भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 506, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 506

पुण्डरीकस्यज्वरसन्तापेत्यादि० ६९ ] चन्द्रकला-विद्योतिनीसहिता । ५६७

कमलिन्यपि शशिकरद्वेषमुज्झति, निशापि वासरेण सह मित्रतामेति, ज्योत्स्नाऽप्यन्धकारमनुवर्त्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, तडिदपि जलदे स्थिरतां व्रजति, जरापि यौवनेन सञ्चारिणी भवति । किंवा तस्य दुःसाध्यमपरम्, एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवलघुताम्१ उपनीतः । क्व तपः क्वेयमवस्था। सर्वथा निष्प्रतीकारेयमापदुपस्थिता। किमिदानीं कर्त्तव्यम्, किंवा चेष्टितव्यम्,२कां दिशं३गन्तव्यम्, किं शरणम्, को ४वा उपायः, कः सहायः, कः प्रकारः, का युक्तिः, कः समाश्रयः, येनास्यासवः सन्धार्यन्ते५। केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य सङ्कल्पाः प्रादुरासन् । पुनश्चाचिन्तयम्-'किमनया अत्यन्तायतया निष्प्रयोजनया चिन्तया। प्राणास्तावदस्य येन केनाप्युपायेन शुभे-

कमलिन्यपि नलिनीति शशिकरद्वेषं चन्द्रद्वेषम् उज्झति त्यजति, निशापि रात्रिरपि वासरेण दिवसेन सह मित्रताम् एकताम् एति प्राप्नोति, ज्योत्स्नापि चन्द्रिकापि अन्धकारं तमः अनुवर्त्तते तद्रूपतां भजतीत्यर्थः। छायापि सूर्यदिनापि प्रदीपाभिमुखं दीपमाभिमुख्यम् अवतिष्ठते, तडिदपि विद्युदपि जलदे मेघे स्थिरतां स्थैर्यं व्रजति गच्छति, जरापि वार्द्धक्यमपि यौवनेन तारुण्येन सह सञ्चरणशीला भवतीत्यर्थः। एवञ्च एतान्यस्मै न रोचन्ते अत एव कुमुदिनीप्रभृतयः सूर्यकिरणानुरक्तादिरूपा न भवन्तीत्याशयः।

किमिति। येन मनोभुवा, एवंविधः पूर्वरूपः अगाधगाम्भीर्यसागरः अयं पुण्डरीकः तृणवत् लघुतां निःसारताम् उपनीतः प्रापितः, तस्य मनोभुवः अपरम् अस्मादन्यत् किंवा दुःसाध्यं दुष्करमस्तीति सम्बन्धः, नापि तु किमपि नास्तीत्यर्थः। इहार्यापत्तिः।

क्वेति। इयम् अवलोक्यमाना अवस्था नितान्तव्यग्रा दशा क्व तत् अनिर्वचनीयस्वरूपं तपः क्व, द्वौ द्वौ महदन्तरं सूचयतः। सर्वथा सर्वप्रकारेण निष्प्रतीकारा असाध्या इयं दृश्यमाना आपत् विपद् उपस्थिता प्राप्ता। इदानीं सम्प्रति किं कर्त्तव्यं विधेयम्। किं वा चेष्टितव्यम् आचरितव्यम्। गन्तव्यमित्यत्र भावे तव्यत्प्रत्ययः। शरणं रक्षकम् 'करणं गृहरक्षित्रोः' इत्यमरः। सहायः साहाय्यकृत् प्रकार एनद्विपत्प्रतिक्रियाया मार्गः। युक्तिः एतत्प्रतीकारसाधनाय उपपत्तिः। समाश्रयः अवलम्बनम्। येन कृत्वा अस्य पुण्डरीकस्य असवः प्राणाः सन्धार्यन्ते अवस्थाप्यन्ते मया (कपिज्जलेन) संरक्ष्यन्त इत्यर्थः।

इत्येते। कौशलेन चातुर्येण। युक्त्या उपपत्त्या। प्रकारेण मार्गेण। अवष्टम्भेन उपायाश्रयणेन। प्रज्ञया तद्धातुविद्यया बुद्ध्या। समाश्वासनेन सान्त्वनेन, जीवेत् प्राणं रक्षेत्। विषण्णहृदयस्य खिन्नमानसस्य सङ्कल्पा वितर्काः प्रादुरासन् प्रकटीबभूवुः।

पुनरिति। पुनर्भुयः, अचिन्तयं चिन्तितवान्-सनदा प्रत्ययविद्यमानया अत्यन्तायतया अपारत्वादतिविस्तीर्णया निष्प्रयोजनया निरर्थकया चिन्तया ध्यातया। नन्वेवं तर्हि विश्रम्यतामित्यत आह-प्राण इति। शुभेनाशुमेन मङ्गलेनामङ्गलेन वा येन केनचित् उपायेन, उद्योगेन अस्य पुण्डरीकस्य प्राणा

हो जाती है; कमलिनी भी चन्द्र-किरणोंके प्रति विद्वेष छोड़ देती है; रात्रि भी दिनके साथ मिश्रित हो जाती है; ज्योत्स्ना (चाँदनी) भी अन्धकारका अनुकरण करती है; छाया भी प्रदीपके सामने रहती है; विद्युत् भी मेघमें स्थायित्व प्राप्त कर लेती है; वृद्धावस्था भी तारुण्यके साथ सञ्चार करती है। जब उसने इस प्रकारके अगाध गाम्भीर्यके सागर पुण्डरीकको तृणके समान लघु (तुच्छ) कर डाला, तब इसे और क्या दुष्कर रहा ? कहाँ वह तपस्या और कहाँ यह अवस्था ? इस विपत्तिका मुक्त होने (छुटकारा पाने) का सर्वथा कोई उपाय नहीं है। इस समय क्या करना ? कैसी चेष्टा करना ? किस दिशाको जाना ? किसकी शरण लेना ? क्या उपाय करना ? किससे सहायता लेना ? किस मार्गसे चलना ? किस युक्तिका अवलम्बन करना ? किसका आश्रय लेना कि जिससे इसके प्राणरक्षा कर सकें? किस चतुरतासे ? किस युक्तिसे ? किस मार्गसे ? किस उपायके अवलम्बनसे ? किस बुद्धिसे ? किस समाश्वासनसे यह जीवित रह सकता है ?' इस प्रकारके और अन्यान्य प्रकारके सङ्कल्प मेरे विषण्ण (खिन्न) चित्तमें उपस्थित होने लगे। एवं फिरमै चिन्ता करने लगा कि-'अत्यन्त दीर्घ एवं प्रयोजनरहित ऐसी चिन्ता करनेसे क्या लाभ ? उचित या अनुचित चाहे जिस किसी उपायसे इसके प्राणोंकी रक्षा तो करनी ही


१. तृणमिवलघुताम्। २. किमिवचेष्टितव्यम्। ३. देशो। ४. कश्च। ५. धार्यन्ते। ६. ध्यातया सनयानापायथा, अत्यन्तायतया।