भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 509, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 509

४७० कादम्बरी— [ कथामुखम्-

मासिव तमप्यनुबध्नाति, यत्सत्यमनेनेमे सन्तापयताप्यंशेने दर्शितानुकूलता । यदि च सत्यमेव तस्येदृशी दशा वर्त्तते, ततः किमिव नोपकृतमनेन, किंवा नोपपादितम्, को वानेनापरः, समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निष्क्रामति । इत्थम्भूते किं मयापि प्रतिपत्तव्यम् ? तस्य वा पुरः किमभिधातव्यम् ?' इत्येवं विचारयन्त्यामेव प्रविश्य ससम्भ्रमा प्रतीहारी मामकथयत्—'भर्तृदारिके ! त्वमसुस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा कपिञ्जलो महाजनसम्मर्दभीरुः सत्वरमुत्थाय 'राजपुत्रि ! महानयमुपस्थितः कालातिपातः। भगवांश्च भुवनत्रयचूड़ा-


बध्नाति अनुगच्छति, तदुपर्यपि निजावेशं स्थापयतीति भावः । अत एव मां सन्तापयतापि संज्वरयतापि अनेन कामेन मे मम अंशेन यत्सत्यम् अनुकूलता आनुकूल्यं दर्शिता प्रकटिता, न तु तामस्त्येन, अद्यापि समागमाभावादित्यभिप्रायः । 'यत्सत्यम्' इत्येकमेव पदं दर्शितेति क्रियाया विशेषणमित्यवगन्तव्यम् ।

यदीति । यदि चेत्, तस्य पुण्डरीकस्य सत्यमेव परमार्थत एव ईदृशी एवंविधा दशा अवस्था वर्त्तते विद्यते, ततस्तदा अनेन कामेन किमिव नोपकृतं किमुपकारो न कृतः, किंवा न उपपादितं सम्पादितम्, अनेन कामेन समानस्तुल्यः अपरोऽन्यः को वा मम बन्धुः, अपि तु न कोऽपीत्यर्थः, अनेनैव मनाभिलाषायाः पूरितप्रायत्वादित्याशयः ।

ननु कपिञ्जलवाक्यस्य परमार्थत्वे का युक्तिरित्यत आह—कथमिति । प्रशान्ता अप्रतारणाद्योतकभव्या आकृतिः मूर्तिः यस्य तस्य कपिञ्जलस्य अस्माद् वदनान्मुखात् स्वप्नेऽपि कथं वितथा असत्या भारती वाणी निष्क्रामति निःसरति कथमपि नेत्यर्थः । अस्य प्रशान्तस्वरूपमेव वचनस्य यथार्थत्वे प्रमाणम्, एवंविधस्वरूपस्य कदाचिदपि असत्यभाषणाश्रवणादित्यभिप्रायः ।

इत्थमिति । इत्थम्भूते एवंविधे समाचारे इति शेषः। प्रतिपत्तव्यं स्वकर्त्तव्यम् । तस्य पुरो वा पुण्डरीकस्य निकटे वा किम् अभिधातव्यं गत्वा वक्तव्यम्, अथवा सन्देशवाक्यं प्रेषयितव्यम् इत्येवं विचारयन्त्यां चिन्तयन्त्यामेव 'मयि' इति शेषः। इह 'विचारयन्त्या' इति पाठस्तु चिन्त्यः ।

ससम्भ्रमा सभया सती प्रतीहारी प्रविश्य गृहान्यन्तरे प्रवेशं कृत्वा माम् अकथयत् अवोचत्—'भर्तृदारिके राजपुत्रि ! असुस्थशरीरा अप्रकृतिस्था, परिजनात् अनुयायिवर्गात् उपलभ्य ज्ञात्वा महादेवी गन्धर्वराजमहिषी भवत्या जननी प्राप्ता उपगता ।

तच्चेति । महतोऽतिबृहतो जनसंमर्दात् महादेव्या सार्धं प्राप्तानां लोकानाम् अत्यन्तात् सङ्घर्षात् भीरुः भीतियुक्तः, अरण्येषु प्रायेणैकाकिन एव निवासादित्याशयः । उपस्थितः प्राप्तः कालातिपातः समयविलम्बः, भवत्यास्तत्र जिगमिषायां विद्यमानायामपि महादेव्यामप्रयातायां तदसम्भवादित्याशयः ।


नेत्रोंके लोमसंयुक्त न होनेसे अत्यन्त स्थूल दीखती निर्मल आनन्दाश्रुकी बूँदोंके गिरनेसे उत्पन्न आनन्दकी सूचना करती, उस क्षण विचार करने लगी—‘सौभाग्यवश ही यह कामदेव, मेरे समान उसका भी निरन्तर अनुहरण करता है ! यह सत्य है कि—मुझे सन्तप्त करता हुआ भी उसने कुछ अंशमें मेरी अनुकूलता दिखला दी है । यदि यथार्थमें उसकी ऐसी ही अवस्था हो तो फिर उसने मेरा कौनसा उपकार नहीं किया ? अथवा किस-किस कार्यकाही सम्पादन नहीं किया ? एवं इसके समान अन्य बन्धु ही मेरा कौन है ? शान्ताकृति कपिञ्जलके इस मुखमें से स्वप्नमें भी मिथ्या वाणी कैसे निकल सकती है ? ऐसी स्थितिमें मुझे भी क्या स्वीकार करना चाहिए ? अथवा उसके समीप ही वाचिक सन्देश क्या भेज देना चाहिए ? मैं मन ही मन इस प्रकार विचार कर रही थी कि—इतनेमें शङ्काके साथ प्रतीहारी मेरे घरके बीचके प्रदेश कर मुझसे कहने लगी—'राजकन्ये ! परिजनोंसे आपके शरीरका अस्वास्थ्य समझ कर ( आपको देखनेके लिए ) महारानी उपस्थित हुई है। यह सुनकर परिजनादिकोंके अत्यन्त सङ्घर्षके भयसे कपिञ्जल शीघ्रतासे हो उठा और मुझसे कहने लगा—'राजकन्ये ! यह गुरुतर कालविलम्ब


१. एतेन ।
२, कियताऽप्यंशेन, अपि कियतान्त्यंशेन ।
३. क्वचित् 'वर्त्तते' इति पदं न विद्यते ।
४. प्रतिधर्त्तव्यम् ।
५. अस्वस्थशरीरेति ।