भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 483, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 483
४४४कादम्बरी-[ कथायाम्-

महाश्वेता नाम, गन्धर्वाधिवासं हेमकूटाचलम् अभिप्रस्थिता' इति कथिते च मया, किमपि चिन्तयन् मुहूर्त्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनय-संर्थितामिव दर्शयन् पुनराह—'बालिके ! कल्याणिनी तवाविसंवादिनी अचपला बालभावेऽ-प्याकृतिरियम् । तत् करोषि मे वचनमेकमभ्यर्थ्यमाना ?' इति । ततो मया सविनयमुपरचि-ताञ्जलिपुटया दर्शितादरमभिहितः—'भगवन् ! कस्मादेवमभिधत्से, काऽहम् ? महात्मानः सक-लत्रिभुवनपूजनीयास्त्वादृशोः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् ; तद्विश्रब्धमादिश्यतां कर्त्तव्यम्, अनुगृह्यतामयं जन' इति । एव-मुक्तश्च मया सस्नेहया सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य निकट-


चरणपीठवत्तच्छङ्गीकृतं लक्ष्म्याः पद्मा‌या अपि करकमलं हस्तपङ्कजं येन तस्य । अनेन समृद्धेः परा काष्ठा सूचिता । देवस्य पूज्यस्य गन्धर्वाधिपतेः देवगायकस्वामिनः हंसस्य तन्नामकस्य दुहिता पुत्री महाश्वेता नाम, गन्धर्वाणाम् अधिवासं निवासस्थानं हेमकूटाचलं हेमकूटगिरिम् अभिप्रस्थिता तदभिमुखं चलिता ।

इह हंसस्य मुख्यप्रतिपादनकार्यं प्रति हेतुत्रयप्रदर्शनात् समुच्चयः ।

इतीति । इति एवं प्रकारेण मया कथिते अभिहिते सति, किमपि अनाकलनीयं चिन्तयन् ध्यायन् मुहूर्त्तमिव क्षणमिव तूष्णीं मौनं स्थित्वा स्वस्थाय विगतनिमेषेण निमेषोन्मेषरहितेन चक्षुषा लोचनेन चिरं बहुकालम् अभिवीक्षमाणः संमुखमवलोकनानः मां प्रति सानुनयं सस्नेहम् अर्थितां याचकत्वं दर्शयन् प्रकटयन्निव पुनर्भुय आह उवाच—'बालिके ! कल्याणिनी शुभलक्षणवती, अविसंवादिनी 'यत्रा-कृतिस्तत्र गुणा वसन्ति' इति न्यायाद् गुणवत्त्वे अव्यभिचारिणी निःसन्देहेन तर्कितसमस्तगुणयुक्त्यर्थः, बालभावेऽपि अप्रौढत्वेऽपि अचपला अचञ्चला, तव भवत्या इयं दृश्यमाना आकृतिः स्वरूपमवलोक्यत इति शेषः । तत्तस्मात् कारणात् । अभ्यर्थ्यमाना मया प्रार्थ्यमाना त्वम्, एकं वचनं वाक्यपालनं करोषि विधास्यसि किमिति काकुः । इह भविष्यदर्थे लट् ।

तत इति । ततस्तदनन्तरं सविनयं सप्रश्रयम् उपरचितं वद्धम् अञ्जलिपुटं यया तया, मया तरङ्गि-कया दर्शित आदरो यत्र कर्मणि तद् यथा स्यात्तथा अभिहितः उक्तः—'भगवन् तपोलिधे ! कस्मात् केन हेतुना एवं पूर्वोक्तप्रकारेण अभिधत्से ब्रवीषि अहं का तुच्छेत्यर्थः । सकलत्रिभुवनपूजनीयाः समस्तविश्वा-र्चनीया महात्मानो महाशयाः त्वादृशा भवद्विधाः, पुण्यैर्विना पूर्वार्जितसुकृतैर्विना अस्मद्विधेषु अस्मत्स-दृशेषु निखिलकल्मषापहारिणीं समस्तपापविनाशिनीं दृष्टिं न पातयन्ति चक्षुषा नावलोकयन्ति, किं पुनः आज्ञाम् आदेशप्रदानम्; दूरापास्तमित्यभिप्रायः । तत्तस्मात्, विश्रब्धं विश्वस्तं यथा स्यात्तथा कर्त्तव्यं मया विधातव्यम् आदिश्यताम् आज्ञाप्यताम्, अयं महल्लक्षणो जनः अनुगृह्यताम् अनुग्रहविषयीक्रियतां तेनादेशेनेत्याशयः ।'

एवमिति । किञ्चेति चार्थः। मया एवमुक्तः पूर्वोक्तप्रकारेणाभिहितः स तपस्विकुमारः 'पत्रिका म्


गन्धर्वाधिपति महाराज हंसकी यह कन्या है, भगवान् चन्द्रके किरणसे उत्पन्न हुई गौरी नाम की अप्सराके गर्भसे उत्पन्न हुई है; इसका नाम 'महाश्वेता' है और यह गन्धर्वोंके वासस्थान हेमकूट नामक पर्वत पर गई है।' इस प्रकार मेरे द्वारा कहे जाने पर वह मुनिकुमार, किसी विषयका चिन्तन करता हुआ कुछ देर तक निःशब्द (चुप) रह कर, निर्निमेषनयन (एकाग्रदृष्टि) से बहुत देर तक मेरे प्रति अवलोकन कर, मुझसे मानो प्रार्थना करता हो इस प्रकार विनय-पूर्वक पुनः कहने लगा—बालिके ! तुम्हारी यह आकृति शुभलक्षण-सम्पन्न है, अतः निश्चय ही तुम गुणवती हो, एवं शैशवावस्था होने पर भी तेरेमें चञ्चलता प्रतीत नहीं होती है, अत एव मैं प्रार्थना करता हूँ कि क्या तुम मेरा एक वचन स्वीकार करोगी ? इसके बाद मैंने सविनय अञ्जलि-बाँध आदरपूर्वक कहा—'भगवन् ! आप इसप्रकार क्यों कहते हैं ? मैं कौन ! (बहुत ही तुच्छ हूँ !), समस्त त्रिभुवनोंके पूजनीय आपके समान—महात्माका, पुण्य-रहित मेरे समान लोगोंके प्रति, समस्त पाप-हरण करनेवाली दृष्टि भी नहीं पड़ती है, फिर आदेशके विषयमें तो कहना ही क्या है ! अत एव आप निःशङ्कितचित्ते मेरे प्रति कर्त्तव्यका आदेश देकर इस व्यक्तिको अनुगृहीत कीजिए ।' मेरे इस प्रकार कहने पर, उन्होंने स्नेहयुक्त दृष्टिपातसे मुझे मानो सखीके


१. हेमकूटमचलवरम् । २. सकलत्रिभुवनाभिपूज्यास्त्वादृशाः । ३. निपातयन्ति ।