कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 47, कुल 709 में से
संदर्भ में पढ़ें२६ प्रस्तावना
ङ्किता भवति। शुकनासेन हि चन्द्रापीडाय याः शिक्षाः प्रदत्ताः तासां रचनायान्तु कविः स्वलेखनीमन्या- दृतरूपेण प्रावर्त्तयत्। तास्तथाविधा रहस्यपूर्णास्तथा मार्मिकाः सन्ति या मन्ये प्रत्येकदेशस्थप्रत्येक- राजहिताय सर्वथैवोपयोगिन्यो भविष्यन्ति।
प्रकृतिनिरीक्षणम्
कादम्बर्याः प्रकृतिवर्णनमतीव सुन्दरं सजीवं च सञ्जातम्। केचन महाकवयो यदि प्रकृतेर्मङ्गल- रूपस्य चित्रण एव चतुरा अवलोक्यन्ते तर्हि केचन महाकवयः प्रकृतेर्भयावहस्य तथा रोमाञ्चकारिणः स्वरूपस्य वर्णने कृतकार्याः प्रतीयन्ते, परन्तु महाकवेर्बाणभट्टस्य भूयसीमेव विशेषता वर्त्तते यत्तस्य लेखनी समभावेन मधुरभयावहोभट्विधदृश्यवर्णने पूर्णं साफल्यमुपगतवती। एतद्दृश्यस्वरूपहृदयङ्ग- मविधानाय महाकविर्विविधालङ्काराणां साहाय्यं गृहीतवान्। उपमोत्प्रेक्षा-परिसंख्याविरोधाभासालङ्का- राणां स्तूपानैव स्थापयित्वा कविरयं पाठकानां पुरतः स्ववर्ण्यविषयस्य मञ्जुलाभिव्यञ्जनं कृतवान्। विन्ध्याटव्या भीषणरूपस्य चित्रणं कविर्यादृशेन साफल्येन कृतवान् तद्धि महादाश्चर्यं जनयति।
तथाहि—
'गिरितनयेव स्थाणुसङ्गता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचर- परिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च।'
(कादम्बरी-कथामुखम्-५७ पृ.)
महर्षिजावालेराश्रमस्य कीदृशं सात्त्विकं मनोरममतिहृद्यं वर्णनम् ?, यस्य पठनेन कस्य सचेतसः पुरुषस्य चित्तं तपोवनभव्यमूर्त्त्या प्रभावितं न भवति ?।
तथाहि—
'यत्र च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वयःपरिणामे द्विजपतनम्, उपवनचन्दनेषु जाड्यम्,, अग्नीनां भूतिमत्त्वम्, एणकानां गीतश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः, श्रीफलाभिलाषः मूलानामधोगतिः ॥'
(कादम्बरी कथामुखम्-१२४, १२५ पृ.)
न पर्यत्यजत्। चन्द्रापीडस्यापि ततःप्रभृति तस्यां प्रतिक्षणमुपचीयमाना महती प्रीतिरजायत। स्थितस्तस्यामस्य प्रतिदिन प्रसादः। कृता चासौ सर्वथैव विस्रम्भव्यापारेष्वभिन्ना सहृदयता। सोऽयमपूर्वः सम्बन्धः सुमधुरश्च। चन्द्रा- पीडेन सार्धं पत्रलेखाया नैकट्यमसामान्यं दिग्विजययात्रायामेकस्मिन्नेव गजपृष्ठे पत्रलेखा चन्द्रापीडेन सार्धमा- सनमधितिष्ठति। निशाया शिबिरस्थचन्द्रापीडः यदा अनतिदूरशयाननिपुणेन वैशम्पायनेन सह संलपति, तदा, सन्निधौ क्षितितलविन्यस्तकुथ्योपरि प्रस्वपिति पत्रलेखा। यदा कादम्बर्या हृदये महामहोत्सवसमारम्भः सन्निकृष्टस्तदा पत्रलेखायास्तस्मादतिथुद्रादधिकारादपसारणं नावश्यकनममन्यत लोकः। पत्रलेखां प्रति कादम्बर्या नारीजनसुलभो नासीदीषदपि द्वेषः। चन्द्रापीडेन पत्रलेखायाः सम्बन्ध इति हि सा प्रियसखीति कादम्बर्या परमाद्रियत।
कादम्बरीकाव्ये पत्रलेखा यद्भूखण्डमधिकृतवती, न तत्र द्वेषसन्देहादीना सद्भावः। तत्स्थानं स्वर्गादपि निष्कण्ट- कम्, परन्तु क नु खलु तत्रामृतविन्दुः चलति तस्याः पुरतः एव प्रवलं प्रणयामृतपानम्। किन्तु कदाचिद् एतद्- घागेनास्या एकत्र्यामपि शिरायानेकोऽपि रक्तविन्दुर्न चाञ्चल्यमापेदे। अपि सा चन्द्रापीडस्य च्छायेवानुवर्तिनी, तथापि राजपुत्रस्य तस्तारुण्यस्येषदपि तापस्तां कदाचिन्नासृजत्।
यदा पत्रलेखा कति कालान् कादम्बर्या सहावस्थाय तद्वार्त्तया प्रत्यावृत्ता, एवमपि यदा ललितस्मितेन दूरत एव प्रीतिरासं प्रकाशयन्ती चन्द्रापीडं प्राणमत्, तदा सा प्रकृतिलह्वमापि कादम्बर्याः प्रसादलब्धं सौभाग्यमिव वह्नम- तरतामगच्छत्। युवराजश्चादरातिशय प्रदर्शयेन्नासनादुत्थाय तामालिङ्गत्। तस्माद्वाङ्मनसयोरगोचरोऽपूर्व एवा- नयोः संमन्य इत्यवगम्यते। परमार्थिकरूपे त्वियं रोहिणीति कादम्बरी-प्रश्नोत्तरे चन्द्रापीडः स्वयमेवोक्तवान्। अतो युक्त एवानयोः सहवास इत्यवधेयम्। इतोऽधिकजिज्ञासुभिः प्रबन्धकल्पलतिकादाववलोकनीयम्।