भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 571, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 571

५३२ कादम्बरी- [ कथायाम्-

तस्य चैवंविधस्य १किञ्चिदभ्यन्तरमतिक्रम्य इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यास- न्नस्य परिजनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि—'लवलिके ! कल्पय केतकी- धूलिभिर्लवलीतन्नालवालमण्डलानि । २सारसिके ! गन्धोदक-कनक-दीर्घिकासु३ विकिर रत्नबालुकाम् । मृणालिके ! कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्च्छुरय ४यन्त्रचक्रवाकमिथु- ५नानि । ६मकरिके ! कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके ! ७तमाल-वीथिकान्ध- कारेषु निधेहि ८मणिप्रदीपान् । कुमुदिके ! स्थगय ९शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमी- फलानि । निपुणिके ! १०लिख ११मणिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके ! परा-


स्यैव भङ्ग इति कियदाश्चर्यकरस्त्वभवदेवेत्याशयः, अतएव 'अति'पदप्रयुक्तिरपि सङ्गता भवतीत्यवधेयम् । अनेन मध्यभागानामत्यन्तकृशत्वं सूच्यते । इहापि प्रत्येकवाक्य एव असम्बन्धे सम्बन्धरूपातिशयोक्तिर्ज्ञेया ।

तस्येति । तस्य कुमारीपुरस्य । परिभ्रमतः पर्यटतः कादम्बर्या गन्धर्वराजपुत्र्याः प्रत्यासन्नस्य सर्वदा समीपवर्तिनः । शुश्राव आकर्णयामास चन्द्रापीड इति शेषः ।

तथाहीति । 'लवलिके !' इति कस्याश्चित् सम्बोधनम् । एवमग्रेऽपि यथायोगं समुन्नेयम् । केतकीधूलिभिः केतकीपुष्परजोभिः, लवलीलतानां लवलीवल्लीनां यानि आलवालानि आवापाः तेषां मण्डलानि उपरि वेष्टनानि कल्पय रचय 'आवापो भाण्डपचने परिवेषालवालयाः' इति रामाश्रमी ।

सागेति । गन्धोदकं सुरभिजलं तेन पूर्णेपु कनकदीर्घिकासु सुवर्णपट्टवेष्टितखातवापीषु रत्नवालुकां मणिसिकतां विकिर विक्षिप ।

मृनेति । कृत्रिमकमलिनीषु कृत्रिमपद्मजमयदीर्घिकासु कुङ्कुमरेणुमुष्टिभिः यन्त्रचक्रवाकमिथुनानि कृत्रिमयन्त्रात्मकचक्रवाकद्वन्द्ववृन्दान् छुरय रक्षय ।

मकेति । कर्पूरपल्लवयोः घनसारकिसलययोः रसेन द्रवेण, अधिवासय अधिकसुगन्धीनि विधेहि ।

रजेति । तमालवीथिकानां तापिच्छवृक्षपङ्क्तीनाम् अन्धकारेषु तिमिरेषु देशेषु मणिप्रदीपान् रत्नप्रदीपान् निधेहि स्थापय ।

कुमुदीति । शकुनिकुलरक्षणाय पक्षिसमूहानिवारणाय मुक्ताजालैः मुक्तासमूहैः दाडिमीफलानि स्थगय आच्छादय ।

निपुणीति । मणिशालभञ्जिकाः रत्नरचितस्त्रीपुत्तलिकाः तासां स्तनेषु कुचेषु कुङ्कुमरसैः कुङ्कुमद्रवैः पत्रभङ्गान् पत्रावलीः लिख चित्रीकुरु ।

उत्पेति । कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहस्य उद्यानस्थरम्भा मण्डपस्य मरकतवेदि-


आश्चर्य-जनक नहीं था।

इस प्रकारके कन्यान्तःपुरके थोड़ा भीतर जाने पर उसने कादम्बरीके समीप रहनेवाली—इतस्ततः विचरण करती—परिचारिकाओंके विविध प्रकारके मनोहर आलाप श्रवण किया । जैसे—'अरी लवलिके ! केतकी-पुष्पके परागसे लवली-लताओंके आस पास आलवाल ( क्यारी ) के ऊपर मण्डल ( गोलाकार भित्ति ) निर्माण कर; सागरिके ! सुगन्धितजलसे परिपूर्ण सुवर्णमय रत्नकी रेती बिछा; अरी मृणालिके ! कृत्रिम-पद्ममय सरोवरमें जो समन्त यन्त्रमय ( कलके ) चक्रवाक और चक्रवाकी हैं, उनपर कुङ्कुमकी झुकनी मुट्ठी भर भर कर रक्षित कर; मकरिके ! कर्पूरके जल और पल्लवके रस डालकर गन्धद्रव्यके पात्रोंको सुवासित ( सुगन्धित ) कर, रजनिके ! तमाल-वृक्षोंकी अंधेरी पंक्ति ( कुञ्ज ) में मणिमय प्रदीपोंको रख; अरी कुमुदिके ! पक्षियोंसे रक्षा करने ( बचाने ) के लिए दाड़िमफलों ( अनारों ) को मोतियोंकी जालियोंसे आच्छादित कर दे; अरी निपुणिके ! मणि-मय पुत्तलिकाओं ( पुतलियों ) के कुचमण्डल पर कुङ्कुमरससे फूलपत्ते चित्रित कर दे; उत्तलिके ! स्वर्ण-सम्मार्जनी


१. ०न्तरमवक्रम्य । २. सारसिके । ३. गन्धोदकदीर्घिकासु, कनकनदिकासु । ४. क्षोद ।
५. क्वचित् 'यन्त्र'पदं नास्ति । ६. युग्लानि । ७. मन्दारिके००। ८. भवनतमाल००भवनदीर्घिकातमाल ।
९. मणिदीपान् । १०. रक्षणार्थन् । ११. लेखय । १२. मणिस्तम्भा००।