कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 504, कुल 709 में से
संदर्भ में पढ़ेंपुण्डरीकाधिज्वरशमनव्यापार० ६९] चन्द्रकला-विद्योतिनीसहिता । ४६५
सेतिहासैश्च वचोभिः सानुनयं सोपग्रहञ्चाभिधीयमानोऽपि नाकरोत् कर्णे, तदाहमचिन्तयम्—‘अतिभूमिमयं गतो न शक्यते निवर्त्तयितुमिति' इदानीं निरर्थकाः खलूपदेशाः, तत्प्राण-परिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतमतिरुत्थाय गत्वा तस्मात् सरसः सरसा मृणालिकाः समुद्धृत्य, कमलिनीपलाशानि जल-लव-लाञ्छितान्यादाय, गर्भ धूलि-कषाय-परिमल-मनोहराणि च कुमुद-कुवलय-कमलानि गृहीत्वागत्य तस्मिन्नेव लतागृह-शिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नवर्त्तिनां चन्दनविटपिनां मृदूनि किसलयानि निष्पीड्य तेन स्वभावसुरभिणा तुषारशिशिरेण रसेन ललाटिकामकल्पयम् , आचरणादङ्गचर्च्चाञ्चारचयम् । अभ्यर्ण-पादप-स्फुटित वल्कल-विवर-शीर्णेन च करसञ्चूर्णितेन कर्पूररेणुना
सहितैः, सेतिहासैः पुरावृत्तसहितैः वचोभिर्वाक्यैः, सानुनयं सप्रणयं सोपग्रहं सानुकूल्यञ्च यथा स्यात्तथा ‘उपग्रहः पुमान् वन्द्यामुपयोगेऽनुकूलने’ इति मेदिनी । अभिधीयमानः कथ्यमानोऽपि कर्णे श्रवणे नाकरोत् अनाकर्णितमिव मदुक्तमकार्षीदित्यर्थः । तथा तस्मिन् समये अहम् अचिन्तयम् अप्यायम्—‘अतिभूमिं मदनस्य चरमां दशां गतः प्राप्तः, अत एव केवलम् उपदेशेन निवर्त्तयितुं ततो व्यावर्तयितुं न शक्यते न पार्यते, इति हेतोः, इदानीं सम्प्रति खलु निश्चयेन उपदेशाः शिक्षावचनानि निरर्थकाः निष्फलाः । तावत् प्रथमम् अस्य पुण्डरीकस्य प्राणपरिरक्षणेऽपि जीवितपरित्राणेऽपि यत्नम् उपायम् आचरामि विदधे इति एवं कृतमतिः कृतबुद्धिरहम् उत्थाय गत्वा प्रव्रजित्वा च अच्छोदाभिधं सर इति शेषः । तस्मात्सरसः अच्छोदसरोवरात् सरसा अभिनवत्वाद्याम्यन्तरिकद्रवसंयुताः मृणालिकाः कमलिनीः समुद्धृत्य उत्पाट्य, ताम्भो जलस्य सलिलस्य लवैः कणैः लाञ्छितानि चिह्नितानि व्याप्तानि, अतएवाधिकशीतलानीत्याशयः, कमलिनीपलाशानि नलिनीपत्राणि आदाय गृहीत्वा । गर्भे अभ्यन्तरे या धूलयः परागाः तासां कषायपरिमलैः सुरभिगन्धैः मनोहराणि सुन्दराणि, कुमुदानि श्वेतकमलानि कुवलयानि नीलकमलानि कमलानि पङ्कजानि च तानि गृहीत्वा आदाय आगत्य समेत्य तस्मिन्नेव लतागृह-शिलातले लताभवनप्रस्तरस्थले अस्य पुण्डरीकस्य शयनं तल्पम् अकल्पयम् अकरवम् ।
तत्रेति । किञ्च, आसन्नवर्त्तिनां निकटस्थायिनां चन्दनविटपिनां मलयजवृक्षाणां मृदूनि सुकुमाराणि किसलयानि पल्लवानि निष्पीड्य संमर्द्य, तेन अनिर्वचनीयेन स्वभावेनैव स्वारसिकेनेव सुरभिणा सौरभवता, तुषारो हिमं तद्वत् शिशिरेण शीतलेन रसेन निर्यासेन करणेन, तत्र प्रागुपकल्पितशयने सुखनिषण्णस्य सुस्थभावेनोपविष्टस्य पुण्डरीकस्य ललाटिकां तिलकविशेषम् अकल्पयम् अकरवम् , आचरणात् पादादारभ्य अङ्गचर्चां शरीरलेपनञ्च अरचयम् अकरवम् , शैत्यायेत्याशयः ।
इह तुषारशिशिरपदयोस्तुल्यतया श्रवणमात्रेण पौनरुक्त्यप्रतीतिः, अनन्तरञ्च तुषारवत् शिशिर इत्यर्थकरणात् पुनरुक्तवदाभासोऽलङ्कारः ।
अभ्यर्णेति । अभ्यर्णस्य समीपावस्थायिनः पादपस्य कर्पूरत्तरोः स्फुटितानि स्वयं भिन्नानि यानि वल्कलानि तरुत्वचः तेषां विवरेभ्यः छिद्रेभ्यः शीर्णेन निर्गतेन कराभ्यां हस्ताभ्यां सञ्चूर्णितेन निष्पिष्टेन कर्पूर-
दृष्टान्त-समन्वित और इतिहास-संयुक्त वाक्यों द्वारा अनुनय और आग्रहके साथ समझाने पर भी उसने कानमें रँगने तक (ध्यान) नहीं दिया, तब मैंने विचार किया कि—‘यह काम की अन्तिम दशा पर उपस्थित हो गया है इसलिए उपदेशसे इसकी निवृत्ति नहीं हो सकती है, अब सब उपदेश निरर्थक हैं । अत एव मै इसकी प्राण-रक्षाका प्रयत्न करता हूँ ।' इस प्रकार निश्चय करके मैंने उठकर प्रस्थान किया और उन सरोवरमेंसे सरस (हरी) मृणाल तोड़कर जल-विन्दु-सहित कमलके पत्ते, एवं अभ्यन्तरस्थ-रेणुके तृप्तिकर सौरभसे मनोहर लगते कितने कुमुद, नीलोत्पल और कमल लाकर मैंने लतामण्डपस्थित-प्रस्तरखण्ड (शिलातल) पर उसके लिए शय्या निर्माण कर (बिछौना बिछा) दिया । उसके ऊपर जब वह आनन्दसे बैठा तब समीपवर्ती चन्दन-वृक्षोंके कोमल पल्लव निष्पीडित (पीस) कर, मैंने उनका स्वभावसे ही सुगन्धित और हिमके समान शीतल रस उसके ललाट पर तिलक विशेष कर दिया (चुपटा) और चरणोंके तलुओं तक सर्वाङ्ग शरीरमें लेप किया । एवं निकट-वर्ती वृक्षोंमेंसे फलित छालके छिद्रों (दरारों) मसे निर्गत (रिसते) कपूरको हाथसे चूर्णी करके उससे प्रस्वेद-
१. क्वचित् 'इति' पदं न विद्यते । २. क्वचिच्च 'जल-लव' इत्यादि पदं न दृश्यते । ३. चादाय । ४. चन्दनविटपादीनां । ५. करसम्पुटचूर्णितेन ।