कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 534, कुल 709 में से
संदर्भ में पढ़ेंमहाश्वेतोदन्तोपसंहारवर्णना ७६ ] चन्द्रकला-विद्योतिनोसहिता । ४६५
शनैः शनैर्वीजयन् संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडेन$^१$ प्रक्षाल्य- मानकपोलयुगलः$^२$ लब्धचेतनामवादीत्—'भगवति ! मया पापेन तवायं पुनरभिन- वतामुपनीतः$^४$ शोकः, येनेदृशीं दशामुपनीतासि । तदलमनया कथया, संहियतामियम् , अहमप्यसमर्थः श्रोतुम् । अतिक्रान्तान्यपि हि सङ्कीर्त्यमानानि$^५$ अनुभवसमां वेदनामुपजन- यन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथमपि विधृतानिसानसुलभानसून् पुनः पुनः$^६$ स्मरणशाखानलेन्धनतामुपनेतुम्' इति ।
एवमुक्ता दीर्घमुष्णञ्च निश्वस्य$^७$ बाष्पायमानलोचना सनिर्वेदमवादीत्—'राजपुत्र ! या$^८$ तस्यामतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न परित्यक्ता, सेदानीं परित्यक्ष्यत इति दूरापेतम्$^९$ । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् ।
उपजातेति । क्लिष्टेति चार्थः । उपजातम् उत्पन्नं कारुण्यं शोको यस्य स तथोक्तश्चन्द्रापीडः, बाष्प- सलिलानां नयनाम्बूनाम् उत्पीडेन स्थूलधारया, प्रक्षाल्यमानं धौतं विधीयमानं कपोलयुगलं गण्डद्वयं यस्य स तथोक्तः सन् , लब्धचेतनां प्राप्तचैतन्यां महाश्वेताम् अवादीत् अवोचत्—भगवति महाश्वेते ! पापेन पापात्मना मया वक्तुमनुरुन्धतेत्याशयः । अभिनवतां नूतनताम् उपनीतः प्रापितः । येन कारणेन ईदृशीम् एवंविधां दशाम् अवस्थाम् उपनीतासि प्रापितासि । अलं व्यर्थम् । इयं कथा संहियतां समाप्य- ताम् । अहं चन्द्रापीडोऽपि श्रोतुम् आकर्णितुम् असमर्थः अक्षमः शोकोदयादित्याशयः । हि यतः, अति- क्रान्तान्यपि अतीतान्यपि दुःखानि क्लेशाः सङ्कीर्त्यमानानि वाच्यमानानिसन्ति, सुहृज्जनस्य मित्रलो- कस्य अनुभवसमां स्वयमनुभूयमानवेदनासद्दशीमित्यर्थः, वेदनां व्यथाम् उपजनयन्ति निष्पादयन्ति । कथमपि महता कष्टेन, विधृतान् एतावत्समयपर्यन्तं रक्षितान्, असुलभान् अस्मिन् जन्मनि दुष्प्रापान् , इमान् असून् प्राणान् , स्मरणेन तदुदन्तस्मृत्या यः शोकानलः शुग्वह्निः तस्य इन्धनतां काष्ठत्वम् उप- नेतुं प्रापयितुं नार्हसि न योग्यासि, प्रयोजनाभावादित्याशयः ।
इह प्राणेषु काष्ठत्वारोपस्य शोकेऽनलत्वारोपः कारणमिति परम्परितरूपकम् ।
एवमिति । एवं पूर्वोक्तदिशा उक्ताऽभिहिता चन्द्रापीडेनेति शेषः । दीर्घम् आयतम् । बाष्पं नय- नाम्बु उद्द्वमत् इति बाष्पायमाणे लोचने नयने यस्याः सा तथोक्ता महाश्वेता । निर्वेदेन स्वावमाननया सहेति सनिर्वेदं यथा स्यात्तथेति क्रियाविशेषणम्, अवादीत् अवोचत् या महलक्षणा व्यक्तिः। अतिदारु- णायाम् अतिभीषणायां हतनिशायाम् अशुभ्ररजन्याम् । अतिनृशंसैः अतिक्रूरैः असुभिः प्राणैः न परि- त्यक्ता नोज्झिता । इति एतत् सम्भावनम् , दूरापेतं दूरे स्थितम् ।
नूनमिति । अपुण्यं पुण्यविरोधि भवान्तरीयदुष्कृतं तेन उपहतायाः प्रतिबद्घममस्तानन्दायाः पा- पायाः पुण्डरीकमरणे निमित्तत्वाद्दैहिकब्रह्महत्यापापयुक्ताया मम महाश्वेतायाः, अन्तकोऽपि यमोऽपि
(कोरसे) धीरे-धीरे वायुका सञ्चार करके [थोड़ी देरमें] उसने चेतनता प्राप्त करायी। इस घटनाद्वारा उत्पन्न शोकते चन्द्रापीडके भी कपोलस्थल (गालों) पर अश्रु-जलका प्रवाह बहने लगा और जब महाश्वेताको चेतनता आई तब उससे वह कहने लगा—'भगवति ! मुझ पापीने आपके इस अतीत शोकको फिरसे नूतन कर दिया, जिससे आपकी ऐसी अवस्था उपस्थित हो गई, बस इस वृत्तान्तको कहनेका कोई प्रयोजन नहीं है, यहाँ ही इसका उपसंहार हो, मैं भी अब इसे सुननेके लिए समर्थ नहीं हूँ, क्योंकि—बीते हुए भी मित्रोंके दुःखका सङ्कीर्त्तन आरम्भ करने पर आत्मीय लोगोंके अनुभूयमान वेदनाके समान वे वेदना उत्पन्न करते हैं। इसलिए किसी प्रकार धारण किए गए इन असुलभ प्राणोंको अब बारंबार स्मरण-रूपी शोकाग्निका इन्धन (लकड़ी) बनाना उचित नहीं है।'
चन्द्रापीडके इस प्रकार कहने पर, महाश्वेता, लम्बे और गरम निश्वास लेकर, नेत्रोंसे अश्रुवर्षण करती (आँसू ढबढबाती) हुई निर्वेदके साथ बोलने लगी—'राजपुत्र ! अत्यन्त भयङ्कर अशुभ उस रात्रिमें भी ये नृशंस (अतिक्रूर) प्राण जब मुझे नहीं छोड़ दिये, तो अब उनके छोड़ देनेकी धारणा तो बहुत दूरकी बात है। जन्मा- न्तरीय महाप्रत्यवायके कारण समस्त सांसारिक सुखके अभागिनी, इस जन्ममें भी पापिनी होनेके कारण मुझे
१. उत्पीडनेन । २. ॰कपोलयुगला ॰कपोलः, । ३. पुनरपि । ४. नीतः । ५. अत्र 'प्रियजन-विश्वासवचनानि' इति कचिदधिकः पाठः । ६. पुनः शोकानल इन्धन॰॰॰ । ७. निःश्वस्य । ८. या तदा । ९. परित्यक्तास्मि॰॰॰ते मामिदानों परित्यजन्तीति दूरापेतमेतत् ।