भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 553, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 553
५१४कादम्बरी-[ कथायाम्-

च्चास्य मनसि—'एवं नामायम्^१ अप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदने- नाभिभूता महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः^२ सद्यो जीवितं जहति^३ सर्वथा नमो भगवते^४ त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाये'ति ।

( समाप्तो महाश्वेतावृत्तान्तः )

पुनः पप्रच्छ चैनाम्—'भगवति ! सा तव^५ परिचारिका वनवासव्यसनमित्रं दुःखस- ब्रह्मचारिणी तरलिका क्व गता' इति ।

अथ साऽकथयत्—'महाभाग ! यन्मया कथितममृतसम्भवमप्सरसां कुलम्, तस्मा- न्मदिरेति नाम्ना मदिरायतेक्षणा^६ कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्व-कुल-मुकुट-कुड्मल-


मायुधो मदनः एवं नाम इत्थं किल अप्रतीकारः प्रतिक्रियारहितः अत एव दारुणो भीषणः दुर्विषहो दुःखेन सोढुं शक्यो वेगो जवो यस्य सः, कष्टः क्लेशकरः । यद्, यस्मात्, अनेन कुसुमायुधेन आभिभूता आक्रान्ता महान्तोऽपि जनाः, अनपेक्षितकालक्रमा असोढकालक्षेपाः तथा समुत्सारितं कामेनेव दूरीकृतं धैर्यं येषां ते तादृशाः सन्तः, सद्यस्तत्कालं जीवितं प्राणितं जहति परित्यजन्ति । त्रिभुवनेन त्रिविष्टपवासिना लोकेन अभ्यर्चितं पूजितं शासनमादेशो यस्य तस्मै, मकरकेतनाय मदनाय नमोऽस्तु ।

( समाप्तश्चायं महाश्वेतावृत्तान्तः )

'यद्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते' इति दर्परोक्तदिशा कादम्बर्या महाश्वेतावृत्तान्त एकपताकास्थानपातीत्यवधेयम् ।

अथ कादम्बरीवृत्तान्तोपक्रमः—

कादम्बरीवृत्तान्तं निरूपयितुं पुनः प्रश्नं कारयति—पुनरिति । एनां महाश्वेताम् । वनवासः अरण्यवसतिरेव व्यसनं विपत्तिः तत्र मित्रं सहायकीभूता तथा दुःखे सब्रह्मचारिणी समानतीर्थवासिनी समानक्लेशभोगिनीत्यर्थः ।

अथेति । अमृतसम्भवं पीयूषोत्पन्नम् अप्सरसां कुलमन्ववायः, यन्मया कथितं प्रागभिहितम्, तस्मात् कुलात्, मदिरा मद्यं तदुन्मादसोन्मादकत्वान्मदिरेति संज्ञा, मदिरावत् मत्तखञ्जनवत् आयते विस्तृते ईक्षणे नयने यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः....मद्यम्' इति शब्दकल्पद्रुमः ।

तस्या इति । अपि च, असौ ख्यातनामा, सकलस्य समग्रस्य गन्धर्वकुलस्य देवगायकवंशस्य मुकुटकुड्मलं किरीटाग्रमेव पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ पादौ यस्य सः, समस्तगन्धर्वराजचक्र-


शय्याके ऊपर बैठ कर वह महाश्वेताके वृत्तान्तके विषय में बारम्बार मन-ही-मन विचार करने लगा । इसके मनमें यह हुआ कि—'यथार्थमें इस क्लेशदायक कामदेवका वेग असहनीय है और प्रतीकार रहित होनेसे बड़ा भयंकर है। क्योंकि इसके आक्रमण करने पर प्रधान व्यक्ति भी कालविलम्ब सहन करनेमें समर्थ नहीं होते; उनके भी धैर्य नष्ट हो जाते हैं, तत्काल ही वे जीवनका त्याग कर देते हैं, अतएव त्रिभुवनके लोग जिसके आदेशकी पूजा करते हैं, उस भगवान् कामदेवको सब प्रकारसे नमस्कार है ।'

[ यहां महाश्वेताका वृत्तान्त समाप्त हुआ ]

फिर उस (चन्द्रापीड) ने महाश्वेतासे पूछा—'माहात्म्यशालिनि ! वनवासरूपी विपत्तिके समय की सहाय और दुःखभोगकी सहचरी आपकी वह परिचारिका तरलिका कहाँ गई ?

तदनन्तर महाश्वेता बोली—'महाभाग, मैं आपसे पहले कह चुकी हूँ कि, अमृतसे एक अप्सराओंका वंश उत्पन्न हुआ है, उस वंशमें मत्त-खञ्जनके समान नेत्रोंवाली मदिरा नामकी एक कन्या उत्पन्न हुई । समस्त गन्धर्व-


१. एवमयम् । २. समवधारितधैर्याः । ३. जहाति । ४. सकलत्रिभुवन । ५. त्वत्परि । ६. मदिरायतेक्षणा ।