भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 505, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 505
४६६कादम्बरी-[ कथायाम्-

स्वेदप्रतीकारम्¹ अकरवम्। उरेऽनिहितचन्दनद्रवार्द्रवल्कलस्य स्वच्छसलिलशीकरस्राविणो कदलीदलेन व्यजनक्रियामन्वतिष्ठम्। एवञ्च मुहुर्मुहुरन्यदन्यन्नलिनी²-दलशयनमुपकल्पयतः, मुहुर्मुहुश्चन्दनचर्चामारचयतः मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कदलीदलेन चानवरतं⁵ वीजयतः समुदभून्मे मनसि चिन्ता-'नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः। क्वायं हरिण इव वनवासनिरतः स्वभावमुग्धो⁶ जनः, क्व च विविध-विलास-रस-राशिर्गन्धर्वराजपुत्री महाश्वेता। सर्वथा नहि किञ्चिदस्य दुघटं दुष्करमनायत्तमकत्तंव्यं वा जगति। दुरुपपादेष्वप्यर्थेष्वयं अवज्ञया विचरति। न चायं⁸ केनापि⁹ प्रतिकूलयितुं शक्यते। का वा गणना सचेतनेषु, अपगतचेतनान्यपि सङ्घटयितुमलं¹⁰, यद्यस्मै रोचते, कुमुदिन्यपि¹¹ दिनकरकरानुरागिणी भवति,

रेणुना कर्पूरधूलिना स्वेदप्रतीकारं घर्मशोषणञ्च अकरवम् अरचयम्।

उर इति। उरसि वक्षःस्थले निहितेन दत्तेन चन्दनद्रवेण मलयजरसेन आर्द्रं क्लिन्नम् उत्तरीयवल्कलं यस्य तस्य तथोक्तस्य पुण्डरीकस्य करचरणादिभिरित्यर्थः, स्वच्छानिर्मलाः सलिलशीकराः जलविन्दवः तत्स्राविणा वर्षकेण कदलीदलेन रम्भापत्रेण व्यजनक्रियां वायुसञ्चालनम् अन्वतिष्ठम् अकरवम्।

एवमिति। किञ्चेति चार्थः। एवम् अनेन विधिना मुहुर्मुहुः वारंवारम् अन्यदन्यत्, गात्रसन्तापेन पूर्वपूर्वस्य म्लानत्वादियाशयः। नलिनीदलशयनं कमलिनीपत्रशय्याम् उपकल्पयतो विदधतः। चन्दनचर्चां मलयजमण्डनम् आरचयतः कुर्वतः गात्रसन्तापेन पूर्वपूर्वस्याः शुष्कत्वादियाशयः। स्वेदप्रतिक्रियां घर्मजलप्रतीकारं तच्छोषणमिति तात्पर्यम्। कुर्वतो विदधतः। कदलीदलेन रम्भापत्रेण च अनवरतं निरन्तरं वीजयतः पवनं सञ्चालयतः मे मम मनसि चिन्ता समुदभूत् प्रादुरभूत्-

नास्तीति। भगवतो मनोभुवः कामदेवस्य असाध्यम् अनिष्पाद्यं नास्ति न विद्यते। हरिणो मृग इव वनवासनिरतः अरण्यवास्थानतत्परः, अयं जनः पुण्डरीकः, स्वभावेन प्रकृत्यैव मुग्धः सरलहृदयः। विविधा नानाप्रकारा ये विलासरसा विभ्रमभावाः तेषां राशिः समूहो यत्र सा तथोक्ता महाश्वेता च क्व। नितान्तविरुद्धस्वभावयोरनयोरन्योन्यभावावेशोत्पादनान्मनोभुवः किमपि दुष्करं नास्तीत्याशयः।

इह विषमयोः सङ्घटनया विषमालङ्कारः श्रौतोपमा चेत्युभयोः सङ्करः।

सर्वथेति। अस्य मनोभुवः, जगति संसारे, सर्वथा सर्वप्रकारेण दुर्घटं दुःसाध्यं दुष्करं कठिनम् अनायत्तम् अनधीनम् अकर्त्तव्यम् अकरणीयं वा किञ्चित् नास्ति स्वरूपं न विद्यते। अस्य सर्वं सुसाध्यमित्यर्थः। अयं मनोभूः दुरुपपादेष्वपि अन्यैर्दुष्करेप्वपि अर्थेषु विषयेषु अवज्ञाया नितान्तानादासविधेयत्वज्ञानादवहेलया विचरति प्रवृत्तो भवति। केनापि बुद्धिमता पुरुषेण अयं मनोभूः प्रतिकूलयितुं प्रतिरोधुं न च शक्यते पार्यते।

का वेति। सचेतनेषु मानवादिषु का गणना? अपगतचेतनान्यपि जडादीन्यपि सङ्घटयितुं संयोजयितुम् अलं समर्थः 'अयं मनोभूरि'ति शेषः। यदि चेत् अस्मै मनोभुवे रोचते संयोजयितुमभिलाषा भवति, तदा कुमुदिन्यपि कैरविण्यपि दिनकरकरानुरागिणी सूर्य्यरश्म्यनुरक्ता भवतीत्यादि सङ्गमनीयम्।


जल (पसीना) दूर किया। वक्षःस्थल (छाती) पर चन्दन-रसमें आर्द्र किया हुआ वल्कल रखकर निर्मल जल-विन्दु टपकाते हुए कदली-पत्रद्वारा उसका पखा किया। यों बारंबार कमलपत्रोंकी शय्याको एकके पीछे दूसरा बदलते-बदलते, बारबार चन्दन लेप करते करते, बारबार पसीना पोंछते पोंछते और कदली-दल द्वारा अनवरत पवन करते करते, मेरे मनमें यह चिन्ता उत्पन्न हुई कि—'इस संसारमें वास्तवमें भगवान् कामदेवके असाध्य कुछ नहीं है। कहाँ हरिणके समान वनवासमें निरत एवं स्वभावसे ही सरल-चित्त पुण्डरीक और कहाँ नानाविध विलास और हावभावसम्पन्ना गन्धर्वराजपुत्री महाश्वेता !! इस (संसार) में कामदेवके सर्वथा दुर्घट, दुष्कर अस्वाधीन या अकर्त्तव्य कुछ भी नहीं है! दुष्कर कार्योंको भी वह (कामदेव) अवहेलनापूर्वक करता है और किसी व्यक्तिमें उसके प्रतिरोध करने का सामर्थ्य नहीं है। सचेतन पदार्थोंका तो क्या अचेतन पदार्थोंको भी वह परस्पर संयोजन करनेमें समर्थ है। यदि इसका अभिप्राय हो तो कुमुदिनी भी रवि किरणोंमें अनुरागिणी


१. स्वेदप्रतिक्रियान्।
२. क्वचित् 'स्वच्छसलिलशीकरनिकरस्त्राविण' इति पाठो दृश्यते।
३. नलिनदल।
४. क्वचिद् द्विरुक्तिर्नास्ति।
५. कदलोदलेनानवरतम्।
६. स्वभावविषयविमुखः।
७. दुरुपपादेष्वर्थेषु।
८. नायन्।
९. केनचित्।
१०. सङ्घट्टयितुमलम्।
११. तत्कुमुदिन्यपि, यत्तत्कुमुदिन्यपि।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 505, कुल 709 में से · BharatKosha