भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 482, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 482

कादम्बर्यान्महाश्वेतावृत्ता० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४३

अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत् । सा च पश्चाच्चिरादिवागत्य तथावस्थितां शनैःशनैः मामवादीत्—'भर्तृदारिके ! यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियमवतंसीकृता सुर-तरु-कुसुम-मञ्जरी, स तस्माद् द्वितीयादात्मनो रक्षन् दर्शनमतिनिभृतपदः कुसुमित-लता-सन्तान-गहनान्तरेणागत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत्-'बालिके ! केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व वा गच्छति' इति । मयोक्तम्-एषा खलु भगवतः श्वेतमानोरंशुसम्भूतायामप्सरसि गौर्य्यां समुत्पन्ना, देवस्य सकल-गन्धर्व-मुकुट-मणिशलाका-शिखरोल्लेख मसृणिते-चरण-नख-चक्रस्य प्रणय-प्रसुप्त-गन्धर्व-कामिनी-कपोल-पत्रलता-लाञ्छित-भुज-तरु-शिखरस्य पादपीठीकृत-लक्ष्मी-करकमलस्य गन्धर्वाधिपतेर्हंसस्य दुहिता

अथेति। ताम्बूलकरङ्कवाहिनी नागवल्लीपात्रधारिणी मदीया तरलिका, मयैव सह स्नातुं मज्जितुं गता याता आसीत् । सा ताम्बूलकरङ्कवाहिनी तरलिका च पश्चात् मद्गृहगमनानन्तरं चिरादिव बहुसमयादिव आगत्य एत्य तथावस्थितां विरहातुरामित्यर्थः । माम् शनैः शनैः मन्दं मन्दम् अवादीत् अवोचत्—'भर्तृदारिके राजपुत्रि ! यौ तौ तापसकुमारकौ मुनिदालकौ कपिञ्जलपुण्डरीकनामानौ दिव्याकारौ अत्यन्तमनेाहराकृती अस्माभिः अच्छोदसरस्तीरे अच्छोदामिधसरोवरतटे दृष्टौ अवलोकितौ, तयोर्द्वयोर्मध्ये एकः पुण्डरीक इत्यर्थः, येन भर्तृदुहितुः भवत्याः इयं पुरो दृश्यमाना सुरतरोः पारिजातस्य कुसुममञ्जरी पुष्पवल्लरी अवतंसीकृता कर्णभूषणीकृता, स तपस्वी पुण्डरीकः तस्माद् द्वितीयात् कपिञ्जलादित्यर्थः, आत्मनः स्वस्य दर्शनं वीक्षणं रक्षन् निवारयन् कपिञ्जलो यथारमानं नावलोकयति तथेत्यर्थः, अति निभृतपदः अत्यन्तनिश्छलचरणसञ्चारः, कुसुमितः पुष्पितः लतासन्तानः वल्लीसमूहो यत्र तयोक्तस्य गहनस्य सान्द्रवनस्य अन्तरेण मध्येन, आगच्छन्तीम् आयान्तीं मां पृष्ठतः पश्चाद्भागात् आगत्य एत्य भर्तृदारिकां भवतीम् उद्दिश्य आश्रित्य अप्राक्षीत् पृष्टवान्—

बालिके इति । 'बालिके कन्यके ! का इयं कन्यका बालिका ?' कस्य महात्मनः अपत्यं पुत्री ? किमभिधाना किनामिका ? क्व वा गच्छति व्रजति' इति । मया तरलिकया उक्तं कथितम्—भगवतो माहात्म्यवतः श्वेतमानोः शुभ्रांशोश्चन्द्रमसः, अंशुसम्भूतायां रश्मिभ्यः समुत्पन्नायां गौर्यां गौर्यभिधानायाम् अप्सरसि दिव्ययोषित्ति समुत्पन्ना सञ्जाता एषा कन्यका, सकलानां समस्तानां गन्धर्वाणां देवगायकानां मुकुटेषु शिरोभूषणेषु या मणिशलाका रत्नशलाकाः तासां शिखरैः अग्रैः उल्लेवेन प्रणामसमये घर्षणेन मसृणितं चिक्कणीकृतं चरणयोः पादयोः नखानां पुनर्नवाणां चक्रं समूहो यस्य तस्या एतेन महासाम्राज्यं व्यञ्जितम् । प्रणयेन प्रेम्णा प्रसुप्ताः सह शयिता या गन्धर्वकामिन्यः देवगायकसुन्दर्यः तासां कपोलेषु गण्डेषु या पत्रलताः पत्राकाराश्चित्रविशेषाः ताभिर्लाञ्छिते चित्रिते सम्भोगकाले आवेष्टनक्रमेण तासामुत्तमाङ्गग्रहणेन भुजयोर्गण्डसंसक्तत्वादित्यभिप्रायः, भुजौ बाहू तरू इव लम्बमानत्वात् स्थूलत्वाच्च वृक्षाविव तयोः शिखरे ऊर्ध्वदेशयुगले यस्य तस्य । अनेन कलाकौशलं ध्वनितम् । पादपीठाकृतं

इसके बाद तरलिका नामकी मेरी ताम्बूलकरङ्कवाहिनी (पानदान रखनेवाली), जो मेरे साथ ही स्नान करनेके लिए गई थी, पीछेसे मानो वह बहुत कालके बाद आकर, मुझसे धीरे धीरे कहने लगी—'राजकन्ये ! हमने अच्छोदसररोवरके तीर पर, जो मनोहराकृति उन दो मुनिकुमारों को देखा थी, उनमें एक, जिसने आपके कानमें इस पारिजात कुसुम-मञ्जरीको पहनाया था, वे उस द्वितीय मुनिकुमारसे अपनेको छिपाकर, पुष्पित-लता परिपूर्ण सघन वनके अभ्यन्तरसे मेरे समीप अत्यन्त निभृत पदसञ्चारसे आकर, मै आती थी तब पीछेसे मुझसे आपके विषयमें पूछने लगा—'बालिके ! यह कन्या कौन है ? किसकी सन्तान है ? इसका नाम क्या है ? और कहाँ गई है ?' तदनन्तर मैंने उत्तर दिया—'भगवन् ! नमस्कार करनेके समयमें समस्त गन्धर्वोंके मुकुटस्थित मणिशलाकाके अग्रभागके सङ्घर्षणसे जिनके चरण-नखसमूह चिकने हो गये हैं, प्रेमसे सोती हुई गन्धर्व-सुन्दरियोंके गण्डस्थल (गाल) पर पत्र-लता-चिह्नसे जिनके वृक्षतुल्य विशाल बाहुयुगलका ऊर्ध्वभाग चिह्नित है, और जिन्होंने लक्ष्मीके कर-कमलका आसन बनाया है (अर्थात् जो लक्ष्मीको अपने निकटसे नहीं सरकने-देते हैं); ऐसे


१. क्वचिद् 'शनैः' इत्येकमेव पदमुपलभ्यते ।
२. कर्णावतंसीकृता ।
३. सुरतरुमञ्जरी ।
४. अंशु संभूतायाम्, अंशुभूतायाम् ।
५. नखदशनानाम् ।