कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 578, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ४३६
रागातिरेकेणावधिष्टितमर्वाङ्गीम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तमपि मन्मथा- वेश-परवशेनैव गृह्यमाणां यौवनेन, अविचलित-चरणराग-दीधितिभिरिव निर्गताभिः अलक्त- करसपाट लित-लावण्यजल-वेणिकाभिरिव गलिताभिः, निवसित-रक्तांशुक-दशा शिखाभिरिव अवलम्बिताभिः, पादाभरण-रक्तांशुलेखा-सन्देहदायिनीभिः, अतिकोमलतया नखविवरेण वमन्तीभिरिव रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां क्षितितलतारागणमिव नखमणिमण्डल- मुद्वहद्भ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्त्तयन्तीम्, नूपुर-मणि-किरणचक्रवालेन गुरु-
गृहीतैरिव विद्यमानैः, अधिष्ठितानि आश्रितानि सर्वाणि समन्तानि अङ्गानि अवयवा यस्याः ताम् । ध्वज- वज्रादिचिह्नानि यानि तस्यास्तत्तदङ्गेषु विद्यन्ते, तान्यपि कादम्बर्यामासक्तिवशादाश्रितानीति क्रियोत्प्रेक्षा। अनेन सर्वसुलक्षणसम्पत्त्वं सूचितम् ।
अकृतेति । न कृतं विहितं पुण्यं सुकृतं येन तमिव, बालभावं शैशवं मुञ्चन्तीं त्यजन्तीम् । इह भावा- भिमानिनी क्रियोत्प्रेक्षा । सुकृतं विना कादम्बर्याः कायस्पर्शोऽपि न भवतीति सूचितम् ।
अदत्तमिति । अदत्तमपि जनकादिभिरसमर्पितमपि मन्मथावेशपरवशेनैव कामावेगपरावशीनेन सता यौवनेन तारुण्येन स्वयमेव गृह्यमाणां स्वीक्रियमाणाम्, कामावेगपरवशा हि पित्रादिसमर्पणस्य प्रतीक्षां न विदधते । परमार्थतस्तु यौवनं कामावेगपरवशं भवत्येव स्वाभाविकम् । गुणोत्प्रेक्षा। तादृश्याद्रमश्च व्यञ्जितः।
अविचलितेति । इह तृतीयाबहुवचनान्तानि पदानि अग्रेतनस्य 'अङ्गुलीभिः' इत्यस्य विशेषणानि । निर्गताभिः पादरागादेव प्रकर्टिताभिः अविदलिता निष्क्रान्ताः चरणयोः पादयोः रागस्य लौहित्यस्य या दीधितयः किरणाः ताभिरिव विद्यमानाभिः, सर्वत्र लौहित्यसादृश्यादियदाशयः । जात्युत्प्रेक्षा । गलिताभिः चरणद्वयादेव स्यन्दिताभिः, अलक्तरसेन यावकद्रवेण पाटलीतं आरक्तीकृतं यत् लावण्यमेव निरति- शयसौन्दर्यमेव जलं तस्य वेणिकाभिः धाराभिरिव विद्यमानाभिः । इह जात्युत्प्रेक्षा सा च निरङ्गकेवलरूप- केण सङ्कीर्णा । अवलम्बिताभिः, लम्बनानाभिः, निवसितं परिधानीकृतं यत् रक्तांशुकं लोहितवसनं तस्य दशाशिखाभिः वस्त्राग्रैरिव । वस्तुरुत्प्रेक्षा । पादाभरणानां चरणपरिहितनूपुराणां या रक्तांशुलेखा लोहि- तदीधितिश्रेणी तस्याः सन्देहं भ्रमं ददतीति ताभिः । इह भ्रान्तिमान् । अतिकोमलतया अत्यन्तमुदुल- तया कारणेन नखविवरेण नखान्तरेण करणेन रुधिरधारावर्षं रक्तप्रवाहवृष्टिं वमन्तीभिः उद्गिरन्तीभिः इतिविद्यमानाभिः । क्रियोत्प्रेक्षा । एवंविधाभिः अङ्गुलीभिः तादृशाक्ताभिः उपेताभ्यां युक्ताभ्याम्, नखस्य पृथिवीतलस्य तारागणमिव नक्षत्रमण्डलमिव वर्तुलोञ्चलत्वसादृश्यादियाशयः, नखमणि- मण्डलं नखाख्यद्रौणिपुञ्जरत्ननिकरम्, उद्वहद्भ्यां धारयद्भ्याम्, चरणाभ्यां पादाभ्यां करणाभ्याम्, विद्रुमर- मस्य प्रवालगिर्याख्यस्य नदीं सरितं प्रवर्त्तयन्तीम् अवतारयन्तीमिव विद्यमानां कादम्बरीम् । तथा च 'चर- णाभ्यां विद्रुमरसनदीमिव प्रवर्त्तयन्तीम्' इति विशेषणवाक्यास्यायं निर्गलितोऽर्थः—कोमलरक्तयोश्चरणयोः अरुणा प्रभा मन्दवान् प्रसरति अत एव विद्रुमरसनदीप्रवर्त्तनस्योत्प्रेक्षा । पादौ च अङ्गुलीभिस्तेनैव, अङ्गुष्ठ- यश्च पादरागरुचिना इव, लावण्यजलवेणिका इव इत्यादिनिश्शेषवार्तानिर्गजित इत्यहो कवयितुश्चातुर्य्यम् ।
नूपुरेति । गुर्वीः बृहत्यः निस्रवन्त्यः कटिपश्चाद्भागयोः मदेन भारेण चिन्नं क्लान्तं यत् ऊरुयुगलं
(रक्षक) से उसकी सेवा करते थे; समस्त शुभलक्षण भी उसमें अवशेष रूपपर था मानों उसके समस्त अवयवोंमें अधिष्ठित (आबद्ध) हुए थे; शैशवावस्था ने पुण्य नहीं किया है इसलिए ही मानों उसने उनका परित्याग कर (छोड़ दी थी; पिता-माताके द्वारा दान नहीं किए जाने पर भी, मन्मथकाल के आवेश से ही मानों पराधीन हो- कर मानों अपने से ही उसका ग्रहण किया था; चरणोंको स्थिर रक्तिमा (रंग) की किरणों मान बाहर निकलती थीं, अलक्तक-रस-रंजित (अलता, महावर के रस से युक्त हुए) लावण्यजलकी धारा बहती हो, पूर्व परिहित (पहने हुए) रक्ताम्बरकी किनारीके अग्रभाग (पल्लीकी कोरें) मानो लटकता हुआ हो, ऐसे पादाभरणोंमेंसे निसृत होती-लालवर्ण किरणोंकी लताओका भ्रम उत्पन्न कराती और अत्यधिक कोमल होनेके कारण नखान्द्रद्वारा मानो रुधिरधारा वमन करती (उगलती) अंगुलियोंवाले भूतलके नक्षत्रसमूहके समान नखमणि-मण्डलको संवह्नित चरणोंसे वह मानो प्रवालनदीके रसकी एक नदीकी सृष्टि करती थी; उसके नूपुरोंके मणियोंमेंसे निकलने किरणों-
१. ०मर्वाङ्गाम्, सर्वत्रैववत् ।
२. गलिताभिय, विनिसृताभिः
३. निर्गमितम्...
४. ददातिरिति ।
५. वामिनीभिरिव ।
६. बहुभिर्मिः ।