कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 460, कुल 709 में से
संदर्भ में पढ़ेंपुण्डरीकवर्णनम् ५९ ] चन्द्रकला-विद्योतिनीसहिता । ४२१
काक्षमालिकां करेण कलयन्तम् , अनेक-विद्यापगा-सङ्गमावर्त्तनिभया नाभिसमुद्रयोपशोभमानम् , अन्तर्ज्ञाननिराकृतस्य मोहान्धकारस्यापयान²-पदवीमिवाञ्जनरजोलखाश्यामलां रोमराजिमुदरेण तनीयसीं³ बिभ्राणम् , आत्मतेजसा विजित्य सवितारं परिगृहीतेनं⁴ परिवेषमण्डलेनेव मौञ्जमेखलागुणेन परिक्षिप्तजघनभागम् , अभ्रगङ्गास्रोतो जलप्रक्षालितेन जरच्चकोरलोचनपुट-पाटल कान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम्, अलङ्कारमिव ब्रह्मचर्य्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम् , सङ्केत-
अनेकेति । अनेका नानाप्रकारा विद्या आन्वीक्षिक्याद्या एव आपगा नद्यः तासां सङ्गमे सम्मेलने य आवर्त्तः अम्भसां भ्रमः तन्निभया तत्सदृश्या नाभिसमुद्रया तुन्दकूपिकया उपशोभमानं विराजमानम् ।
इव '...विद्यापगां' इत्यत्र निरङ्गकेवलरूपकम् , 'आवर्त्तनिभया' इत्यत्र आर्थोपमेययोरङ्गाङ्गिभावसङ्करः ।
अन्तरिति । उदरेण जठरेण करणेन, अन्तर्ज्ञानेन आन्तरिकतत्त्ववोधेन निराकृतस्य दूरीकृतस्य, मोहाऽज्ञानमेव अन्धकारस्तिमिरं तस्य अपयानपदवीमिव निःसरणमार्गमिव, अञ्जनरजसां कज्जलधूलीनां लेखेव रेखेव श्यामला कृष्णा ताम् , तनीयसीं केवलमुरस्यारम्भात् कृशतरां रोमराजिं तनूरुहश्रेणीं बिभ्राणं दधानम् ।
इह मोहे तिमिरत्वारोपः शाब्दः, अन्तर्ज्ञाने प्रकाशत्वारोपस्त्वार्थः इत्येकदेशविवर्त्तिरूपकम् , 'अपयानपदवीमिव' इत्यत्र जात्युत्प्रेक्षा, 'अञ्जनरजोलखाश्यामलाम्' इत्यत्र लुप्तोपमा चेत्यासामङ्गाङ्गिभावसङ्करः । अपुष्टार्थत्वदोषस्तु न, तरलाञ्जनरेखावत् लोमावल्याः सर्वथा सादृश्यराहित्यव्यञ्जनार्थं रजः पदोपादानात् ।
आत्मति । आत्मतेजसा स्वकीयतपःप्रभावेण सवितारं सूर्य्यं विजित्य पराभूय परिगृहीतेन हठादानीतेन, परिवेषमण्डलेनेव परिधिवलयेनेव विद्यमानेन, मौञ्जमेखलागुणेन मुञ्जनिमित्तरशनाडोरकेण परिक्षिप्तः परिवेष्टितः जघनभागः अग्रप्रदेशो यस्य तम्। जात्युत्प्रेक्षा ।
अभ्रेति । अभ्रगङ्गायां व्योमनद्याः स्रोतो जलेन प्रवाहसलिलेन प्रक्षालितं धौतं तेन, जरतो वृद्धस्य चकोरस्य जीवञ्जीवस्य पक्षिविशेषस्य लोचनपुटवत् पाटला श्वेतरक्ता कान्तिः शोभा यस्य तेन मन्दारस्य देववृक्षविशेषस्य वल्कलेन त्वचा करणेन , उपपादितं सम्पादितम् अम्बरप्रयोजनं परिधेयवसनकृत्यं येन तम् , तयोरेकमेकं मन्दारवल्कं परिदधानमित्यर्थः । 'इह जरच्चकोरलोचनपुटपाटले' त्यत्र लुप्तोपमा । इहाऽपुष्टार्थत्वदोषस्तु न भवति, वृद्धचकोरस्यैव नयनपुटद्युतिरधिकश्वेतरक्ती भवतीति ध्वननार्थं जरत्पदोपादानात् ।
अलमिति । ब्रह्मचर्य्यस्य स्त्रीसम्बन्धपरिवर्जनरूपस्य अलङ्कारं भूषणमिव, एनं प्राप्य पूर्णावयवतया तस्य कान्त्यतिशयादित्याशयः ब्रह्मचर्यलक्षणमाहाह्निकसूत्रावल्याम्—
'स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्व्वत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपर्ययं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम् ॥'
धर्मस्य सुकृतस्य यौवनं तारुण्यमिव, इह पूर्णत्वादित्यभिप्रायः । सरस्वत्या भारत्या विलासं विभ्रममिव, एनं प्राप्य तस्या अपि अत्यधिककान्तिप्रापणादिति भावः । सर्वविद्यानाम् आन्वीक्षिक्यादिचतुर्दश-
स्फटिकमय अक्षमालिका ( जपमाला ) धारण की थी। उसकी नाभिमुद्रा बहुविध विद्यारूपी नदियोंके संगमते उत्पन्न हुए आवर्त्तके समान शोभायमान थी। आन्तरिक तत्त्वज्ञानरूपी प्रकाशसे निकाले गए मोहान्धकारके बाहर निकलनेके मार्गके समान एवं कज्जल-रेणु-रेखाके समान कुछ-कुछ श्यामवर्ण महीन रोमराजि उसके उदरपर निकल रही थी । अपने तेजसे सूर्यको पराजित कर बलपूर्वक लाए हुए परिवेष-मण्डलके समान एक मुञ्जमेखला ( मूँजकी तागड़ीकी डोरी ) से उसका जघनदेश परिवेष्टित था और आकाशगङ्गाके स्रोतो-जलमें प्रक्षालित, एवं वृद्ध चकोर-पक्षीके लोचनके समान श्वेतरक्त-कान्ति-सम्पन्न एक मन्दार वृक्षके वल्कलसे उसके वस्त्रका प्रयोजन-सम्पादन होता था ( अर्थात् उस प्रकारका एक वल्कल पहना था )। और ब्रह्मचर्यका मानो वह अलङ्कार था, धर्मका मानो यौवनकाल था, सरस्वतीका मानो विलास था, सब विद्याओंका मानो स्वयंवर-पति था और सब वेदोंका
१. स्फटिकगुलिकाक्षमालिकां । २. अपनयन । ३. '...तनीयसा तनीयसीं । ४. आगृहीतेन । ५. आपत्तिमिव ।