भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 55, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 55

कादम्बरी- [ कथामुखे-

कविवंशवर्णनम्

बभूव वात्स्यायनवंशसम्भवो द्विजो जगद्गीतगुणोऽग्रणीः सताम् । अनेकगुप्ताचितपादपङ्कजः कुबेरनामांश इव स्वयम्भुवः ॥ १० ॥ उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे । सरस्वती सोमकषायितोदरे समस्तशास्त्रस्मृतिबन्धुरे मुखे ॥ ११ ॥ जगुर्गुहेऽभ्यस्तसमस्तवाङ्मयैः ससारिकैः पञ्जरवर्त्तिभिः शुकैः । निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः ॥ १२ ॥

इत्थं कथां स्तुत्वा कीर्त्यनुवृत्त्यर्थः स्वकुलजातिङ्किंशति—बभूवेत्यादिना । वत्सस्यापत्यं पुमान् वात्स्यः सः अपने कुलप्रवर्त्तकत्वेन साश्रयः यस्य स तथोक्तो यो वंशः कुलं तत्र सम्भवः समुद्भवः वात्स्यवंशीय इत्यर्थः । जयति संसारे गीता जनैः गानविषयीकृताः गुणाः दयादाक्षिण्यादयो यस्य सः तथोक्तः सतां सज्जनानाम् अग्रणीः अग्रेसरः तन्मध्ये उत्तम इत्यर्थः । अनेकैः लधिकैः गुप्तैः गुप्तनामङ्कितैः वैश्यैः तदु-क्तम्—'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तदासनात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥'

यद्वा गुप्तैः ईशवीयपल्लवपद्मशक्तमध्यवर्त्तिप्राचीनराजवंशभिरित्यर्थः । अर्चिते पूजिते पादपङ्कजे चरणकमलयुगले यस्य सः । तथा स्वयम्भुवः प्रजापतेः अंशः अंशावतार इव अतिवैदिकत्वादित्याशयः, कुबेर-नामा कुबेराभिधेयः द्विजो विप्रो बभूव आसीत् 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । अत्रोत्कृष्टद्विजत्वद्योत-नाय द्विजपदोपादानम्, हस्तिनात्रस्य दन्तवत्त्वेऽपि उत्कृष्टदन्ते इन्तीतिवदस्य यथा प्रयोगस्तद्वदिह द्वह भावाभिमानिनी द्वच्योत्प्रेक्षा, सा च स्वयम्भुवोऽश इव इत्यनेन वाच्या ॥ १० ॥

उवासेति । श्रुतिभिः वेदैः तदध्ययनैरित्यर्थः । 'श्रुतिस्तु वेद आम्नायः' इत्यमरः शान्तं विलीनं कल्मषं पापं यस्य तस्मिन्, नित्यवेदाध्ययनेन वाचनिकपापरहित इत्यर्थः । पुरोडाशेन साग्निहोत्रादौ देवेभ्यो हुतहविरावशिष्टेन हविषा 'पुरोडाशो हविर्भेद हुतशेषे च कीर्त्तितः' इति विश्वः, पवित्रितौ सङ्क-समये सम्बन्धेन पावतीकृतौ सधरौ वोष्ठौ यस्य तस्मिंस्तथोक्ते । सोमेन सोमयागे सोमनामकलतारस-पानेन कृषायितं पुष्टन् उदरन् अभ्यन्तरं यस्य तस्मिन् यथोक्ते । तथा समस्तानि सकलानि यानि शास्त्राणि व्यासादिरचितब्रह्मसूत्रादीनि स्मृतयश्च मन्वादिरचितनिबन्धाः तैः तदध्ययनैः बन्धुरं मनोहरं तस्मिंस्तथोक्ते । यस्य कुबेरद्विजस्य मुखे वदने सरस्वती वाग्देवी सदा सर्वस्मिन् काले उवास वासं करोतिस्म । अनेनास्य महात्मनः प्रत्यहं वेदाध्ययनशोलत्वं नित्याग्निहोत्रादिकर्मानुष्ठातृत्वं समग्रशास्त्रा-ज्ञातृत्वञ्च स्पष्टीकृतम् ।

जगुरिति । यस्य कुबेरद्विजस्य गृहे भवने बटवः छात्रभूता ब्रह्मचारिणो ब्राह्मणशिशवः, अभ्यस्तं बहुधा श्रवणाजिह्वाप्रवर्ति समस्तं सम्पूर्ण वाङ्मयं चतुर्दशविचारमकं शास्त्रं यैस्तैः तथोक्तैः, पञ्जरवर्त्तिभिः लोहशालाकानिर्मितपञ्जरगृहे विद्यमानैः, सारिकाभिः सहिता ससारिकैः शुकैः कीरपक्षिभिः पदे पदे प्रति-पदाम्यासे निगृह्यमाजाः 'भवद्भिरशुद्धमभ्यस्यते न्वैवं भवितव्यम्' इत्यं निर्भर्त्स्यमाना, अत एव शङ्किताः यद्यशुद्धं स्यात्तदा पुनरपि मम दोषप्राकट्यं नूनं शुका करिष्यन्तीतिभययुताः सन्तः, यजूंषि यजुर्वेदान् सामानि सामवेदांश्च जगुः अपठन् । तिर्यग्योनीनां शुकानानपि समस्तविद्यापारङ्गतत्वमिति दर्शनादद्भुत-मेतन्माहात्म्यमिति द्योतितम् । इह तथाविधशुकैः तादृशपरमादालन्दन्येऽपि तत्सम्बन्धप्रतिपादनादति-शयोक्त्यलङ्कारः ॥ १२ ॥


अपने गुणों से संसार में विख्यात, सज्जनों में सर्वश्रेष्ठ, अनेक गुप्तवंशी राजाओं से पूजित चरणकमलोंवाले तथा ब्रह्मा के अंश के समान तेजस्वी कुबेर नाम के एक ब्राह्मण वात्स्यायन वंश में उत्पन्न हुए थे ॥ १० ॥

निरन्तर वेद-पाठ से निष्कलुष, यज्ञ के हविष्प्राशसङ्गम से पवित्र, अन्तर भाग में सोमपान से कषैले तथा समस्त शास्त्रों और स्मृतियों से सुशोभित, इसके मुख में भगवती सरस्वती सदैव निवास करती थी ॥ ११ ॥

जिसके घर मैनाओं के साथ पिंजरों में पले हुए (निरन्तर शास्त्र-चर्चा सुनते-सुनाते) सभी शास्त्रों में अभ्यस्त शुकों द्वारा पद-पद पर टोके जाने के भय से सशंकित हुए (ब्रह्मचारी बालक) यजुः और सामवेद का निरन्तर पाठ किया करते थे ॥ १२ ॥


१. ग्रस्त ॰॰॰ ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 55, कुल 709 में से · BharatKosha