कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 536, कुल 709 में से
संदर्भ में पढ़ेंमहाश्वेतोदन्तोपसंहारवर्णना ७८ ] चन्द्रकला-विद्योतिनीसहिता । ४६७
ततश्च तथाभूते तस्मिन्नवस्थान्तरे मरणैकनिश्चया¹ बहु विलप्य तरलिकामब्रवम्²— ‘अयि उत्तिष्ठ निष्ठुरहृदये ! कियद्रोदिषि³ ? काष्ठान्याहृत्य विरचय चिताम्, अनुसरामि जीवितेश्वरम्’ इति । अत्रान्तरे झटिति चन्द्रमण्डलविनिर्गतः⁴ गगनादवतीर्य्य⁵ केयूरकोटिसग्नममृतफेन- पिण्डपाण्डुरं पवनतरलमंशूत्तरीयमाकर्षन्, उभयकर्णान्दोलित-कुण्डल-मणि-प्रभा-रक्तगण्ड- स्थलः, स्थूलमुक्ताफलतया तारागणमिव ग्रथितम् अतिच्छं हारम्⁶ उरसा दधानः, धवल- दुकूल-पल्लवकल्पितोष्णीषग्रन्थिः, अलि-कुल नील-कुटिल-कुन्तल-निकर-विकटमौलिः, उत्फुल्ल- कुमुदकर्णपूरः, कामिनी-कुच-कुङ्कुमपत्रलता-लाञ्छितांसदेशः, कुमुद-धवल देहः, महाप्रमाणः, पुरुषो महापुरुषलक्षणोपेतो दिव्याकृतिः, स्वच्छ-वारि-धवलेन देहप्रभावित्तानेन क्षालयन्निव
तत इति। तथाभूते तादृशे तस्मिन् पूर्वप्रतिपादिते अवस्थान्तरे मरणस्य मृत्योः एकनिश्चया एक-निर्णया सती। निष्ठुरहृदये कठोरचित्ते ! तादृशशोकेनापि हृदयस्याविदीर्णत्वान्निष्ठुरहृदयत्वं तरलिकाया इत्यभिप्रायः। आहृत्य आनीय विरचय निष्पादय। जीवितेश्वरं प्राणनाथम् अनुसरामि सहमरणं गच्छामि मृते भर्त्तरि मरणं शङ्खचयं वा पालनीयमिति धर्मशास्त्रनिर्णयादित्याशयः।
अत्रेति। चन्द्रमण्डलविनिर्गतः शशिनिम्बाद्दिनिःसृतः गगनात् आकाशात् अवतीर्य्य उत्तीर्य्य केयूरस्य बाहुमध्यस्थितभूषणस्य कोटौ अग्रदेशे लग्नम्, अमृतस्य पीयूषस्य फेनपिण्डवत् डिण्डीरचयवत् पाण्डुरं श्वेतम्, पवनतरलं वायुना कम्पितम्, अंशूत्तरीयम् क्षौमवस्त्रोत्तरीयम् आकर्षन् आकर्षणं कुर्वन्। लुप्तोपमा।
उभयेति। उभयकर्णान्दोलितयोः श्रोत्रद्वयवेष्टितयोः कुण्डलयोः कर्णभूषणयोः मणिप्रभाभिः रत्न-कान्तिभिः रक्ते लोहिते गण्डस्थले कपोलद्वयं यस्य सः। वृत्तिविषये उभशब्दस्योमयादेशः।
स्थूलेति। उरसा वक्षःस्थलेन, स्थूलानि पीवराणि मुक्ताफलानि मौक्तिकानि यत्र तस्य भावस्तया कारणेन, ग्रथितं गुम्फितं तारागणमिव नक्षत्रसमूहमिव, अतिशारं नितान्तस्वच्छं हारं मुक्ताप्रालम्बं दधानः बिभ्राणः। तारागणमिवेति जात्युत्प्रेक्षा। 'मुक्ताशुद्धौ च तारः स्याद्' इत्यमरः।
धवलेति। धवलेन श्वेतेन दुकूलपल्लवेन विस्तृतसूक्ष्मवस्त्रेण कल्पितो रचित उष्णीषग्रन्थिः मूर्धवेष्टन-ग्रन्थियेन सः।
अलीति। अलीनां भ्रमराणां कुलं समूहस्तद्वत् नीलेन श्यामेन कुटिलेन वक्रेण च कुन्तलनिकरेण केशसमूहेन विकटो विस्तृतो मौलिश्चूडा यस्य सः। लुप्तोपमा।
उत्फुल्लेति। उत्फुल्ले प्रस्फुटिते कुमुदे श्वेतोत्पलद्वयमेव कर्णपूरौ कर्णभूषणौ यस्य सः। कामिन्या योषितः कुचयोः स्तनयोः कुङ्कुमपत्रलताभिः कुङ्कुमद्रवानिर्मितपत्रावलिभिः लाञ्छितो गाढालिङ्गनपूर्वकं पारवश्यनावस्थायाम् अङ्कितो संसदेशो स्कन्धप्रदेशौ यस्य सः। कुमुदवत् श्वेतोत्पलवत् धवलः शुभ्रो देहः शरीरं यस्य सः। महत् प्रमाणं परिमाणं यस्य सः। महापुरुषलक्षणैः हस्तपादाशौ सामुद्रिकशा-स्त्रोक्तध्वजवज्राङ्कुशादिचिह्नैः उपेतो युक्तः। दिव्याकृतिः स्वर्गीयमूर्तिः। इह 'कुमुदधवले'त्यत्र लुप्तोपमा।
स्वच्छेति। स्वच्छं निर्मलं यद्वारि जलं तद्वत् धवलेन शुभ्रेण, देहस्य शरीरस्य प्रभाया वितानेन
तदनन्तर ऐसी दशा उपस्थित होने पर, केवल मरनेका ही निश्चय करके और अनेक प्रकारका विलाप कर मैंने तरलिकासे कहा—अरी कठिनहृदये ! उठो, अब इस प्रकार कितनी देर तक रोया करोगी ? लकड़ी लाकर चिता निर्माण कर, जिससे अपने प्राणेश्वरका अनुगमन करूँ !
इस बीचमें झट चन्द्रमण्डलमेंसे निकलकर, कुमुद-तुल्य शुभ्रवर्ण, बड़े परिमाणका, महापुरुषके लक्षणोंसे युक्त दिव्य-स्वरूपवाला एक पुरुष आकाशसे उतरा। वह अपने केयूरके अग्रभाग (बाजूबन्दके किनारे) से अटके, अमृत-फेनपिण्डके समान शुभ्रवर्ण, वायुभारसे कम्पित, एक क्षीण उत्तरीय वस्त्रको खींचता था; दोनों कानोंमें लटकते दो कुण्डलोंकी मणि-प्रभासे उसके गण्डस्थल रक्त दीखते थे; बड़ी-बड़ी मुक्ताओंके द्वारा निर्मित होनेके कारण, गुंथे हुए नक्षत्र-गणके समान अत्यन्त मनोहर हार उसके वक्षःस्थल (छाती) पर धारण किया हुआ था; धवल और विस्तृत रेशमी-वस्त्रका उसने उष्णीष (पगड़ी-गान) बाँधा था; सुन्दरियोंके स्तनोंकी कुङ्कुम पत्रलतासे उसका स्कन्ध (कंधा) चिह्नित था; निर्मल जलके समान श्वेतवर्णकी चारों तरफ फैली हुई देहप्रभासे वह
१. अवस्थान्ते मरणैकनिश्चयान्तः ।
२. अब्रवद् ।
३. रोदिषि ।
४. ॰॰॰निर्गतः ।
५. अवतीर्य्य च ।
६. अतिहारहारम् ।
७. कश्चित् ।
८. निश्चित ।