भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 579, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 579
५४०कादम्बरी-[ कथायाम्-

नितम्ब-भर-खिन्नोरुयुगलं-सहायतामिव कर्तुमुद्गच्छता स्पृश्यमानजघनभागाम्, प्रजापति-कर-दृढ-निपीडित॑-मध्यभाग-गलितं जघन-शिलातल-प्रतिघाताल्लावण्य॑स्रोत इव द्विधागत-मूरुद्वयं दधानाम्, सर्वतः प्रसारित-दीर्घ-मयूख-मण्डलेनेर्ष्यया परपुरुषदर्शनमिव निरुन्धता³ कुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचित-परिवेषाम्, निपतित-सकल-लोक-हृदय-भरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरित-मुख-दर्शन-दुःखेनैव क्षीयमाण-मध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्यात् अङ्गुली-

सखिद्वन्द्वं तस्य सहायताम् ऐकदेशिकनितम्बभारवहनेन साहाय्यम्, कर्तुं विधातुमिव उद्गच्छता ऊर्ध्वं वजता, नूपुरयोः पादकटकयोः मणिकिरणानां रत्नश्मीनां चक्रवालेन मण्डलेन स्पृश्यमानौ स्पर्शविष-यीक्रियमाणौ जघनभागौ जघनदेशौ यस्यास्ताम् । इह क्रियाफलोत्प्रेक्षा ।

प्रजापतीति । प्रजापतेः सृष्टिकर्तुः कराभ्यां हस्ताभ्यां दृढनिपीडितः रचनासमये नितान्तकृशत्वस-म्पादनाय अत्यन्तनियन्त्रितो यो मध्यभागः कटिदेशः तस्माद् गलितं प्रच्युतम्, अथ च जघनमेव ऊरु-रेव शिलातलं प्रस्तरमलं गुरुत्वात् कर्कशत्वाच्चेत्याशयः, तेन प्रतिघातात् कारणात् द्विधागतं द्विधाविभक्तं लावण्यस्रोत इव सौन्दर्यप्रवाह इव, ऊरुद्वयं जघनयुगलं दधानां धारयन्तीम् ।

इह घायुत्प्रेक्षा, सा च निरङ्गकेवलरूपकेन सङ्कीर्णा । अनेन च मध्यभागस्यातीव कृशत्वम् । जघनभागस्य गुरुत्वं कर्कशत्वञ्च, ऊरुद्वयस्य च लावण्यमयत्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।

सर्वत इति । सर्वतः प्रसारितं परितो विस्तारितं मयूखमण्डलं किरणसमूहो येन तेन, अतएव ईर्ष्यया परपुरुषदर्शनम् अन्यपुरुषावलोकनं निरुन्धतेव अवरोधं विदधतेव निजावरणादित्याशयः, कुतूह-लेन कौतुकेन विस्तीर्णस्यापि विस्तारं विशालं तन्वतेव विदधतेव निजरश्मिभिरित्याशयः, तथा स्पर्श-सुखेन संश्लेषानन्देन रोमाञ्चं पुलकं मुञ्चता त्यजंतेव निजरश्मिषु पुलकभ्रममुत्पादयतेत्यर्थः, काञ्ची-दाम्ना रशनागुणेन नितम्बबिम्बस्य विरचितो विहितः परिवेषः परिवेष्टनं यस्यास्ताम् ।

इह 'निरुन्धतेव' 'तन्वतेव' 'त्यजतेव' इति त्रिष्वेव क्रियोत्प्रेक्षालङ्कारः, 'रोमाञ्चम्' इत्यादौ वृत्त्यनु-प्रासश्छेकानुप्रासावलङ्कारावित्येतेषां परस्परं नैरपेक्ष्येण संसृष्टिः ।

निपतितेति । निपतितानि अत्यन्तरमणीयत्वादारूढानि सकलानां समस्तानां लोकानां जनानाम् यानि हृदयानि चेतांसि तेषां भरेण भारेणेव अतिगुरु अत्यन्तविशालो नितम्बो यस्यास्ताम् । इह हेतूत्प्रेक्षा ।

उन्नतेति । उन्नताभ्याम् उच्चाभ्यां कुचाभ्यां स्तनाभ्याम् अन्तरितं निजोच्चत्वाद् व्यवहितं यद् मुखदर्शनं वदनावलोकनं तस्य दुःखेनेव कृच्छ्रेणेव कारणेन क्षीयमाणः कृशत्वं प्राप्यमाणो मध्यभागः कटि-देशो यस्यास्ताम् । इहाप्युक्तालंकारः ।

प्रजेति । अतिसौकुमार्यात् कादम्बरीवपुषोऽतीवमार्दवत्त्वाद्धेतोः स्पृशतः सर्जनसमये दृघतः प्रजापतेः


विशाल नितम्बयुगलके भारसे खिन्न हुई जंघाओंकी मानो सहायता करनेके लिए ही—ऊँचे उठकर जघनस्थलका स्पर्श करती थी; उसके निर्माण करनेके समयमें विधाताके हाथसे अत्यन्त दबाव पाकर मध्यभाग (कमर) में से विगलित होकर (गल कर) गिरा, जघनरूपी शिलातलके प्रतिघात (टक्कर) से दो भाग में विभक्त हुआ लावण्य-स्रोतके समान हो ऐसे ऊरु-युगलको वह धारण की थी; चारों ओर दूर तक किरणें फैलाकर, ईर्ष्यावश मानो; पर-पुरुषके अवलोकनका निवारण करते, कौतूहलसे मानो और भी अधिक विस्तार उत्पन्न करते, और स्पर्शसुखद्वारा अपने किरणोंमें रोमाञ्च-भ्रमको मानो उत्पादन करते चन्द्रहारने उसके नितम्ब-बिम्बका परिवेष्टन कर रखा था । (आकृष्ट होकर) गिरे हुए सब लोगोंके हृदयके भारसे ही मानो उसके नितम्बमण्डल अत्यन्त भारी हो गए थे; उन्नत स्तनमण्डलके व्यवहित हो जानेके कारण, मुखका दर्शन न मिलनेके दुःखसे ही मानो उसका मध्यभाग (कमर) क्षीण हो गया था; शरीर अत्यन्त कोमल होनेके कारण, निर्माण करनेके समयमें स्पर्श करते हुए


१. सहायम्, सहायतन्द् । २. प्रजापतिदृढनिपीडित । ३. क्वचिदिह 'जल' इत्यधिकः पाठः । ४. तन्व्यता । ५. सौकुमार्याद् ।