्, चपलतया च मनोवृत्तेः, तथा भवि-
चित्तलाघवं कामविकारजनितलघुत्वं परिस्रुटं स्पष्टं न विभाव्यते ज्ञायते, तावदेव तावत्कालम् अस्मात् प्रदेशात् स्थानात् अपसर्पणं दूरीभवनं श्रेयः कल्याणकृत् ।
नन्वेवमपीहावस्थितौ को दोष इत्यत आह—कदाचिदिति । अयं कुमारः, अनभिमतस्य स्वानभीष्टस्य स्मरविकारस्य मदीयमनोभवविकृतेः दर्शनेन अवलोकनेन कुपितः क्रुद्धः सन्, मां महाश्वेतां शापाभिन्नाम् अभिसम्पादनेनेनमोगिनीं करोति कुर्यादित्यर्थः । यद्ययं क्रुद्धः स्यात्तदा शापः कीदृशो भवति इति मां स्फुटमनुभावयेदित्याशयः । ननु विशेषापराधाभावे कथं क्रोध इत्यत आह—अदूरेति । हि यतः, मुनिजनप्रकृतिः तपस्विलोकस्वभावः अदूरकोपा निरन्तरसमीपक्रोधा, अत एव शापाय विशेषापराधं नाकाङ्क्षत इत्याशयः । इति एवम् अवधार्य निश्चित्य अहम् अपसर्पणामिलाषिणी दूरीभवनेच्छुका अभवं जाता । इह कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ।
अशेषेति । किञ्चेति चार्थः । इयं जातिः तापसजातिः, अशेषजनपूजनीया समस्तलोकार्चनीया, इति मनसि हृदये कृत्वा विधाय तस्य कुमारस्य वदनात् मुखात् अकृष्टः तन्मदनावेशादेवासङ्कुचितः दृष्टिप्रसरोऽवलोकनप्रन्तानः यत्र कर्मणि तद् यथा स्यात्तथा क्रियाविशेषणम्, एवमग्रेऽपि । अचलिता निश्चेष्टा पक्ष्ममाला लोचनरोमपङ्क्तिर्यत्र कर्मणि तद् यथा स्यात्तथा, न दृष्टम् अवलोकितं भूमलं यत्र कर्मणि तद् यथा स्यात्तथा, ईषदुल्लसिताभ्यां किञ्चिदुत्थिताभ्यां कर्णपल्लवाभ्यां श्रवणकिसलयाभ्याम् उन्मुक्ते परित्यक्ते कपोलमण्डले गण्डबिम्बयुगलं यत्र तत्, आलोलायां किञ्चिचपलायाम् अलकलतायां छतावत्तन्दमानविच्छित्तिकेशसमूहे लसन् शोभमानः कुसुमावतंसः पुष्पभूषणं यत्र तत्, तथा अंसदेशयोः स्कन्धप्रदेशयोर दोलायिते चलिते मणिकुण्डले रत्नकुण्डले यत्र कर्मणि तद् यथा स्यात्तथा, तस्मै तापसकुमाराय प्रणामं नमस्कारम् अकरवम् । स्वभावोक्तिः ।
अथेति । कृतप्रणामायां विहितनमस्कारायां मयि महाश्वेतायां भगवत ऐश्वर्यादिमाहात्म्यवतो मनोभुवः कामस्य दुर्लङ्घ्यशासनतया अनतिक्रमणीयादेशतया कारणेन, एवमन्यत्रापि हेतौ तृतीया । मधुमासस्य वसन्तस्य मदजननतया मत्ततोत्पादकतया, तस्य पूर्वोक्तस्य प्रदेशस्य स्थानस्य अतिरमणीयतया अतिमनोहरतया, अभिनवयौवनस्य प्रत्यग्रतारुण्यस्य अविनयबहुलतया अशिष्टाचारधिक्येन, इन्द्रियाणां चक्षुरादिकरणानां चञ्चलप्रकृतितया चपलस्वभावतया, अभिलाषाणां मनोरथानां दुर्निवारतया दुःखेन
तक ही इस प्रदेशसे मुझे खिसक जाना उचित है। क्योंकि कहीं अप्रिय कामविकार मुझमें देखनेसे क्रुद्ध होकर किसी समय यह शाप न दे बैठे। क्योंकि मुनियोंके स्वभाव में सर्वदा ही क्रोध उपस्थित रहता है। इस प्रकार मन ही मन निश्चय कर मैंने लौटना चाहा और—'इस जातिकी तो सब लोग पूजा करते हैं' यों विचार उसके मुखकी ओर दृष्टि रख, एकाग्रतासे (टकटकी बांधकर) कपोलस्थल परसे कुछ ऊँचे कर्णपल्लव सहित केशकलापकी चञ्चल लटोंमें शोभायमान पुष्पान्तरणसहित, और स्कन्धपर लटकते मणिमयकुण्डल सहित, पृथिवीकी ओर देखे बिना ही, मैंने उसको प्रणाम किया।
मेरे प्रणाम कर लेने के बाद ही, भगवान् कामदेवके अनुल्लङ्घनीय शासनसे, चैत्रमासकी मस्तोत्पादक शक्तिसे, उस स्थानकी अत्यन्त मनोहरतासे, नवयौवनके अधिक अविनय-पूर्ण होनेसे, इन्द्रियोंकी स्वभावतः चञ्चलतासे, विषयाभिलाषाकी दुर्निवारतासे, मनोवृत्तिकी चञ्चलतासे, और ऐसी-ऐसी (सुख-दुःखादि) घटनाओंकों
१. उत्स्रस्तित्... । २. ऽपि । ३. क्वचित् 'भगवतः' इति पदं न विद्यते ।
| ४३० | कादम्बरी- | [ कथायाम्- |
|---|
तव्यतया च तस्य तस्य वस्तुनः, किं बहुना मम मन्दभाग्यदौरात्म्यादस्य चेदृशस्य क्लेशस्य विहितत्वात्तमपि मद्विकारदर्शनापहृतधैर्य्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः ।
तदा तस्याप्यभिनवागतं मदनं प्रत्युद्गच्छन्निव रोमोद्गमः प्रादुरभवत् । मत्सकाशमभिप्रस्थितस्य मनसो मार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । वेपथुगृहीता व्रतभङ्गभीतेवाकम्पत करतलगताक्षमाला । द्वितीयेव कर्णावसक्तकुसुममञ्जरी कपोलतलांसङ्गिनी समदृश्यत स्वेदसलिलशीकरजालिका। मदर्शनप्रीतिविस्तारितस्य चोत्तानतारकस्य पुंडरीकमयमिव तमुद्देशमुपदर्शयतो लोचनयुगलस्य विसर्पिभिरंशुसन्तानैर्यदृच्छयाच्छोदसलिलमपहाय विकच-
दूरीकर्त्तुं शक्यतया, मनोवृत्तेश्चित्तवृत्तेः चपलतया चञ्चलतया, तस्य तस्य वस्तुनः सुखदुःखादेः तथा भवितव्यतया तथा तथा भावितया भाग्यवशादित्यभिप्रायः । किं बहुना बहुत्वेन मन्दभाग्यस्य दुरदृष्टस्य दौरात्म्याद् दुष्टत्वेन हेतोः, ईदृशस्य एवंविधस्य क्लेशस्य मम तपश्चरणामकदुःखस्य विहितत्वात् कृतत्वात्, पवनो वायुः प्रदीपमिव, अनङ्गः कामः, मम विकारदर्शनेन अपहृतं दूरीभूतं धैर्यं धृतिर्यस्य तम्, तमपि मुनिकुमारम्, तरलतां चञ्चलताम् अनयत् प्रापितवान् । इहोपमा । पाठभेदेन भग्नप्रक्रमतादोषो वारणीयः ।
तदेति । तस्य तापसकुमारस्यापि अभिनवागतं नूतनायातं मदनं कामं प्रत्युद्गच्छन्निव आदरं कर्तुं सम्मुखं व्रजन्निव, रोमोद्गमो रोमाञ्चः प्रादुरभवत् प्रकटीबभूव । अन्योऽपि नवीनागतं स्वामिनं समादर-णाय सम्मुखं व्रजति । इह प्रत्युद्गमनक्रियारूपफलोत्प्रेक्षा ।
मदिति । मत्सकाशं मत्संविधम् अभिप्रस्थितस्य सम्मुखं चलितस्य मनसो हृदयस्य मार्गं पन्थानम् उपदिशद्भिरिव आदेशं ददद्भिरिव श्वासैः निःश्वासपवनैः पुरोऽग्रतः प्रवृत्तं प्रस्थितम् । अन्योऽप्यपरिचितस्य पन्थानमादिशन्नग्रतो गच्छति । तस्यापि निःश्वासो निःसृत इत्यर्थः । उत्तालंकारः ।
वेपय्विति । वेपथुगृहीता शरीरोत्पन्नकम्पाभिभूते सात्त्विकभावसङ्क्रान्ता करतलगता पाणिस्यिता अक्षमाला जपमाला, व्रतभङ्गभीतेव ब्रह्मचारिणोऽपि मदनावेगाद् ब्रह्मचर्यनाशनस्त्वेव सती अकम्पत अचलत् । इह त्रासात्मकहेतूत्प्रेक्षा ।
द्वितीयेति । द्वितीया कस्याश्चित् पारिजातमञ्जर्याः प्रागेव श्रवणे विद्यमानत्वात्तदन्या, कर्णावसक्त-कुसुममञ्जरीव श्रवणसंलग्नपुष्पवल्लरीव, कपोलतला सङ्गिनी गह्वापरप्रदेशाश्लेषिणी स्वेदसलिलस्य घर्म-जलस्य शीकरजालिका विन्दुश्रेणीः समदृश्यत समालोक्यत । इह द्रश्योत्प्रेक्षा ।
मदिति । अपि च, मम दर्शनप्रीत्या वीक्षणजनितहर्षेण विस्तारतस्य प्रसारितस्य, उत्ताने ऊर्ध्वंगते तारके कनीनिके यस्य तस्य, तमुद्देशं तं प्रदेशं पुण्डरीकमयमिव नयनयोः शुभ्रत्वात् सिताम्भोजव्याप्तमिव, उपदर्शयतः अन्येभ्यो ज्ञापयतः लोचनयुगलस्य नेत्रद्वयस्य विसर्पिभिः प्रसारिभिः अंशुसन्तानैः रश्मि-
भवितव्यतासे—अधिक कहाँ तक कहूँ, मेरे दुरदृष्टकी कुटिलतासे और उस कुमारको विधाताद्वारा इतना क्लेश-विहित होनेसे—मेरा कामविकार देखकर उस कुमारका भी धैर्य विनष्ट हो गया। उस समय वायु जिस प्रकार प्रदीपको चञ्चल करता है उसी प्रकार कामदेवने उसको भी चञ्चल कर दिया।
उस समय नवागत कामदेवके प्रत्युद्गमन (सम्मान) करनेके लिए ही मानो उसके शरीरमें भी रोमाञ्च आविर्भूत हो गया। उसका मन भी मेरे निकट आ गया था; अतएव उसके मार्ग दिखलानेके लिए मानो उसका भी निश्वास आगे आगे चलने लगा। प्रकम्पमान हस्तस्थित उसकी अक्ष (जप) माला, मानो ब्रह्मचर्यके लोपके भयसे ही काँपने लगी। उसके गण्डस्थल (गाल) पर लगे धर्म-जल विन्दुसमूह (स्वेदजलकण की माला) कर्णमें पहनी हुई दूसरी कुसुममञ्जरीके समान दीखने लगे। उसके नयनयुगल मेरे दर्शनकी प्रीतिसे विस्तारित (विस्फारित) हो गये, दोनों कनीनिकाएँ ऊपर हो उठीं, अतएव वह नयनयुगल उस प्रदेशको मानो श्वेतपद्ममय होकर प्रतीति उत्पन्न करने लगा, एवं उस नयनयुगलसे किरण-जाल निकल कर दशों दिशाओंको व्याप्त कर दिया। उस समय
१. मद्विकारापहृतधैर्य्यं । २. ॰॰॰आगतमदनं । ३. प्रत्युद्गतवानिव । ४. वेपथुन्ना । ५. अकम्पर्त गात्रयष्टिरक्षमाला च । ६. मदन ।
पुण्डरीकदर्शनवर्णनम् ६१ ] चन्द्रकला-विद्योतिनीसहिता । ४३१
कुवलयवनैरिव गगनतलमुत्पतितैरुरुध्यन्त दशदिशः । तदा तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेगा तत्क्षणमहमवर्णनयोग्यां का- मप्यवस्थामन्वभवम् । इदञ्च मनस्यकरवम्-‘अनेक-सुरत-समागम-लास्य-लीलोपदेशोपाध्यायो मकरकेतुरेव विलासानुपदिशति, अन्यथा विविध-रसासङ्ग-ललितेष्वीदृशेषु व्यतिकरेष्वप्रविष्ट- बुद्धेरस्य जनस्य कुत इयेयम् अनभ्यस्ताकृति' रतिरसनिष्यन्दिनिव क्षरन्ती, अमृतमिव वर्ष- न्ती', मदमुकुलितेव, खेदालसेव, निद्राजडेव, आनन्द-भर-मन्थर तरत्तार'-सञ्चारिणी, अनि-
प्रवाहैः, यदृच्छया स्वेच्छया अच्छोदस्य तत्संज्ञकसरसः सलिलं जन्म अपहाय त्यक्त्वा गगनतलम् आकाशतलम् उत्पतितैः उद्गतैः, विकचकूवलयवनैरिव प्रस्फुटितनीलोत्पलारण्यैरिव विद्यमानैः, तेषां रश्मीनां तु नीलकनीनिकाजनितत्वेन नीलत्वादित्याशयः, दशदिशः अरुध्यन्त आच्छाद्यन्त ।
इह 'पुण्डरीकमहमिव' इत्यत्र क्रियोत्प्रेक्षा, 'विकचकूवलयवनैरिव' इत्यत्र जात्युत्प्रेक्षा, तया दशदिशानाच्छादनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिश्चेति परस्परनेषामङ्गाङ्गिभावसङ्करः ।
तदेति । तस्य मुनिकुमारस्य अतिप्रकटया बाहुल्येन प्रकाशितया, विकृत्या मदनविकारेण द्विगुणीकृतमदनावेक्षा द्विगुणां नीतकामावेशा अहं तत्समयं वर्णनस्य ( कथनस्य ) योग्या न भवतीत्यवर्णनयोग्या ताम्, कामपि अनिर्वचनीयां दशाम् अवस्थाम् अन्वभवम् अनुभूतवती ।
इदमिति । किञ्चेति चार्थः । मनसि चित्ते इदम् अकरवम् इदमचिन्तयमित्यर्थः । अनेके बहुविधा ये सुरतसमागमाः सम्भोगसंसर्गाः त एव लास्यलीला नृत्यव्यापाराः तासाम् उपदेशे शिक्षणे उपाध्याय आचार्यः, मकरकेतुः काम एव विलासान् जनानां लीलाकटक्षापादनावधिविभ्रमान् उपदिशति शिक्षयति । अन्यथा कामद्वारा शिक्षणाभावे, रस्यन्ते आस्वाद्यन्ते साक्षादनुभवविषयीक्रियन्ते ये ते रसाः शब्दस्पर्शप्रभृतयो भोग्यविषयाः, विविधानाम् अनेकानां रसानां शब्दस्पर्शादिविविधानाम आस्वादेन रतिसंसर्गेण तद्वत्सुहृदैश्चोत्पद्येनेत्यर्थः । ललितेषु सुन्दरेषु ईदृशेषु, पूर्वविदेषु व्यतिकरेषु विलासुक्तदृष्टियानसयोगेषु अप्रविष्टा मुनिभावनया तदनवबोधामवाप्तप्रसन्नता बुद्धिर्मनीषा यस्य तस्य, अस्य जनस्य तपस्विकुमारस्य कुत इयं दृष्टिरस्यादित्यर्थः । दृष्टिविशेषणानि प्रदर्शयति - रनन्दलोत्यादि । अनभ्यन्ता मुहुर्मुहुरपाठिना आकृतिः स्वरूपं यस्या सा । रतिरसस्य सम्भोगायानुरागस्य निष्पन्दं निर्याममन्तर्ति क्षरन्तीव स्रवन्तीव, अमृतं पीयूषं वर्षन्तीव वृष्टिं कुर्वन्तीव, मदिष्ठानां कामिनीनां नितान्ततृप्तिदायकत्वादित्याशयः । मदेन अनङ्गमत्ततया मुकुलितेव किञ्चित् प्रकाशितेव, खेदान्त्सेव परिश्रममन्यग्येव, निद्रया प्रमीलया जडेव दृष्टिरिव, आनन्दभरेण हर्षातिशयेन मन्थरं मन्दं यथा स्यात्तथा, तरन्ती विस्तारं प्राप्नुवन्ती तारा कनीनिका यत्र कर्मणि सद् यथा स्यात्तथा सञ्चरितुं भ्रमितुं शीलं स्वभावो यस्याः सा । तया अनिभृतं स्फुरं मूटने लम्बमानश्रूद्वयम् उल्लासितुं नर्त्तयितुं शीलं यस्याः सा ।
इह 'क्षरन्तीव, वर्षन्तीव, मुकुलितेव' एतेषु क्रियोत्प्रेक्षा । 'खेदालसेव, निद्राजडेव' इत्यनयोस्तु
प्रतीत होने लगा मानो विकसित नीलोत्पलवन, अकस्मात् अच्छोद सरोवर के जलको छोड़कर आकाशकी ओर चढ़ रहा है ।
किन्तु उसके इस प्रकार कामविकार अत्यन्त प्रकाशित देखकर मुझमें कामविकार द्विगुणित हो गया और उस क्षण मेरी अवस्था वर्णन करनेके योग्य नहीं रही (अर्थात् वह अवस्था अनिर्वचनीयताका अनुभव करने लगी। फिर मैंने इस प्रकार विचार किया कि—'नानाविध सम्भोग समागम रूपी नृत्यशिक्षाका अध्यापक कामदेव ही लोगोंको कटाक्षपातप्रभृति विलासितकी शिक्षा देता है; ऐसा न होने पर तो, नानाप्रकार विषयसंमोगजनित रसोंके संसर्गसे मनोहर प्रतीत होने ऐसे कटाक्षपातादि व्यापारोंमें जिसका मन किसी समय भी प्रविष्ट नहीं हुआ ऐसे इस व्यक्तिकी अनभ्यस्त अर्थात् अङ्गुरूप आकृति वाली (कटाक्षादि युक्त ) दृष्टि-मानो अनुरागका रस निस्तारण करती (क्षरन्ती), अमृतवृष्टि करती, मदप्रयुक्त मानी मिची, खेदसे मन्द (अलस) हुई, निद्रासे जड़ हुई, अत्यन्त आनन्दसे बहुत ही धीमी और चञ्चल पुतली-सहित सञ्चारित होती (फिरती) भ्रूलताको स्फुरतासे
१. तत्क्षणमहमवर्णनीयोद्दशाम् । २. कुत इयम् । ३. अनभ्यस्ता जाता । ४. ***निष्यन्दमिव ।
५. वर्षन्ती, क्षरन्ती अमृतमिव । ६. तरलतार ।
४३२ | कादम्बरी- | [ कथायाम्-
भृत-भ्रूलतोल्लासिनी¹ दृष्टिः। कुतश्चेदमतिनैपुण्यम्, यच्चक्षुषैवानक्षरमेवमन्तर्गतो हृदयाभि- लाषः कथ्यते'।
प्राप्तप्रसरो² चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम्-‘भग- वन् ! किमभिधानः³, कस्य चायं तपोघनस्य युवा ?⁴ किन्नामन्नश्च तरोरियमनेनावतंसीकृता⁵ कुसुम-मञ्जरी ! जनयति हि मे मनसि महत् कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽय- मनाघ्रातपूर्वी गन्धः' इति ।
स तु सामीपद्विहस्यान्रवीत्—'बाले ! किमनेन पृष्टेन प्रयोजनम्, अथ कौतुकमावेद- यामि, श्रूयताम्—
अस्ति खलु सकलत्रिभुवन-प्रख्यातकीर्तिरत्युदारतपाः सुरासुरसिद्धवृन्दवन्दित॑⁷-चरण- युगलो महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च भगवतः⁸ सुरासुरलोकसुन्दरी⁹-हृद-
कुत इति । किञ्च, चक्षुषैव निरीक्षणविशेषेणैव, एवम् अनेन प्रकारेण अन्तर्गतो हृदयाभिलाषः चित्ताभिप्रायः अनक्षरं वचनरहितं यथा स्यात्तथा यत् कथ्यते उच्यित स्फुटं ज्ञाप्यते, इदं प्रत्यक्षेण विद्यमानम् अतिनैपुण्यम् अत्याधिकदक्षत्वं कुतः स्यादित्यर्थः, अत एव मदनोपदेशादेवैवंविधा दृष्टिः इदञ्च नैपुण्यमित्यभिप्रायः ।
प्राप्तेति । किञ्च, प्राप्तप्रसरा स्वस्य तथाविधदृष्टिविषयत्वाह्लब्धावकाशा अहम् उपसृत्य समीपमेत्य अस्य तपस्विकुमारस्य तं द्वितीयम् अपरं सहचरं सखायं मुनिबालकं तपस्विकुमारं प्रणामपूर्वकं नमस्कार-पूर्वकम् अपृच्छं पृष्टवती । भगवन् महाभाग ! किमभिधानः किंनामा कस्य किंनाम्नो वा तपोघनस्य मुनेः अयं युवा तरुण आत्मज इत्यर्थः । किन्नाम्नः किमभिधानस्य तरोर्वृक्षस्य इयं दृश्यमाना कुसुम-मञ्जरी पुष्पवल्लरी अवतंसीकृता कर्णभूषणीकृता ?, हि यतोऽस्याः कुसुममञ्जर्याः समुत्सर्पन् प्रसरन् असाधारणसौरभः असामान्यगन्धवृतिकारिसुगन्धिः अनाघ्रातपूर्वो नासिकयाऽगृहीतपूर्वोऽयं गन्धो मे मम मनसि चित्ते महत्कौतुकं महदाश्चर्यं जनयति उत्पादयति ।
स इति । स मुनिबालको मां प्रति ईषद्विहस्य किञ्चित् स्मितं कृत्वा अग्रवीत् अवोचत्—बाले कुमारिके ! अनेन पृष्टेन पृच्छया किं प्रयोजनं कोऽर्थः ?, अथ यदि तव कौतुकं कुतूहलं विद्यते तदा आवेदयामि कथयामि, श्रूयताम् आकर्ण्यताम्—
अस्तीति । सकलत्रिभुवने त्रैलोक्यस्य निखिलस्थानेष्वित्यर्थः प्रख्याता प्रसिद्धा कीर्त्तिर्यशो यस्य सः, अत्युदारम् अत्युत्कृष्टं तपो यस्य सः, सुरासुराणां देवदानवानां सिद्धानां तत्संज्ञकदेवयोनिविशेषाणाञ्च वृन्देन समूहेन वन्दितं नमस्कृतं चरणयुगलं पादद्वयं यस्य सः, दिव्यलोकनिवासी स्वर्गलोकवसनशीलः महामुनिः महातपस्वी श्वेतकेतुर्नाम श्वेतकेतुसंज्ञः अस्ति विद्यते ।
तस्येति । तस्य भगवतः श्वेतकेतोः, सुरासुरलोकयोः देवदानवलोकयोः याः सुन्दर्यः कामिन्यः तासां
नाचती-ऐसी क्यों होती है ? और इस प्रकारकी अत्यधिक निपुणता इसमें कहाँसे आई कि एक अक्षरके उच्चारण नहीं करने पर भी केवल नयन द्वारा ही यह अन्तरस्थित मनकी अभिलाषा इस प्रकार व्यक्त हुई !
इसके बाद अवसर पाकर उसके सहचारी द्वितीय मुनिबालकके निकट जाकर प्रणाम-पूर्वक मैंने पूछा—'भगवन् ! इन (युवक मुनि) का नाम क्या है ? ये किस तपस्वीके पुत्र हैं? किस वृक्षकी यह कुसुममञ्जरी इन्होंने कानमें करणी (रखी) है ? इसकी असाधारण प्राणवृत्ति करनेवाली, अनाघ्रातपूर्व विस्तृत हुई सुगन्धिने मेरे मनमें महान् कौतुक उत्पन्न हुआ है।'
उस समय वह कुछ मुस्कुरा कर मुझसे कहने लगा—'बालिके ! इस विषयमें पूछनेसे तेरा क्या प्रयोजन ! तथापि यदि कौतुक उत्पन्न हुआ है तो कहता हूँ; सुनो:—
जिनका यश समस्त त्रिभुवनमें प्रसिद्ध है, तपस्या जिनकी अतिबृहद् है, और देव-दानवों और सिद्धोंके समूह जिनके चरणोंकी सेवा करते हैं ऐसे श्वेतकेतु नामके एक महर्षि स्वर्गलोकमें निवास करते हैं। उन भगवान् महर्षिका रूप भी समस्त त्रिभुवनके मध्यमें परम सुन्दर था; वह रूप, देवलोक और दानवलोकके
१. ल्तोल्लासिनी । २. लब्धप्रसरा । ३. भगवन् किमभिधानः । ४. कस्य चायं तपोभृत्पुत्रः । ५. ऽयमनवंसीकृता । ६. ऽस्ति त्रिभुवनप्रख्यातकीर्त्तिरत्युदारतपा । ७. ऽसुरसिद्धवृन्द, सिद्धवृन्दमौलिगलित... । ८. तस्य भगवतः । ९. सुरलोकसुन्दरी, सकललोकसुन्दरी... ।
पुण्डरीकजन्मोदन्तवर्णनम् ६२ ] चन्द्रकला-विद्योतिनीसहिता ४३३
द्यानन्दकरम्, अशेषत्रिभुवनसुन्दरम्, अतिशयितनलकूबरं रूपमासीत् । स कदाचिद्देवता-र्चनकमलान्युद्धर्तुमैरावत-मदजल-विन्दुबद्ध-चन्द्रक-शत-खचित-जलाम्, हर-हसितसित-स्रोतसम्, मन्दाकिनीमवततार । अवतरन्तञ्च तं तदा कमलवनेषु सतत्-सन्निहिता विकचं-सहस्रपत्र-पुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्त्याः प्रेममन्दँ-मुकुलिते-नानन्द-बाष्प-भर-तरङ्ग-तरलतारेण लोचनयुगलेन रूपमास्वादयन्त्या जृम्भिकारम्भ-मन्थर-मुखविन्यस्त-हस्तपल्लवाया मन्मथविकृतं मन आसीत् । आलोकनमात्रेण च समासादित-सुरत-समागम-सुखायास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत्, तस्माच्च कुमारः समुद-
हृदयानन्दकरं चित्तप्रमोदोत्पादकम्, अशेषे त्रिभुवने त्रिविष्टपस्य समस्तस्थाने सुन्दरं सर्वेभ्यो हृद्यमित्यर्थः । तथा अतिशयितः अतिक्रान्तः नलकूबरः तत्संज्ञको धनपतिपुत्रः तदीयरूपं तत्सौन्दर्यं येन तत्तथोक्तम् । 'आसीत्' इति भूतकालानिरूपणेन वार्धक्यात् सम्प्रति तथाविधं सौन्दर्यं न विद्यत इति ध्वनितम् ।
त इति । स श्वेतकेतुः कदाचित् कस्मिंश्चित्समये देवतानां सुराणाम् अर्चनार्य पूजनाय कमलानि पङ्कजानि उद्धर्तुम् उत्तोलयितुम्, ऐरावतस्य सलिले अवगाहमानस्य सुराधिपगजस्य मदजलविन्दुभिः दानवारिकणैः बद्धम् उत्पादितं यत् चन्द्रकशतम् अनेकरूपं देदीप्यमानं वर्तुलाकारं विह्ववृन्दं तेन खचितं व्याप्तं जलं सलिलं यस्याः ताम्, तथा हरहसितवत् महेशहास्यवत् सितं श्वेतं स्रोतः प्रवाहो यस्याः ताम्, मन्दाकिनीम् स्वर्गदीम् अवततार अवतीर्णवान् । इह हरेत्यादौ लुप्तोपमाच्छेकानुप्रासयोरेकाश्रयानुप्रवेशसङ्करः ।
अवेति । किञ्च, तदा तस्मिन् समये अवतरन्तम् आकाशादागच्छन्तं तं श्वेतकेतुं मुनिं कमलवनेषु नलिनखण्डेषु सततं निरन्तरं सन्निहिता निकटवर्त्तिनी, विकचं प्रस्फुटितं सहस्रपत्रं सहस्रदलारमर्क यत् पुण्डरीकं सितकमलं तत्र उपविष्टा आसीना लक्ष्मीर्देवी ददर्श अवलोकितवती ।
तस्या इति । तं मुनिम् अवलोकयन्त्याः पश्यन्त्याः तस्याः लक्ष्म्याः, प्रेम्णा कामानुरागेण मन्दमुकुलितेन किञ्चिन्मुकुलितेन सानन्दवाष्पभरस्य हर्षनेत्राम्बुसमूहस्य तरङ्गेन कलोलेन तरला चपला तारा कनीनिका यस्य तेन, लोचनयुगलेन नेत्रद्वयेन रूपं सौन्दर्यम् आस्वादयन्त्याः सादरमवलोकयन्त्याः, जृम्भिकायाः कामावेशजनितशरीरभङ्गस्य आरम्भेण आरम्भणेन मन्थरम् अलसं यत् मुखं वदनं तत्र विन्यस्तः स्थापितो हस्तपल्लवः करकिसलयो यया तस्याः मनश्चित्तं मथ्नाति आलोदयतीति मन्मथः कामः तेन विकृतं विह्वलीकृतं मनश्चित्तम् आसीत् अभूत् ।
आलोकनेति । किञ्च, आलोकनमात्रेण केवलं निरीक्षपेनैव समासादितं लब्धं सुरतसमागमसुखं सम्भोगारमकसंयोगानन्दी यया तस्याः, तस्मिन्नेव आसनीकृते विष्टरीकृते पुण्डरीके श्वेतपद्मे कृतार्थता सम्भोगस्य सफ़लना वीजपात इत्यर्थः, आसीत् अभूत् किन्वेति चार्थः । तस्मात् पुण्डरीकात् कुमारः अयं युवा समुत्पदि उत्पन्नः ।
अहो ! प्रजापतिसहोदरा कविकल्पना विलक्षणं विष्टपाम्तरमपि रचयितुं शक्नोति यस्यान्य अद्भुतेयं कुमारसृष्टिः कविकल्पनया सञ्जाता । अत एवाहु-
'अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्त्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेत् सर्वं तन्नीरासं भवेत् ॥' इति ॥
सुन्दरियोंके हृदयमें आनन्द उत्पन्न करता था, कुवेरन्दन नलकूबरके रूपको भी परास्त किया था। वे किसी समयमें देवपूजाके निमित्त कमल तोडनेके लिए, आकाशगङ्गाके जलमें उतरे । उस समय वह जल ऐरावत हस्तीके मदजल-विन्दुनिर्मित सैकडों चन्द्राकारसे व्याप्त था एवं उसका प्रवाह, महादेवके हास्यके समान शुभवर्णथा । जब वे जलमें उतर रहे थे उस समय उनको, सर्वदा कमलवननिवासिनी विकसित सहस्र-पत्रवाले श्वेतकमलमें बैठी लक्ष्मीने देखा। उनको देखते ही मदनानुरागसे ईषत उन्मीलित (अधि मिचे) और आनन्दाश्रुजलकी तरङ्गसे चञ्चल हुई कनीनिका (पुतली) वाले नयनोंसे उन महर्षिके रूपका आस्वादन करते-करते और जँभाई आनेके कारण अलस हुए मुखमण्डल पर हस्तपल्लव स्थापन करते-करते उसके मनमें काम-विकार उत्पन्न हो गया । किन्तु दर्शनमात्रसे ही उस (लक्ष्मी) को सम्भोगसमागमका आनन्द प्राप्त हुआ और जिस पुण्डरीकमें वह बैठी थी
१. हरहसितस्रोतसम्, हरहसितनीराम् । २. ''''सन्निहितविकच'''' । ३. देवी कमलवदना लक्ष्मीः । ४. प्रेममन्द'''' ।
| ४३४ | कादम्बरी- | [ कथामुखम्- |
|---|
पादि। ततस्तमुत्सङ्गेनादाय' 'भगवन्! गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ। असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसम्भवतया तदेव पुण्ड- रीक इति नाम चक्रे। प्रतिपादितव्रतञ्च तमागृहीतसकलविद्याकलापमकार्षीत्। सोऽयम्।
इयञ्च सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतः पारिजातनामा पादपस्तस्य मञ्जरी। यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमंसादितवती, तदपि कथयामि। अथ चतुर्दशीति भग- वन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्नि-
तत इति । ततः कुमारोत्पत्तेरनन्तरम् उत्सङ्गेन क्रोडेन तं कुमारम् आदाय गृहीत्वा लक्ष्मीरिति शेषः। भगवन् स्वामिन् !, गृहाण स्वीकुरु अयं ममोत्सङ्गे विद्यमानः कुमारः तवात्मजः तव सुतः त्वदव- लोकनेनैव संवृभितानुकूलोऽसावनात्वादित्याशयः। इत्युक्त्वा इत्यभिधाय तस्मै श्वेतकेतवे मुनये तं कुमारकं ददौ दत्तवती।
असाविति । असौ श्वेतकेतुरपि गृहीतवेति शेषः। बालजनोचिताः शिशुजनयोग्याः सर्वाः समस्ताः क्रियाः जातकर्मोदिकाः कृत्वा विधाय तस्य कुमारस्य पुण्डरीकसम्भवतया सितकमलोद्भवतया 'पुण्डरीक' इति नाम इत्यन्वर्थामिधानं चक्रे कृतवान्। पुण्डं सुन्दरेषु तिलकमार्थे मुखरावे शिति व्रजति लभत इति पुण्डरी तरुः स्वार्थिकः कप्रत्ययः।
प्रतिष्ठेति । किञ्च, प्रतिपादितं सम्पादितं व्रतं यज्ञोपवीतं यस्य तम् तथा आ गृहीतः पाठितः सकल- विद्याकलापः समस्तविद्यासमूहो येन तम्, तं पुण्डरीकम् अकार्षीत् कृतवान् श्वेतकेतुरिति सम्बन्धः। अयं युवा सः पुण्डरीकः।
इयमिति । इयमित्यस्य 'तस्य च मञ्जरी' इत्यत्रान्वयः। सुरासुरैः देवराक्षसैः मध्यमानात् विक्षो- भ्यमानात् क्षीरसागराद् दुग्धाम्बुधेः पारिजातनामा मन्दारसंज्ञकः पादपो वृक्ष उद्गतो निःसृतः तस्य वृक्षस्य इयं कर्णावतंसीकृता मञ्जरी वल्लरी एषा कुसुममञ्जरी च व्रतविरुद्धं विलासासङ्गीत्वेन ब्रह्मचर्य- प्रतीपं यथा स्यात्तथा अस्य पुण्डरीकस्य श्रवणसंसर्गं कर्णसंयोगं यथा येन प्रकारेण आसादितवती प्राप्त- वती तदपि वृत्तं कथयामि निवेदयामि।
अथेति । अथ अस्मिन्नहनि चतुर्दशी विधिः इति हेतोः,
उपासना हरेत्त्या चैकादश्यां महामुने ! । चतुर्दश्यां शिवस्येति महापुण्यफलप्रदा ॥
इत्युक्त्या शिवोपासनायां चतुर्दशीदिनेऽधिकमाहात्म्यादित्यभिप्रायः। कैलासगतं रजताद्रिस्यं भगवन्तं माहात्म्यवन्तम् अम्बिकापतिं महेशम् उपासितुं सेवितुम्, अयं पुण्डरीकः, मया ( कपिञ्जलेन ) सह अमरलोकात् स्वर्गात् नन्दनवनसमीपेन इन्द्रोद्याननिकेतेन अनुसरन् कैलासपर्वतमागच्छन्, निर्गत्य इन्द्रोद्यानाद्वहिर्निःसृत्य साक्षान्नन्दनवनदेवतया प्रत्युद्गीभूत्वा इन्द्रोद्यानाधिष्ठात्र्या देव्या प्रणम्य नमस्कृत्य अभिहित उक्त इति सम्बन्धः। तृतीयाया एकवचनान्तानि पदानि 'नन्दनवनदेवतया' इत्यस्य विशेष-
उसीमें उसका मनोरथ पूर्ण हुआ एवं उस श्वेतकेतुसे एक बालकका जन्म हुआ। इसके बाद उसको गोदमें लेकर महर्षिके समीपमें जाकर उसनेने-'भगवन् ! अपने इस पुत्रको ग्रहण करो'-यों कह कर श्वेतकेतुके हाथमें दे दिया। उन्होंने भी उसे ग्रहण कर बालकके उपयुक्त जातकर्मप्रभृति समस्त क्रियाएँ सम्पादन करके पुण्डरीक में उत्पत्ति होने के कारण उसका नाम 'पुण्डरीक' रक्खा। बाद उसका उपनयन संस्कार कराके उसे सब विद्याएँ पढ़ाईं। वही है यह पुण्डरीक।
देव-दानवोंके क्षीरसमुद्रको मन्थन करनेसे जो पारिजात-नामक एक वृक्ष उत्पन्न हुआ था, उसकी यह मञ्जरी है। इस मञ्जरीका धारण करना ब्रह्मचर्यके विरुद्ध होने पर भी जैसे इसने (पुण्डरीकके) कानमें आई यह भी कहता हूँ। आज चतुर्दशी तिथि होनेके कारण, कैलासगामी भगवान् महादेवकी पूजा करनेके लिए ये मेरे साथ स्वर्गलोकसे नन्दन-वनके समीप होकर उस कैलासमें जारहे थे, इतनेमें नन्दन-वनकी साक्षात् अधिष्ठात्री
१. उत्सङ्ग आदाय ।