भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 567, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 567
५२८कादम्बरी-[ कथायाम्-

सकलप्रदेशम्१, शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव२, कुमारः कुमारीपुराभ्यन्तरं ददर्श।

अतिबहुलतया च तस्य कन्याकाजनस्य समन्तादाननद्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयोमिव क्रियमाणामवनीम्, अनिभृत३-भ्रूलताविभ्रमैः काम-कार्मुक-विलास-शतानीव४ प्रचलितानि, शिरसिंजकलापान्धकारैर्बहुलपक्ष-प्रदोष-सार्थानिव सम्बध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान् सञ्चरतः, श्वसितानिल-परिमलैर्मलयमारुतानिव परिश्रमतः, कपोलमण्डलालोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि

शृङ्गारेति। शृङ्गारमयमिव सम्भोगमयमिव, सौन्दर्यमयमिव रूपातिशयमिव, सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव, कुसुमशरमयमिव कामबाणमयमिव कुतूहलमयमिव कौतुकमयमिव, सौकुमार्यमयमिव, मार्दवमयमिव ददर्श अवलोकयामास। एषु सर्वेषु व्याप्तौ मयट्प्रत्ययविधानात्तस्याश्च क्रियारूपत्वेनोत्प्रेक्षालङ्कारः।

अतिबहुलेति। किञ्च, चन्द्रापीडः, तस्य कन्याकाजनस्य अतिबहुलतया अत्यन्ताधिकतया कारणेन, आननद्युतिभिः तस्यैव कन्याकाजनस्य मुखकान्तिभिः करणैः, समन्तात् सर्वतः इन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव 'अद्राक्षीत्' इत्युत्तरेण सम्बन्धः इत्थमम्यत्रापि।

इहाननद्युतिप्रसरणेषु इन्दुबिम्बवर्षणोत्प्रेक्षणात्क्रियोत्प्रेक्षा, तेन च वदनानामिन्दुमण्डलसादृश्यं प्रतीयत इत्यलङ्कारेणालङ्कारध्वनिरूह्नेयः। इत्थमन्यत्राऽप्यूहनीयम्।

अपाङ्गेति। अपाङ्गविक्षेपैः कटाक्षपातः, अवनिं पृथिवीम्, चलितं कम्पितं कुवलयवनं नीलोत्पल-समूहः तन्मयीं क्रियमाणां विधीयमानामिव। क्रियोत्प्रेक्षा।

अनिभृतेति। अनिभृताः स्फुटा ये भ्रूलतयोर्विभ्रमा नर्त्तनानि तैः प्रचलितानि शरप्रक्षेपगाय स्पन्दनरूपाणि कामकार्मुकस्य मन्मथचापस्य विलासशतानीव विभ्रमसमूहानिव। इह जात्युत्प्रेक्षा। तथा चक्रावसाम्यादुपमानोपमेयभावः।

शिरसीति। शिरसिजकलापाः केशसमूहा एव श्यामलत्वसादृश्यादन्धकाराः तैः सम्बध्नतः सम्मिलतः, बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थानिव रजनीमुखसमयसमूहानिव। इह निरङ्गं केवलरूपकम्, जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः। 'सङ्घसङ्घातपुञ्जौघसार्थयूथकदम्बकाः' इति भागुरिः।

स्मितेति। स्मितप्रभाभिः ईषद्धास्यकान्तिभिः, सञ्चरतः व्रजतः उत्फुल्लकुसुमधवलान् विकसितपुष्पश्वेतान् वसन्तदिवसान् सुरभिवासरानिव। जात्युत्प्रेक्षा।

श्वसितेति। श्वसितानिलस्य निःश्वासवायोः परिमलैः सौरभैः परिश्रमतः सञ्चरतः मलयमारुतानिव दक्षिगानिलानिव। उक्तोलङ्कारः।

कपोलेति। कपोलमण्डलानां गण्डसमूहानाम् आलोकैः दीप्तिभिः स्फुरितानि प्रसारतानि माणिक्यदर्पणसहस्राणीव रत्नादर्शदशशतानीव। उक्तोलङ्कारः।


द्वारा ही मानों समस्त प्रदेश लीपा हो एवं मानों वह शृङ्गार-मय हो, सौन्दर्य-मय हो, सम्भोग-देवता-मय हो, मदन-बाण-मय हो, कौतुक-मय हो, आश्चर्य-मय हो, सौकुमार्य-मय एवं [ प्रेम-मय ] हो—ऐसा वह प्रतीत होता था। उसने और भी वहाँ—कन्याओंके अगणित संख्या होनेके कारण सम्मस्त दिशाओंमें ही उनके मुखकी शोभासे मानों चन्द्रमण्डलोंकी वर्षा होती हो; उनके कटाक्ष-पातसे भूमि मानों चलित-नीलोत्पल वनमय होती हो; स्पृष्टरूपमें भ्रूलताओंके नर्त्तनसे बहुतुर कामधनुप ही मानो भ्रमित होता हो; केशकलाप-रूप अन्धकारके रहनेसे कृष्णपक्षके असंख्य प्रदोष-काल ही मानों सम्मिलित हुए हों, ईषद् हास्यके प्रभा-प्रकाशसे कितने वसन्तकालके दिन ही मानो विकसित पुष्पसे धवलवर्ण होकर विचरण करते हों, निःश्वास वायुके परिमलसे मलयाचलका वायु ही मानों परिभ्रमण करती हो; कपोलमण्डलोंके प्रभा-प्रकाशित होनेसे मानो असंख्य मणिनय दर्पण ही दीप्त होते (जगमगाते) हों; पाणितलकी रक्तिमा (हथेलियोंके लाल रंग) से जीवलोक मानों रक्त-


१···प्रवेशम्। २. प्रेममयमिव। ३. अभिनिभृत···। ४. कामकार्मुकबनानीव, शतानि, विलासता। ५. केशनि।