कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 502, कुल 709 में से
संदर्भ में पढ़ेंकपिञ्जल प्रति पुण्डरीकोत्तरम् ० ६८ ] चन्द्रकला-विद्योतिनोसहिता ४६३
'सखे ! किं बहुनोक्तेन¹, सर्वथा सुस्थोऽसि²। आशीविषविषवेगविषमाणा मेतेषां कुसुम- चापसायकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य। यस्य चेन्द्रियाणि सन्ति मनो वा³ वर्त्तते, यः पश्यति वा शृणोति वा श्रुतमवधारयति वा. यो वा शुभमिदं न शुभमि- दमिति विवेक्तुमलम्, स खल्वूपदेशमर्हति। मम तु सर्वमेवेदमतिदूरापेतम्। अवष्टम्भो ज्ञानं धैर्य्यं प्रतिसंख्यानमित्यस्तमितैषा कथा, कथमप्येवमेयतनविधृतास्तिष्ठन्त्यसवः, दूरातीत: खल्बुपदेशकालः, समतिक्रान्तो धैर्य्यावसरः, गता प्रतिसंख्यानवेला, अतीतो ज्ञानावष्टम्भ-
सख इति। सखे मित्र ! किं बहुनोक्तेन किं बहुभाषितेन, सर्वथा सर्वप्रकारेण सुस्थोऽसि उत्पात-शून्योऽसि, अत एव धन्यस्त्वमित्यभिप्रायः। तथा येन हि आश्यां तालुगतदंष्ट्रायां विषं गरलमस्येति आशीविषो विजातीयो सर्पगो मुजङ्गः 'आशीस्तालुगता दंष्ट्रा तया विद्धो न जीवति' इति रामाश्रिटीका। तस्य विषवेगवत् गरल्रवयवत् विषमाणां दुःसहानां कुसुमचापस्य पुष्पधनुषः कामस्येत्यर्थः। सायकानां बाणानां गोचरे विषये न पतितोऽसि, तेन खद्य परस्य पुरुषस्य सम्बन्धे सुखम् अनायासं यथा स्यात्तथा उपदिश्यते उपदेशं दातुं शक्यते, अन्यथा ममेव दशा भवेदित्यभिप्रायः।
इह वृत्त्यनुप्रासः, वाक्यार्थहेतुकं काव्यलिङ्गश्चैयुभयोः परस्परं नैरपेक्ष्येण संसृष्टिः।
इह हि चतुष्प्रकारा दशाः सम्भवन्ति जनानाम्। तत्र केचित् समर्थसकलेन्द्रियशालिनः, केचित् जगद्भाववैपरीत्येन रोगादिना वा किञ्चिद्विकलेन्द्रियः, केचित् संशयाकुलाः, केचिच्च जगद्भावातिवैपरीत्याद् रोगादेर्वा नितान्ताकर्मण्येन्द्रियः। तत्रादितस्त्रिषु उपदेशौचित्यम्, चरमे तु सर्वथैवोपदेशानर्हत्वमिति विभागं प्रदर्श्य निरूपयितुमाह—यस्येति। इन्द्रियाणि चक्षुरादिनिजनिजपदार्थग्रहणयोग्यानि करणानि, मनो वा सर्वथोत्पातरहितमित्याशयः। अनेकयोगसमस्तेन्द्रियशालित्वमंपमभिहितम्। यो वा जनः पश्यति, उद्वेगेन पित्तदोषादियुक्तेन वा नयने किञ्चिद्विकले जातेऽपि येन केनापि प्रकारेणावलोकयितुं समर्थो भवति, शृणोति वा उद्वेगेन मलादिना वा श्रवणे किञ्चिद्विकले जातेऽपि केनापि प्रकारेण श्रोतुं समर्थो भवति, श्रुतमवधारयति वा उद्वेगेन अन्यचेष्टया वा चित्ते किञ्चिद्विकले जातेऽपि श्रुतं विषयम् अवधारयितुं समर्थो भवति। अनेन किञ्चित् विकलेन्द्रियशालित्वमभिहितम्। यो वा जनः, इदं कृत्यं शुभं मङ्गलम् अथवा न शुभम् इति' इति विवेक्तुं विवेचनं विधातुम् अलं समर्थः, संशयानन्तरं कस्यचिदुपदेशे ज्ञाते इत्याशयः। अनेन संशयाकुलत्वमभिहितम्। स खलु प्रदर्शितरूपस्त्रिप्रकारक एव जन उपदेशयोग्यो वर्त्तते तत्फलस्य तत्रैव सम्भवादित्याशयः। तु किन्तु मम पुण्डरीकस्य इदम् इन्द्रियोपलम्भादिकं विवेचनपर्यन्तं सर्वमेव, अतिदूरपतितम्। अतिदूरं गतम्, मदनावेज्ञासितान्ताकर्मण्येन्द्रियतया तद्विद्यमानादिफलासत्त्वादित्याशयः। अनेन स्वस्य तुरीयरूपार्थं प्रतिपादितम्।
तत्प्रयोजनं दर्शयति—अदेति। अवष्टम्भः सदाचरणावलम्बनम्, ज्ञानं प्रबोधः, धैर्यं बाह्येन्द्रियनिरोधः, प्रतिसंख्यानं मातृवत्परधुविवेचनम्, इत्येषा कथा वात्तां अस्तमिता अस्तमुपगता। एवम् अयत्नविधृता रक्षणप्रवृत्त्यभावेऽपि स्वयमवस्थिताः, असवः प्राणाः कथमपि तिष्ठन्ति मम शरीरे वर्त्तन्ते। अनेन सम्प्रति प्राणप्रयानेऽपि न हानिरिति ध्वनितम्। धैर्यस्य अवसरः अवलम्बनसमयः समतिक्रान्तो व्यतीतः। प्रतिसंख्यानवेला साध्वनाधुविवेचनकालः गता दूरीभूता। ज्ञानस्य प्रबोधस्य अवष्टम्भसमयः
दण्ड कर वह मुझसे कहने लगा—'मित्र ! बहुत कहने से क्या लाभ ? तुम सब तरहसे स्वस्थ हो, क्योंकि-भयंकर सर्पके विषवेगके समान असह्य कामदेवके विषम बाणके लक्ष्य नहीं हुए हो, इसलिए ही अनायाससे दूसरोंको उपदेश देनेमें समर्थ हो। जिसकी इन्द्रियाँ जागृत हैं, चित्त ठिकाने हो, जो अवलोकन कर सकता हो, श्रवण कर सकता हो अथवा सुनकर विचार कर सकता हो, किंवा जो 'यह विषय अच्छा है, यह विषय बुरा है' इस प्रकार उपदेश पाकर विवेचना करनेमें समर्थ हो, वह व्यक्ति ही उपदेश देनेके योग्य है, परन्तु मेरे समीप से तो ये सबके सबही अधिक दूर चले गए हैं। अब एव सदश्य अवलम्बन करना, ज्ञान, धैर्य और सदसद्विवेक करना—ये सब अस्त हो गए, प्राण नहीं रखनेका प्रयत्न करता हूँ, किन्तु न जाने वे कैसे इस रूपमें ही अवस्थित हैं; उपदेशका समय तो अब बहुत दूर चला गया, धैर्य अवलम्बन करनेका समय भी अब बीत गया; सदसद्विवेचनाका
१. बहुतेन।
२. स्वस्थोऽसि।
३. क्वचित् 'मनो वा' इति नागराक्षरे विष्ट इति ?