कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 490, कुल 709 में से
संदर्भ में पढ़ेंमदनपीडितपुण्डरीकदशा० ६६ ] चन्द्रकला-विद्योतिनीसहिता । ४५१
ताकृतम्^१ आकारमलक्षयम्। उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम्। उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणावुपमृज्य^२ चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपविशम्। अथ मुहूर्त्तमिव किमपि विवक्षुरिव स तस्यां मत्त्समीपोपविष्टायां तरलिकायां चक्षुरपातयत्। अहन्तु विदिताभिप्राया दृष्ट्यैव 'भगवन्! अव्यतिरिक्तेयमस्मच्छरीरात्, अशङ्कितमभिधीयताम्' इत्यवोचम्।
एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत्—'राजपुत्रि! किं ब्रवीमि, वागेव मे नाभिधेयविषयमवतरति त्रपया। क्व कन्दमूलफलाशी^४ शान्तो वनवासनिरतः मुनिजनः, क्व वायमशान्त^६-जनोचितो विषयोपभोगाभिलापकलुषो मन्मथविविधविलाससङ्कटो रागप्रायः प्रपञ्चः।
वलोक्यते स्म यथा कश्चिदभिप्रायोऽस्य प्रकाशनीयो वर्त्तते किन्तु न तं स वहिः प्रकटयतीति। आकारं स्वरूपम् अलक्षयम् आकलयम्।
उत्थायेति। अपि चेति चार्थः। उत्थाय, कृतो विहितः प्रणामो नमस्कारो यया तादृशी अहम्। सादरं सबहुमानं स्वयं निजेनैव आसनं विष्टरम् उपाहरम् उपवेशनायार्पितवती।
उपविष्टेति। उपविष्टस्य आसीनस्य, अनिच्छतो मद्द्वारा पादप्रक्षालनमार्जने अवाञ्छतोऽपि तस्य कपिञ्जलस्य चरणौ पादौ बलात् हठात् प्रक्षाल्य प्रक्षालनं विधाय उत्तरीयांशुकपल्लवेन स्वोत्तरीयवस्त्रप्रान्तेन^२ उपमृज्य प्रोञ्छ्य च अहम्, अन्तिके तस्यैव निकटे, अव्यवधानायां विष्टरकृतव्यवधानवर्जितायां केवलायामेवेत्यर्थः, भूमौ पृथिव्यां समुपविशम् अनिषम्।
अथेति। अथ अनन्तरं किमपि विवक्षुरिव वक्तुमिच्छुरिव सन् स कपिञ्जलः मुहूर्त्तमिव क्षणमिव स्थिखा मत्त्समीपोपविष्टायां मन्निकटासीनायां तस्यां तरलिकायां चक्षुर्नेत्रम् अपातयत् पातितवान् तस्या अपसारणाशयाशयः।
अहमिति। दृष्ट्यैव तरलिकां प्रति तस्य तथाविधनिरोक्षणभङ्ग्यैव विदितो ज्ञातः अभिप्रायः तरलिकाया अपसरणविषयक आशयो यया सा तथोक्ता सती 'भगवन् स्वामिन् ! अस्मच्छरीरात् मदीयदेहात् अव्यतिरिक्ता अभिन्ना इयम्, अशङ्कितं निःसन्दिग्धं यथा स्यात्तथा अभिधीयतां कथ्यताम्' इत्यवोचम् इत्यकथयम्।
एवमिति। मया महाश्वेतया एवं पूर्वोक्तप्रकारेण उक्तः अभिहितश्च कपिञ्जलः प्रत्यवादीत् प्रत्यवोचत्—'राजपुत्रि मत्तःदारिके! किं ब्रवीमि किं कथयामि, मे मम त्रपया लज्जया वागेव वचनमेव अभिधेयविषयं वाच्यविषयं नावतरति न प्रवर्त्तते।
क्वेति। कन्दं शालूकम्, मूलञ्च तद्भिन्नम्, फलञ्च अश्नाति भुङ्क्त इति सः, शान्तः शमगुणसंयुतः जितेन्द्रिय इति तात्पर्यम्। अनेन स्वेनैव दोषाद्विनिवृत्तिर्ध्वनिता। वनवासनिरतः अरण्यनिवाससक्तो मुनिजनः तपस्विननः क्व, 'वनवासनिरतः' इत्यनेन भोग्यविषयाणाम् अवलोकनकादिजनितमाकर्षणमपि न सम्भवतीति व्यञ्जितम्। अशान्तस्य अन्तरिन्द्रियानिग्रहशालिपुरुषस्य उचितो योग्यः, विषयाणां माल्यचन्दनयोषिदादिभोग्यवस्तूनाम उपभोगाभिलाषेण भूयो भूयस्तदासेवनस्पृहया कलुषो मलिनः,
उनके अन्तर्गतमें मानो कोई विशेष अभिप्राय हो इस प्रकार मुझे प्रतीति हुई, उठकर आदर-सहित प्रणाम कर मैं स्वयं उनके लिए आसन लाई। उस पर उन्हें बैठ जाने पर उनकी इच्छा नहीं रहने पर भी हठसे मैंने उनके चरणयुगल धोए, एवं अपने उत्तरीयवस्त्र प्रान्त (पल्ले) द्वारा पोंछकर, मैं उनके निकट बिना किसी आसनके बिछाए हुए भूमि पर ही बैठ गई। उसके बाद वे किसी विषयको बोलनेकी इच्छासे ही मानो, मेरे समीपमें बैठी हुई तरलिकाके प्रति कुछ देर दृष्टिपात किए। किन्तु उस दृष्टिपातसे ही उनका अभिप्राय समझ कर मैंने कहा—'भगवन्! मेरे शरीरसे यह व्यक्ति भिन्न नहीं है, इसलिए आप जो कुछ कहना चाहते हों उसे निःशङ्क चित्तसे कहिए।'
मेरे इसप्रकार कहने पर कपिञ्जलने प्रत्युत्तर दिया—'राजकन्ये! मैं क्या कहूँ? लज्जाके कारण मेरी वाणी ही वक्तव्य विषय कहनेमें प्रवृत्त नहीं होती। कहाँ कन्द-मूल-फल खानेवाले जितेन्द्रिय वनवासी मुनिजन, और कहाँ अजितेन्द्रिय लोगोंके योग्य, भोग्यपदार्थोंकी अभिलाषासे कलुषित, नानाविध कामचेष्टासे परिपूर्ण एवं राग-बहुल
१. अनुपरताभिप्रेतम्। २. उपमृज्य। ३. क्वचिद् मदिनी पदं न दृश्यते। ४. कन्दमूलाशी, मूलफलाशी। ५. ०००वननिरतः। ६. अनुप्रशान्त०००।