कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 535, कुल 709 में से
संदर्भ में पढ़ें| ४६६ | कादम्बरी- | [ कथायाम्- |
|---|
कुतश्च मे कठिनहृदयायाः शोकः, सर्वमिदमलीकमस्य दुरात्मनः¹ शठहृदयस्य, सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामग्रेसरीकृता । यथा चाधिगतमदनवेदनया² वज्रमय्येवेदमनुभूतम्, तस्याः³ का गणना कथनं प्रति ? किं⁴ वा परमतः । कष्टतरमाख्येयमन्यद्भविष्यति, यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्यं यदभूत्तदावेदयामि, आत्मनश्च प्राणधारणकारणलव⁵ इव अव्यक्तो यः समुत्पन्नः, तञ्च कथयामि । यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञञ्च हतशरीरं⁶ वहामि तदलं श्रूयताम्' ।
दर्शनं साक्षात्कारं परिहरति परित्यजतीति नूनं निश्चितम्, अन्यथा साक्षात्कारं प्रदाय तथाविधावसरे मां ध्रुवमेव नयेदित्यभिप्रायः ।
'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः ।' 'उत्प्रेक्षावाचका………' इति दर्पणदिशा वाच्या क्रियोत्प्रेक्षा ।
नन्वेवमपि भूयः शोकाविर्भावात् समाप्यतामियं कथेत्यत आह—कुत इति । विदीर्णतारूपशोकफलानवलोकनात् । कठिनहृदयाया कठोरस्वान्तायाः, काठिन्यं हृदयस्य हि शोकाभावः । इदं पुण्डरीकोपरतादिकम्, अलीकम् असत्यम् असत्यवत्प्रतीतिरित्यर्थः । अन्यथा विदीर्येतेत्याशयः । दुरात्मनः दुष्टहृदयस्य । त्यक्ता शठत्वादेव मुक्ता त्रपा लज्जा येन तेन, अहं निरपत्रपाणां निर्लज्जानाम् अग्रेसरी पुरोगामिनी कृता विहिता, कथमन्धथा यथार्थं कथितुं योग्याऽस्मीत्याशयः ।
अथैवमपि प्रतिपादने कथमिननोन्यथा स्यादित्यत आह—यथेति । किञ्च अधिर्गता साक्षादनुभूता मदनवेदना दारुणकामपीडा यथा तया, यया वज्रमय्येव वज्ररचितेयेव विद्यमानया मया, इदं पूर्वोक्तं घटनाजालम् अनुभूतम् अनुभवविषयोकृतम्, तस्या मम कथनं प्रति का गणना, अपि तु न कार्येत्यर्थः । अनुभवोत्पन्नपीडापेक्षया प्रतिपादनजन्यपीडाया अतीवलघुत्वादित्याशयः ।
इह क्रियोत्प्रेक्षा, अर्थापत्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
इत ऊर्ध्वं क्लेशतरमपि न विद्यत इत्यत आह—किं वेति । आख्येयं कथनीयम् । श्रोतुम् आकर्णयितुम् आख्यातुं कथितुं वा । वज्रपातस्य वज्रपातसदृशस्य कष्टकरस्य अस्य समाचारस्य अनन्तरं पश्चात् यत् आश्चर्यं चित्रम् अभूत् तत् आवेदयामि कथयामि । आत्मनः स्वस्य च प्राणधारणकारणस्य असुधारणहेतोः लवो लेश इव अव्यक्तः अस्फुटो यः समाचारः समुत्पन्नः सञ्जातः तं च कथयामि निरूपयामि । दुराशामृगतृष्णिकया दुराशामृगमरीचिकया गृहीता स्वीकृता अहम् । उपरतल्पं मृतप्रायम्, परकीयमिव अन्यदीयमित्र । हतशरीरं दुष्टदेहं वहामि धारयामि, तद् आशाप्रयोजकं महापुरुषवाक्यम् अलं व्यर्थमपि श्रूयताम् तव तदाकर्णने न किमपि प्रयोजनं तथापि मदनुरोधादाकर्ण्यतामित्याशयः ।
निश्चय भगवान् यम भी [ वैसे अवसरमें ] दर्शन देना छोड़ दिया । मुझ कठिनहृदयाको शोक कहाँसे आवे ? यह तो सब इस दुरात्मा और धूर्तस्वभाव हृदयकी झूठी चाल है, इस निर्लज्जने मुझे सब प्रकारसे निर्लज्ज स्त्रियों का अग्रगण्य कर दी है और फिर दारुण कामवेदना अनुभवकर वज्रमयके समान इन समस्त घटनाओंका प्रत्यक्ष किया है, उसको केवल ऐसी घटनाको कहनेसे क्या हो सकता है, और इससे अधिक क्लेशदायक और कहनेको ही क्या होगा, जो न कहा जाय न श्रवण ही किया जाय । इस वज्रपातके बाद जो एक आश्चर्य घटना हुई अब केवल उसे ही मैं आपसे निवेदन करती हूँ और अपने प्राणधारण करनेके कारण-लवके समान अस्पष्ट (गुप्त) जो वृत्तान्त हुआ उसका भी वर्णन करती हूँ, जिस दुराशा-रूपी मृगतृष्णिकाके वशीभूत होकर मैं इस मृतप्राय एवं परकीयके समान भारभूत, प्रयोजनविहीन और अकृतज्ञ, दुष्ट शरीरको धारण कर रही हूँ । प्रयोजन न रहने पर भी उसे आप सुनिए ।'
१. क्वचित् 'दुरात्मन' इति पाठो न विद्यते ।
२. आविष्कृतमन्दवेदना, आविष्कृतमनसा ।
३. क्वचिद 'तस्याः' इति पदं नोपलभ्यते ।
४. दुःखगणना कथं प्रीतिः ।
५. कारणभूत इव ।
६. हतशरीरकम् ।