भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 533, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 533
४६४कादम्बरी-[ कथायाम्-

अद्यापि चिन्तयन्ती न जानामि तस्मिन् काले कुतस्तान्यचिन्तितान्यशिक्षितान्यनुपदिष्टान्यदृष्टपूर्वाणि मे हतपुण्यायाः कृपणानि चाटुसहस्राणि प्रादुरभवन्। कुतस्ते संलापाः, कुतस्तान्यतिकरुणानि वैक्लव्यरुदितानि, अन्य एव स प्रकारः। प्रलयोर्मय इवोदतिष्ठन्तर्बाष्पवेगानाम्, जलयन्त्राणीवामुच्यन्ताश्रुप्रवाहाणाम्, प्ररोहा इव निरगच्छन् प्रलापानाम्। शिखरशतानीवावर्द्धन्त दुःखानाम्, प्रसूतय इवोदपद्यन्त मूर्च्छनाम्।

इत्येवमात्मवृत्तान्तमावेदयन्त्या एवंतस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरम-नुभवन्त्या इव चेतनां जहार मूर्च्छा। वेगान्निष्पतन्तीञ्च शिलातले तां ससम्भ्रमं प्रसारितपरिजन इव जातपीडश्चन्द्रापीडो विधृतवान्। अश्रुतजलार्द्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन

अथेति। तस्मिन् काले रोदनसमये अचिन्तितानि अविचारितानि अशिक्षितानि अपठितानि अनुपदिष्टानि केनापि नोपदेशीकृतानि अदृष्टपूर्वाणि मयापि पूर्वमविदितानि, हतपुण्याया नष्टसुकृताया मे मम कृपणानि दैन्यबोधकानि चाटुसहस्राणि प्रियप्रायवचनसमूहाः कुतः प्रादुरभवन् कुतो मद्बदनात्प्रकटीभूतानि इति अद्य चिन्तयन्त्यपि ध्यायन्त्यपि तन्न जानामि स्मरामीत्यर्थः।

कुत इति। संलापा विलापवचनानि। अतिकरुणानि अतिदैन्यसूचकानि वैक्लव्यरुदितानि शोकव्यग्रताप्रयुक्तरोदनानि। स प्रकारः सा शोकप्रकाशदशा, अन्य एव समस्तविजातीय एव, तत्सम्प्रति तमुदाहर्तुमसमर्थेत्याशयः।

प्रलयेति। बाष्पवेगानां वेगवन्नयनजलामियर्थः, प्रलयोर्म्मयः कल्पान्तसामयिकतरङ्गा इव अन्तर्नेत्रद्वयाभ्यन्तराद् उदतिष्ठन् उत्पन्नाः, अनेन नयनाम्बुधाराणां नितान्तस्थूलत्वं ध्वनितम्। अश्रुप्रवाहाणां बाष्पधाराणां जलयन्त्राणि सलिलोद्गारयन्त्राणीव अमुच्यन्त मुक्ता नयनाभ्यामिति शेषः। अनेने पतनसमये बांष्पाणां शतधारत्वं सूचितम्। प्रलापानां विलापानां प्ररोहा अङ्कुरा नूतननूतनप्रकारा इत्यर्थः, निरगच्छन् वदनान्निर्गता बभूवुः। दुःखानां क्लेशानां शिखरशतानीव शृङ्गसमूहा इव अवर्धन्त ऐधन्त, अनेन क्लेशानां भूधरवद्विस्तृतत्वं बोधितम्। मूर्च्छनां मोहानां प्रसूतयः सन्ताना अविच्छिन्नप्रसवा इव उदपद्यन्त अजायन्त, अनेन वारंवारं मूर्च्छामिति प्रत्यायितम्। इह सर्वत्र जात्युत्प्रेक्षा।

इतीति। इत्येवं पूर्वोक्तप्रकारेण आत्मवृत्तान्तं स्वकीयोदन्तम् आवेदयन्त्याः कथयन्त्या एव समतिक्रान्तं व्यतीतं कथमपि अनिर्वचनीयम् अतिकष्टं नितान्तक्लेशकरम् अवस्थान्तरं कुमारोपरतलक्षणम् अनुभवन्त्या इव तत्काल एवानुभवविषयीकुर्वन्त्या इव तस्या महाश्वेतायाः मूर्च्छा मोहः चेतनां चैतन्यं जहार अपहृतवती, सा मूर्च्छिता जातेत्यर्थः।

वेगादिति। वेगात् मूर्च्छारंहसः शिलातले प्रस्तरतले निष्पतन्तीम् अधःसंयोगफलिकां क्रियां विदधतीं तां महाश्वेतां ससम्भ्रमं शीघ्रं प्रसारितकरो विस्तारितहस्तः, परिजन इव सेवकजन इव जातपीडः तस्या वृत्तान्तश्रवणेनावस्थावलोकनेन च उत्पन्नक्लेशः, विधृतवान् धारितवान्। अश्रुजलार्द्रेण नयनाम्बुक्लिन्नेन च तदीयेनैव महाश्वेताधारितेनैवेत्यर्थः। उत्तरीयवल्कलप्रान्तेन वीजयन् पवनं सञ्चालयन्, संज्ञां चेतनां ग्राहितवान् प्रापितवान्।

उस समय ऐसे अचिन्तित, अनभ्यस्त, दूसरे द्वारा अनुपदिष्ट, अदृष्ट-पूर्व प्रायः हजारों दुःखसूचक करुण वाक्य मुझ पापिनीके मुखद्वारा कहाँसे निकले, सब संलाप कहाँसे आये और अतिकरुण और दीन रुदन कैसे हुआ, वह तो कोई दूसरा प्रकार ही था। उस समय वेगवान् अश्रुजलका प्रबल-तरङ्ग ही मानो नेत्रके अभ्यन्तरसे उठने लगे-अश्रु-प्रवाहके जलयन्त्र (फुहारे) ही मानो छूटने लगे, विलाप के नये-नये अङ्कुर ही मानो निकलने (फूटने) लगे, दुःखोंके सैकड़ों शिखर ही मानो बढ़ने लगे एवं मूर्च्छाके अविच्छिन्न सन्तान (एकके पीछे दूसरी कतार) ही मानो उत्पन्न होने लगे।

इस प्रकार अपना वृत्तान्त कहते-कहते भूतकालकी अनिर्वचनीय और दारुण-कष्टजनक उस अवस्थाको ही मानो उस समय किसी प्रकारसे अनुभव करती महाश्वेताको मूर्च्छा आ गई, जिससे चेतना रहित हो गई और वेगसे शिलातलके ऊपर गिरनेको ही थी कि इतनेमें दुःखित चित्त चन्द्रापीडने घबराहटमें शीघ्रतासे, सेवकके समान हाथ फैलाकर, उसे पकड़ लिया एवं उसके ही अश्रु-जलसे सिक्त (तर) हुए उत्तरीय वल्कलप्रान्तद्वारा


१. आवेदयन्त्यः निवेदयन्त्या एव, ...एव च।
२. ससम्भ्रमप्रसारितकरः।