कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 57, कुल 709 में से
संदर्भ में पढ़ें८ | कादम्बरी- | [ कथामुखे-
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् ।
अवाप मध्ये स्फटिकोपेलामलं क्रमेण कैलासमिव क्ष्माभृताम् ॥ १६ ॥
महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः ।
द्विषन्मनः प्राविविशुः कृतान्तरा गुणान्नृसिंहस्य नखाङ्कुशा इव ॥ १७ ॥
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकणॆतमालपल्लवः ।
चकार यस्याध्वरधूमसञ्चयोः मलीमसः शुक्लतरं निजं यशः ॥ १८ ॥
प्राप्तोच्छया विहितानेकयज्ञैरनायासेन तत्प्राप्तिमवश्यंभाविनीं कृतवानिति निष्कर्षः। इह कार्येण हस्ति-सैन्यैरन्यदेशविजयिनः कस्यचिद्राज्ञो व्यवहारसमारोपात् समासोक्त्यलङ्कारः, स च पूर्णोपमयाऽनुप्राणि-तेति भावुकः ॥ १५ ॥
स इति। सः अर्थपतिः क्रमेण सुतोत्पत्तिपरम्परया क्ष्माभृतां पर्वतानां मध्ये स्फटिकोपलैः स्फटिकमणिभिः अमलं स्वच्छं कलङ्करहितमित्यर्थः। कैलासमिव क्ष्माभृतां क्षान्तिगुणयुक्तानां महात्मनां जितेन्द्रियाणां महामनीषिणां श्रुतिशास्त्रशालिनां वेदशास्त्राध्यापकानां सुतोत्तमानाम् उत्कृष्टारमजानां मध्ये चित्रभानुं चित्रभानुनामानं तनयम् आत्मजम् अवाप लब्धवान्। ‘क्षितिक्षान्त्योः क्ष्मा’, ‘आत्मज-स्तनयः सूनु’ इति चामरः। इहोपमा।
अर्थपतेरेकादश पुत्रा आसन्निति हर्षचरिते ग्रन्थकृता स्वयमेवोल्लिखितम्, तथाहि—‘सोऽजनयद् १. भृगं २. हंसं ३. शुचिं ४. कविं ५. महीदत्तं ६. धर्मं ७. जातवेदसं ८. चित्रभानुं ९. लघम १०. अहिदत्तं ११. विश्वरूपञ्चेत्येकादशरुद्रानिव सोमामृतरसशीकरच्छुरितमुखान् पवित्रान्’ इति। एवञ्चास्मिंश्चित्रभानु-रिति स्फुटमवगम्यते ॥ १६ ॥
महात्मन इति। सुदूरनिर्गता अधिकदूरदेशव्याप्ताः, पक्षे आधिक्येन नखराग्राद्बहिर्भूताः, कलङ्केन मृगलाञ्छनेन मुक्ता वर्जिता या इन्दुकला चन्द्रषोडशांशः तद्वत् अमला स्वच्छा स्विट् छविर्येषां ते, पक्षा-न्तरेऽप्येवमेव। तथा कृतं स्वप्रभावात्रिष्पादितम् अन्तरं प्रवेशावकाशो यैस्ते, पक्षे तु कृतम् अन्तरं भेदः यैस्ते; ‘अन्तरमवकाशावधिपरिधानान्तर्भेदातदर्थ्ये’ इत्यमरः। यस्य महात्मनः महान्बुद्धिमत्तः चित्रभानो-र्गुणाः दयादाक्षिण्यादयः अपिपदाध्याहारेण पितुस्तुल्या अपि नृसिंहस्य नृसिंहस्वरूपधारिणो विष्णो नखा-ङ्कुशाः सूनिवद्विस्तृताः ‘अङ्कुशोऽस्त्री सृणिः स्त्रियाम्’ इत्यमरः, नखारः पुनर्भवा इव द्विषतां शत्रूणां मनोऽपि पक्षे द्विषतो वैरिणो हिरण्यकशिपोः मनोऽन्तः करणं वक्षश्च प्राविविशुः प्रवेशं विदधुः यद्गुणा वैरिणामपि चित्ताकर्षकाः, तत्प्रभावः कथं वर्णनीयः ? इत्याशयः। साधारणधर्मादिसद्भावात्पूर्णोपमालङ्कारः ॥ १७ ॥
दिशामिति। दिशां पूर्वांदीनां वधूस्वरूपाणामिति यावत्, अलीकेषु ललाटदेशेषु ‘अलीकमप्रिये भाले’ इति हैमः, ये अलकाश्चूर्णकुन्तलाः तेषां भङ्गतां रचनाविशेषत्वं गतः। त्रयी वेदत्रयी ऋग्यजुःसामरूपे-त्यर्थः सैव वधूः स्नुषा तस्याः कर्णे श्रवणे तमालपल्लवः तापिच्छद्रुमकिसलयरूपः, स्थलद्वयेऽपि प्राकृतिक श्यामस्वरूपत्वादित्याशयः ‘तापिच्छोऽपि तमालः स्यात्’ इत्यमरः। मलीमसः प्राकृतिकमलिनोयस्य चित्रभानोः
अन्त में उनके क्षमाशील, महानुभाव तथा वेदशास्त्रों में पारंगत कई पुत्ररत्नों में पर्वतों के बीच स्फटिक मणियों से अत्यन्त निर्मल कैलास पर्वत के समान चमकते हुए गुणों से अत्यन्त उत्कृष्ट चित्रभानु नाम के पुत्र उत्पन्न हुए ॥ १६ ॥
चन्द्रकलाओं जैसी अपनी कोरों से दूर तक निर्मल कान्ति बिखेरते हुए शत्रु के हृदय को फाड़कर उसमें प्रविष्ट हो जानेवाले भगवान् नृसिंह के नखरूपी अंकुशों के समान उस महानुभाव के दूरतक विस्तृत, निष्कलंक तथा चन्द्रकलाओं जैसे उज्ज्वल कान्तिवाले गुणों ने विरोधियों के हृदयों को भी खोजकर उसमें अपना स्थान बना लिया था ॥ १७ ॥
जैसे कामिनियों के ललाट पर रची हुई घुँघराली केशरचना तथा नवोढ़ा के कान में लगी हुई तमालपल्लवों की रेखा स्वभावतः साँवली होती हुई भी शोभा में अत्यन्त निखर उठती है, उसी प्रकार दिशाओं की छोरों पर इधर-उधर बिखरी हुई एवं आकाश में लगी हुई यश के धुँओं की टेढ़ी-मेढ़ी रेखाओं ने स्वभावतः काली होकर भी अपनी शोभा को अत्यन्त उज्ज्वल बना दिया था ॥ १८ ॥
१. स्फटिकोपलोपमम् । २. नखाङ्कुरा । ३. मलीमसम् ।