भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 489, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 489
४५०कादम्बरी-[ कथायाम्-

सा छत्रग्राहिणी समागत्य अकथयत्—'भर्तृदारिके ! तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति चाक्षमालामुपयाचितुमागतोऽस्मि' इति ।

'अहन्तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनं 'गच्छ, प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् ।

अथ मुहूर्त्तादिव तं तस्य, रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम् , मकरकेतनस्येव वसन्तसमयम् , वसन्तसमयस्येव दक्षिणानिलम् , अनुरूपं सखायं मुनिकुमारकं कपिञ्जलनामानं जराधवलितस्यं कञ्चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपमागच्छन्तम् अपश्यम् । अन्तिकमुपागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिव अर्थिनमिव अन्तर्ग-


हृदययोरन्योन्यं प्रति निशायां विद्यमानत्वादित्यभिप्रायः । इह 'संक्रामितानीव' इत्यत्र क्रियोत्प्रेक्षा ।

तेति । सा छत्रग्राहिणी आतपत्रधारिणी समागत्य समेत्य अकथयद् अब्रवीत्—'भर्तृदारिके राजकन्यके ! तयोः पूर्वमवलोकितयोः मुनिकुमारयोः तपस्विबालकयोः अन्यतरः एकः कश्चित् द्वारि तिष्ठति स्थितो वर्तते, कथयति वक्ति च अक्षमालां स्फटिकमयजपमालाम् उपयाचितुं प्रार्थितुम् आगत आयातोऽस्मि महाश्वेतया निजमुक्तामालां समर्प्य तदीयाक्षमालामादायागतत्वादित्याशयः ।

अहमिति । मुनिकुमारनामग्रहणादेव तपस्विकुमाराभिधेयोपादानादेव स्थानस्थिताऽपि स्वस्थानस्थाऽपि द्वारदेशं गतेव द्वारभूमिं प्राप्तेव, औत्सुक्याधिक्यादित्याशयः । समुपजाता समुत्पन्ना तस्य प्रेयसः पुण्डरीकस्य आगमनाशङ्का उपस्थितिसम्भावना यस्याः सा अहं महाश्वेता, अन्यतमं कञ्चकिनं सौविद्दल्लं समाहूय आह्वानं विधाय 'गच्छ व्रज प्रवेश्यताम् अभ्यन्तरे प्रवेशो विधीयताम्' इति एवम् आदिश्य आज्ञाप्य प्राहिणवं प्रेषितवती । इह 'द्वारदेशं गतेव' इत्यत्र क्रियोत्प्रेक्षा ।

अथेति । अथ तत्प्रेषणानन्तरं मुहूर्त्तादिव क्षणादिव, रूपस्य सौन्दर्यस्य अनुरूपं सखि यौवनं तारुण्यमिव, यौवनस्य अनुरूपं सखायं मकरकेतनं काममिव, मकरकेतनस्य अनुरूपं सखायं वसन्तसमयं सुरभिकालमिव, वसन्तसमयस्य अनुरूपं सखायं दक्षिणानिलं मलयपवनमिव, तस्य पुण्डरीकस्य अनुरूपं निजतुल्यं सखायम् , चन्द्रातपस्य प्रातःकालीनशीतांशुप्रकाशस्य अनुमार्गेण पश्चात् पथा आगच्छन्तम् आयान्तं बालातपं नूतनसूर्यालोकमिव, जराधवलितस्य वृद्धावस्थया शुभ्रीकृतशरीरस्य कञ्चुकिनः सौविदल्लस्य अनुमार्गेण आगच्छन्तम् , कपिञ्जलनामानं कपिञ्जलसंज्ञकं तं मुनिकुमारकं तापसबालकम् अपश्यम् अवलोकयम् ।

इह 'रूपस्य यौवनमिव' इत्यारभ्य 'वसन्तसमयस्य दक्षिणानिलमिव' इत्यन्तं रशनोपमालङ्कारः, 'बालातपमिव' इत्यत्र श्रौत्युपमालङ्कारः; अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः । 'मुनिकुमारकम्' इत्यत्रानुकम्पायां कः ।

अन्तिकमिति । किञ्चेति चार्थः । अन्तिकं समीपम् उपागतस्य प्राप्तस्य अस्य कपिञ्जलस्य, पर्याकुलमिव नितान्तव्यग्रमिव सविषादमिव सखेदामिव शून्यमिव निखिलोधोगवर्जितमिव अर्थिनमिव याचकमिव, अन्तर्गतम् अभ्यन्तरे स्थितम् आकूतम् अभिप्रायविशेषो यस्य तम् , अर्थात् तस्याकार पूर्वविद्योऽ-


छत्रधारिणी परिचारिका आकर मुझसे कहने लगी - 'राजकन्ये ! उन मुनिकुमारोंमें से एक आकर द्वारपर खड़ा है और कहता है कि 'मैं जपमाला लेने आया हूँ।'

मुनिकुमारका नामोच्चारण करनेसे ही मुझे उस स्थान पर बैठी रहने पर भी मानो द्वारदेशके निकट गई ऐसा प्रतीत हुआ और उसके ही आनेकी धारणाते, एक कञ्चुकीको बुलाकर—'तुम जाओ, उस मुनिकुमारको अन्दर प्रवेश कराओ' ऐसा आदेश देकर उसे भेज दिया ।

उसके बाद थोड़ी देरके बीचमें ही सौन्दर्यका जिस प्रकार यौवन, यौवनका जिस प्रकार कन्दर्प, कन्दर्पका जिस प्रकार वसन्त-काल एवं वसन्त-कालका, जिस प्रकार दक्षिण-वायु, उसी प्रकार उस प्रियतम मुनिकुमारका अनुरूप मित्र कपिञ्जल नामक द्वितीय मुनिकुमारको, प्रभातकालीन चन्द्रालोकके पीछे पीछे नवीन सूर्यालोकके समान वृद्धावस्थासे धवल हुए कञ्चुकीके पीछे पीछे आते देखा ! वे आकर समीपमें उपस्थित हुए, उस समय उसकी आकृति मानो अत्यन्त व्याकुलके समान, खिन्नके समान, शून्यके समान एवं याचकके समान लक्षित हुई एवं


१. आगत्य ।
२. ऋषि ॰ ॰ ॰ ।
३. जराधवलस्य ।
४. अनुयायिनम् ।
५. उपगतस्य ।