कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 457, कुल 709 में से
संदर्भ में पढ़ें| ४१८ | कादम्बरी- | [ कथायाम्- |
|---|
भूतान्यकुसुमपरिमलम् , विसर्पन्तम् , अतिसुरभितया अनुलिम्पन्तमिव पूरयन्तमिव तर्पयन्तमिव घ्राणेन्द्रियम् , अहमहमिकया मधुकरकुलैरनुबध्यमानम् अनाघ्रातपूर्वम् , अमानुषलोकोचितम्, कुसुमगन्धमभ्यजिघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मधुकरीवाकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजात-नूपुरमणि-झङ्काराकृष्ट-सरःकलहंसानि कतिचित् पदानि गत्वा, हर-नयन^३-हुताशनेन्धनीकृत-मदन-शोकविधुरं वसन्तमिव तपस्यन्तम् , अखिल-मण्डल-प्राप्त्यर्थमीशान-शिरःशशाङ्कमिव धृत-
अरण्यकुसुमे इत्यर्थः, अभिभूताः तिरस्कृताः अन्येषां विजातीयानां कुसुमानां प्रसूनानां परिमलाः सौरभाणि येन तम् एतस्मादुत्कृष्टः कोऽपि परिमलो नास्तीत्याशयः । विसर्पन्तं सर्वतः प्रसरन्तम् । अतिसुरभितया अत्यन्तसौगन्ध्यवत्तया घ्राणेन्द्रियं नासिकाम् अनुलिम्पन्तमिव द्रवपदार्थवत् सर्वावयवेषु व्याप्नुवन्तमिव, पूरयन्तमिव परिपूर्णं कुर्वन्तमिव, तर्पयन्तमिव तृप्तिं जनयन्तमिव, अहमहमिकया 'अहमग्रे अहमग्रे' इत्यहङ्कारेण मधुकरकुलैः भ्रमरसमूहैः अनुबध्यमानम् अनुगम्यमानम् , अनाघ्रातपूर्वम् अघ्राणविषयीकृतपूर्वम् अमानुषलोकोचितं देवलोकयोग्यं कुसुमगन्धं पुष्पसौरभं जनमनोहारिणमित्यर्थः अजिघ्रम् घ्राणविषतामनयम् ।
इह 'अनुलिम्पन्मिव, पूरयन्तमिव, तर्पयन्तमिव' इति तिसृणामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः ।
कुत इति । कुतः कस्मात् प्रदेशाद् अयं गन्ध आयातीति शेषः इत्येवम् उपारूढम् उत्पन्नं कुतूहलं यस्याः सा तादृशी चाहम् , तेन कुसुमगन्धेन पुष्पामोदेन मुकुलिते कोरकवदीपदुन्मीलिते लोचने नयने यस्याः सा मधुकरी भ्रमरीव आकृष्यमाणा बलात्कारेण नीयमाना च सती, कौतुकेन कुतूहलेन तरलः द्रुतपदक्षेपाय कम्पः, अत्यधिकतरं पूर्वस्मादतिमात्रं यथा स्यात्तथा उपजात उत्पन्नो यो नूपुरमणीनां पादकटकखचितरत्नानां झङ्कारः 'झं झं'इति शब्दविशेषः तेन आकृष्टाः नूपुरखचितरत्नश्रवणेन कलहंसानामुपस्थितेः प्रागुक्तिकत्वात् चरणान्तिकमानीताः सरःक्लहंसाः कासारकादम्बा यैस्तानि, कतिचित् कियन्ति पदानि गत्वा, 'अतिमनोहरं स्नानार्थमागतं मुनिकुमारकमपश्यम्' इति दूरेण सम्बन्धः । इह द्वितीयेकवचनान्तपदानि अग्रेतनस्य 'मुनिकुमारकम्' इत्यस्य विशेषणानि ।
हरेति । हरनयनस्य महेशतृतीयनेत्रस्य यो हुताशनो वह्निः तेन इन्धनीकृतः भस्मीकृत इत्यर्थः यो मदनः कामः तस्य शोकेन खेदेन विधुरं विह्वलम् अत एव तपस्यन्तं वैराग्यात्तपश्चरन्तं वसन्तं सुरभिसमयमित्र, पुष्पसौरभवत्त्वात्तस्य कामसखत्वाच्चेत्याशयः । इह पदार्थहेतुककाव्यलिङ्गेन द्रव्योत्प्रेक्षा सङ्कीर्यते ।
अखिलेति । अखिलमण्डलप्राप्त्यर्थं तत्स्वरूपस्य कलामात्रत्वात् समस्तमण्डललाभार्थं घृतव्रतं स्वीकृततपोनियमम् , ईशानशिरःशशाङ्कं महेशभालस्थचन्द्रमिव, तत्सदृशधवलरूपत्वादित्याशयः । उक्ताऽलङ्कारः ।
सौरभको परास्त करता, सब स्थानोंमें फैलता, अत्यधिक सुगन्धि होनेसे घ्राणेन्द्रियको मानो लिप्त करता, तृप्त करना, पूर्ण करता, उतावलीमें द्रुततर-पदक्षेप करते (दौड़ते) भ्रमरोंके झुण्डोंसे अनुगत, 'अनाघ्रातपूर्व, मनुष्य-लोकके अयोग्य पुष्प-सौरभ आया । 'यह कहाँसे आया है ?' ऐसा कौतूहल उत्पन्न होनेसे मैं, थोड़ा-थोड़ा नयन उन्मीलित (आँखें मीच ) कर, भ्रमरीके समान उस कुसुम-सौरभसे आकृष्ट हो, जिज्ञासासे चञ्चल होकर, कितने ही पद (कदम) आगे गई । मेरे पदक्षेप करनेसे अधिक हिलते नूपुर-मणि के झङ्कारसे अच्छोदसरोवरमेंसे कलहंसगण आकृष्ट होकर दौड़ने लगे । उसके बाद स्नान करनेके लिए आए हुए एक अत्यन्त सुन्दर मुनिकुमारको मैंने देखा । उसे देखकर प्रतीत होता था कि—महादेवके नयनमेंसे निकली अग्निसे भस्मसात् किये (जलाये) गये कामदेवके शोकसे विह्वल होकर वसन्त मानो तपस्या करता था, महादेवके मस्तकस्थित क्षुद्र-चन्द्र मानो अपने सम्पूर्ण
१. मधुकरानुकृष्यमाणा, **मधुकरीवावकृष्यमाणा ।
२. मणिनूपुर ।
३. क्वचित् 'नयन' इति पदं न विद्यते ।