भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 507, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 507
४६८कादम्बरी-[ कथायाम्-

नाशुभेन वा रक्षणीयाः। तेषाञ्च तत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः। बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासमिव आत्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम्। अकालान्तरक्षमश्चायमस्य मदनविकारः। सततमतिगर्हितेनाकष्ट्येनापि³ रक्षणीयान्⁴ मन्यन्ते सुहृदसून साधवः। तदतिहेपणमकत्र्त्तव्यमप्येतदस्माकमवश्यकत्र्त्तव्यतामापतितम्। किञ्चान्यत् क्रियते, का चान्या गतिः, सर्वथा प्रयामि तस्याः सकाशम्, आवेदयान्येतामवस्थाम्' इति चिन्तयित्वा चै⁵ 'कदाचिदनुचितप्रवृत्तं मां विज्ञाय सञ्जातलब्जो निवारयेदित्यनिवेद्यैव तस्मै तत्प्र-

असवो रक्षणीयाः पालनीयाः मयेति शेषः। अत एव तदुपयोगोऽवश्यं विधातव्य इत्याशयः।

अथैवं भवता कः खलु पायः मनसि सन्धार्यते इत्यत आह—तेषामिति। अपि चेति चार्थः। तस्या महाश्वेतायाः समागमं संमेलनरूपम् एकम् उपायम् उद्योगम् अपहाय त्यक्त्वा, अपरोऽन्यः, तेषां प्राणानां संरक्षणोपायो नास्तीति सम्बन्धः।

एवं सति पुण्डरीकः स्वयमेव तत्रोपेत्य महाश्वेतया समागमं विदधात्वित्यत आह—बालेति। एक एव उच्छ्वासो निश्वासोऽवशेषोऽवशिष्टो यस्य एवंविधं जीवितं प्राणितं यस्य सः गमनोद्यतप्राणोऽपीत्यर्थः, अय पुण्डरीकः, तपोविरुद्धं व्रतविरोधि अनुचितम् अयोग्यम् अत एव च उपहासमिव आत्मनः स्वस्य मदनव्यतिकरम् इदं कामावेशं मन्यमानं ज्ञायमानः सन् हीजनकत्वादित्याशयः, बालभावाद् बालत्वेन पूर्वाभ्यस्तकौशलाभावात्, अप्रगल्भतया प्रत्युत्पन्नधार्ष्ट्याभावं च तारुण्यवाङ्मनोवकामिनीसुरतोपयोगिकौशलाभावेन च कारणेनेत्यर्थः, स्वयं निजेनैव गत्वा तस्या महाश्वेताया अभिगमनेन संमिलनेन मनोरथम् अभिलापं न पूरयति न पूरयितुं शक्नोति इति नियतं ध्रुवम्; अत एवास्य प्राणसन्देह एव सञ्जात इत्याशयः।

ननु प्राप्तकाले समस्तस्यैव विनाशदर्शनात् कञ्चित्समयं प्रतीक्षतां स्वयमेवेयं कामदशा विनाशमेष्यतीत्यत आह—अकालेति। अकालान्तरक्षमः समयविलम्बासहः। अतः शीघ्रमेवास्य प्रतीकाराय मयोद्योगो विधातव्य इत्यभिप्रायः।

सम्प्रति प्रतीकाराय स्वस्यैव प्रवर्त्तनमुचितमिति प्रतिपादयितुं तत्र शिष्टसंमतिं दर्शयति—सततमिति। सततं निरन्तरम् अतिगर्हितेन अतिनिन्दितेन अकष्ट्येन अतिनिन्दितरवादेवाकार्येन विधातुमशक्येनाप्युद्योगेन साधवः सन्तस्सुहृदसूनू मित्रप्राणान् रक्षणीयान् पालनीयान् मन्यन्ते जानन्ति। ततस्माद् कारणात्, अतिहेपणं नितान्तलज्जाकरम् अकर्त्तव्यम् अविधेयमपि तापसत्वादित्याशयः, एतत् महाश्वेतया सह पुण्डरीकस्य समागमनम् अस्माकं पुण्डरीकमार्गानुवर्त्तिनाम् अवश्यकर्त्तव्यतां नियतविधेयताम् आपतितम् उपस्थितम्।

किञ्चेति। अन्यत् एतद्व्यतिरिक्तं किं क्रियते विधीयते। अन्या-एतद्व्यतिरिक्ता गतिः उपायः। तस्या महाश्वेतायाः सकाशम् अन्तिकम्, एतां दृश्यमानाम् अवस्थां दशाम् आवेदयामि कथयामि। चिन्तयित्वा विचिन्त्य। अनुचिते. अयोग्ये कर्मणि प्रवृत्तस्तत्परो यन्तम्। सञ्जातलब्जः समुत्पन्नत्रपः पुण्डरीक इति शेषः, निवारयेत् स्वसमीपनायातुं निषेधेत्, इति अस्मात्कारणात्, तस्मै पुण्डरीकाय


चाहिए। किन्तु एकमात्र महाश्वेताका समागम छोड़ कर इसको प्राणरक्षाका कोई दूसरा उपाय नहीं है। एक निश्वास परित्यागमात्र इसके जीवनका अवशिष्ट रह गया है, तथापि यह, बालभावसे चतुरता न होनेके कारण, काम-विकारको तपस्याके विरुद्ध अनुचित और अपने उपहासके समान मानता हुआ, अपने आप तो वहाँ जाकर, उस कन्या की अभिलाषा निश्चय ही पूर्ण नहीं करेगा। अब यह मदनविकार विलम्ब सहन नहीं कर सकता। सज्जन पुरुष, अत्यन्त गर्हित एवं अकर्तव्य कर्मोंसे (जिस किसी उपायसे) भी सर्वदा मित्रके प्राणोंकी रक्षा करना उचित समझते हैं। अत एव अब यह अत्यन्त लज्जाजनक एवं अकर्त्तव्य होनेपर भी मुझे अवश्य करना पड़ेगा। और दूसरा क्या किया जा सकता, अन्य उपाय ही क्या है? निश्चय ही महाश्वेताके निकट जाकर इसकी यह अवस्था सूचित कर दूँ। इस प्रकार विचारकर—यदि मुझे अनुचित कार्यमें प्रवृत्त होते समझकर लज्जासे पुण्डरीक


१. तत्समागमः।
२. उपनतमुपहासमिव।
३. कृच्छ्रेणापि।
४, परिरक्षणीयान्।
५. क्वचित् चकारो न विद्यते।