भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 503, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 503

४६४ कादम्बरी- [ कथायाम्-

समयः। केन वाऽन्येनास्मिन् समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम्, कस्यापरस्य वचसि मया स्थातव्यम्, को वाऽपरस्त्वत्समो मे जगति बन्धुः। किं करोमि यन्न शक्नोमि निवारयितुमात्मानम्, इयन्मानेनैव क्षणेन भवता दृष्टा दुष्टावस्था, तद्गत इदानीमुपदेशकालः। यावन् प्राणिमि तावदस्य कल्पान्तोदित-द्वादश दिनकर-किरणा-तप-तीव्रस्य मदनसन्तापस्य प्रतिक्रियां क्रियमाणामिच्छामि। पच्यन्त इव मेऽङ्गानि, उत्कथ्यत इव हृदयम्, प्लुष्यत इव दृष्टिः, ज्वलतीव शरीरम्। अत्र यत् प्राप्तकालं तत् करोतु भवान्' इत्यभिधाय तूष्णीमभवत्।

एवमुक्तोऽपि अहमेनं प्राबोधयं पुनः पुनः। तदा शास्त्रोपदेशविशदैः सनिदर्शनैः

अवलम्बनवेला प्रतीताः अतिक्रान्तः।

केनेति। अस्मिन् समये इदानीं भवन्तं त्वाम् अपहाय परित्यज्य केन लोकहितैषिणा उपदेष्टव्यम् शिक्षयितव्यम् न केनाऽपीत्यर्थः। उन्मार्गप्रवृत्तिनिवारणीयम् असत्यप्रतिषेधो वा (केन) करणीयं विधेयम्। अन्यस्य त्वद्व्यतिरिक्तस्य कस्य वचसि स्थातव्यं कस्य वक्यानुसारेण प्रवर्तितव्यम्। तत्र कारणमाह-क इति अपरोऽन्यः कः त्वत्समो भवत्सदृशो मे मम जगति संसारे बन्धुर्त्राता।

किमिति। किं करोमि किं कुर्वे, यत् यस्मात्कारणात्, आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्निरोद्धुं न शक्नोमि समर्थो न भवामि। अनेनैव क्षणेन समयेन भवता त्वया इयं दुष्टावस्था क्लेशदायिनी दशा दृष्टा अवलोकिता। अधुना कामावेशवशादचेतनवन्निष्पन्दरूपेण यदहमासं तत्सर्वं भवता दृष्टैवेत्यर्थः। तत्तस्मात् कारणात् इदानीं सम्प्रति गतो व्यतीतः उपदेशकालः शिक्षाप्रदानसमयः।

यावदिति। यावत् यावत्कालपर्यन्तम् अहं प्राणिमि जीवामि तावत् तावत्कालपर्यन्तम्, कल्पान्ते प्रलयसमये उदिता उदयं प्राप्ता ये द्वादशदिनकरा द्वादशसंख्याकाः सूर्याः तेषां किरणातपवत् रश्मि-सन्तापवत् तीव्रस्य, कठोरस्य, अस्य विद्यमानस्य मदनसन्तापस्य कामज्वरस्य प्रतिक्रियां उपशमं क्रियमाणां भवतैव विधीयमानाम् इच्छामि अभिलषामि, विवेकादिप्रतिक्रियाया असत्त्वे तया सह सङ्गम-रूपाप्राकृतप्रकृतिकैवैव भवता विधेया अन्यथा न प्र.जिमीत्यभिप्रायः।

इह ......'किरणातपतीव्रस्ये'त्यत्र लुप्तोपमा।

तीव्रतातपसम्पर्के पदार्थानां पाकाथदाहज्वलनसंज्ञाश्चतस्रो दशाः सम्भवन्ति, कन्दर्पतातपसन्ता-पेन यथाक्रमं स्वस्य ताः सर्वा निस्तरयितुमाह-पच्यन्त इत्यादि। मे मम अङ्गानि करचरणादीनि पच्यन्त इव पाकविषयीक्रियन्त इव मदनसन्तापेनेति शेषः। एवमग्रेऽपि सर्वत्र। हृदयं मनः उत्कथ्यत इव काथं प्राप्यत इव, दृष्टिलोचनं प्लुष्यत इव दह्यत इव, शरीरं देहं ज्वलतीव भस्मीभवन्तीव।

अत्रेति। प्राप्तः उपस्थितः कालः समयो यस्य तत् प्राप्तकालम् एतत्समयोचितं यत् तया सह सङ्ग्मरूपमित्यर्थः, भवान् तत्करोतु तद्विदधातु इति पूर्वोक्तम् अभिधाय उक्त्वा तूष्णीं मौनम् अभवत्।

एवमिति। एवम् अनेन विधिना उक्तोऽपि कथितोऽपि अहम् एनं पुण्डरीकं प्राबोधय ज्ञानमकार-यम्। पुनः पुनर्भूयो भूयः शास्त्रोपदेशेन धर्मप्रतिपादकग्रन्थशिक्षया विशदैः स्वच्छैः, सनिदर्शनैः दृष्टान्त-


काल भी अब जाता रहा एवं ज्ञानसे चित्तको धारण करनेका समय भी हो चुका। इस समय तुम्हारे अतिरिक्त न कोई मुझे उपदेश दे सकता है, न असत्पथमें जानेसे कोई निवारण कर सकता है, न ही अन्य जिसके वचनके अधीन रह सकता हूँ? इस संसारमें तुम्हारे समान मेरा अन्य बन्धु कौन हो सकता है? क्या करूँ? चित्तसे भी मनको निवारण करने (रोकने) में समर्थ नहीं हो रहा हूँ। मेरी कैसी दुरवस्था हो गई है इसे इस समय तुम देखते ही हो; इसलिए उपदेश देनेका समय तो अब जाता रहा। मैं केवल यही चाहता हूँ कि जितनी देर तक मैं जीवित हूँ उतनी देर तक—प्रलयकालमें उदय होने द्वादश सूर्योंकी किरणोंके तापके समान अत्यन्त तीव्र इस मदन-सन्तापको दूर करनेके लिए तुम कुछ उद्योग करो। मेरे अंग मानो रंधे (पके) जाते हैं, हृदय मानो उबला जाता है; नेत्रोंमें मानो दाह हो रहा है; शरीर मानो जला जाता है; इसलिए इस समय जो कुछ उचित हो तुम वही करो' इतना कहकर वह चुप हो गया।

इसके इस प्रकार कहने पर भी मैं उसको बराबर समझाने लगा, परन्तु अब शास्त्रीय उपदेशसे निर्मल,


१. दृष्टावस्था, रुदत्या दृष्टा।
२. उत्क्लेदि।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 503, कुल 709 में से · BharatKosha