भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 537, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 537
  • ४६८ - कादम्बरी- [ कथामुखम्-

दिगन्तराणि, आमोदिना च शरीरतः क्षरता शिशिरेण शीतज्वरमिव जनयता अमृतशीकर-निकरवर्षेण^१ तुषारपटलेनेवानुलिम्पन्, गोशीर्ष-^२चन्दनरस-च्छटाभिरिवासिञ्चन्, ऐरावतकर-पीवराभ्यां बाहुभ्यां मृणाल-धवलाङ्गुलिभ्यामतिशीतलस्पर्शाभ्यां^३ तमुपरतमुत्क्षिपन्^४, दुन्दुभिंनादगम्भीरेण^५ स्वरेण 'वत्से, महाश्वेते ! न परित्याज्याः^६ त्वया प्राणाः, पुनरपि तवानेन सह भविष्यति समागमः' इत्येवमाहतः^७ पितेवाभिधाय सहैवानेन गगनतलमुदपतत् ।

अहन्तु तेन व्यतिकरेण सभया सविस्मया सकौतुका चोन्मुखी किमिदमिति कपिञ्जलमपृच्छम् । असौ तु ससम्भ्रममदत्त्वैवोत्तरमुदतिष्ठत्—'दुरात्मन्^८ ! क मे वयस्यमपहृत्य गच्छसि' इत्यभिवाचोन्मुखः सञ्जातकोपो बध्नन् सवेगम्^९ उत्तरीयवल्कलेन परिकरम्, उत्प-


समन्तात् विस्तृतकान्त्येत्यर्थः । दिशां ककुभाम् अन्तराणि विवराणि क्षालयन्निव निर्मलानि कुर्वन्निव ।

इह 'स्वच्छवारिधवलेन' इत्यत्र लुप्तोपमा, अनया च 'क्षालयन्निवे'ति क्रियोत्प्रेक्षा सङ्कीर्यते ।

आमोदिनेति । किञ्च, आमोदिना परिमलवता, शरीरतो देहतः क्षरता स्रवता, तुषारपटलेनेव तुहिनवर्षेणेव, शिशिरेण शीतलेन, अत एव शीतज्वरं जनयता उत्पादयतेव कम्परोमाञ्चविधानादित्यादिप्याशयः, अमृतशीकराः पीयूषविन्दवः तेषां निकरः समूहस्तस्य वर्षणेन वृष्ट्या, अनुलिम्पन् विलेपयन् दिगन्तराणीत्यन्वयः ।

इह श्रौतोपमाक्रियोत्प्रेक्षयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।

गोशीर्षेति । गोशीर्षाकारे मलयाचलैकभागे उत्पन्नत्वाद् गोशीर्षं तत्संज्ञकम् अतिसुरभि यच्चन्दनं तस्य रसच्छटाभिः द्रवस्फुरणैः आसिञ्चन्निव आसेकं कुर्वन्निव दिगन्तराणीत्यन्वयः, सर्वतो दीप्तिप्रसरणादित्याशयः । क्रियोत्प्रेक्षा ।

ऐरावतेति । ऐरावतस्य गजस्य करवत् शुण्डावत् पीवराभ्यां स्थूलाभ्याम्, मृणालं बिसं तद्वत् धवलाः शुक्ला अङ्गुल्यः करशाखा ययोस्ताभ्याम्, तथा अतिशीतलस्पर्शाभ्यां नितान्तशिशिरस्पर्शाभ्यां बाहुभ्यां भुजाभ्याम्, उपरतं मृतं तं पुण्डरीकम् उत्क्षिपन् उत्तोलयन् ।

इह द्वे लुप्तोपमे, अनयोर्मिथो नैरपेक्ष्येण संसृष्टिः ।

दुन्दुभीति । दुन्दुभिर्नादवत् पटहध्वनिवत् गम्भीरेण, स्वरेण कण्ठध्वनिना । न परित्याज्या न परिहेया । अनेन नूनपुण्डरीकेण । समागमः सङ्गमः । पितेव जनक इव उदपतत् उतपात । इह लुप्तोपमा, श्रौतोपमा च, अनयोर्मिथो नैरपेक्ष्येण संसृष्टिः ।

अहमिति । तेन व्यतिकरेण लोचनयोस्तद्व्यापारसम्पर्केण सभया सातङ्का अद्भुतकृतिक्रियापारावलोकनादित्याशयः । एवमन्यत्राप्याशयो बोध्यः । सविस्मया साश्चर्या, सकौतुका सकुतूहला, उन्मुखी ऊर्ध्ववदना । अपृच्छम् अप्राक्षम् ।

असाविति । असौ कपिञ्जलः । ससम्भ्रमं शीघ्रम् । उत्तरं प्रतिवचः अदत्त्वैव अप्रदायैव उदतिष्ठत् उत्थितो बभूव । सञ्जातकोपः समुत्पन्नक्रोधः । सवेगं सजवम् उत्तरीयवल्कलेन उत्तरीयतरुत्वचा परि-


दिगन्तरोंका मानो प्रक्षालन करता था; तुषारवृष्टिके समान शीतल और सुगन्ध शरीरसे निकलते अमृतविन्दु-वर्षणसे शीतज्वर उत्पन्न करके ही मानो समस्त दिशाओंका लेप करता था और गोशीर्ष-नामक अत्यन्त सुगन्ध चन्दनरसके निक्षेप (छिड़कने) से ही मानो समस्त दिशाओंको सिक्त करता था । उसने ऐरावत हाथीकी शुण्ड (सूँड़) के समान स्थूल (मोटी) मृणालके समान गोरी उँगलियोंवाली और अत्यन्त शीतल-स्पर्शवाली अपनी बाहुओंसे उस मृतकको उठाकर, दुन्दुभीके नादके समान गम्भीर स्वरसे, पिताके समान आदरपूर्वक कहा—'पुत्रि, महाश्वेते ! तुम प्राणका परित्याग नहीं करना, फिर इसके साथ तुम्हारा सम्मिलन होगा' और वह उस-कुमारके शरीरके साथ ही आकाशमें उड़ गया ।

मै तो इस व्यापारसे भय-भीत और विस्मित हो गई, और कौतुकसे ऊपर देखती-देखती कपिञ्जलसे पूछने लगी कि यह क्या हुआ ? किन्तु वह तो घबड़ाकर उत्तर दिये बिना ही खड़ा हो गया और कहा—'अरे दुष्ट !


१. अमृतशीकरवर्षेण । २. गोशीर्षक ... । ३. शीतलस्पर्शाभ्याम् । ४. तमुत्क्षिपन् । ५. क्वचित् 'नाद' इति पदं नोपलभ्यते । ६. त्याज्याः । ७. क्वचिद 'वाह्रत' इति पाठो न विद्यते । ८. दुरात्मन् ! अन्तक ! । ९. सवेगम् ।