कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 580, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ५४१
मुद्रामिव निमग्नां नाभिमण्डलीम्¹ आवर्त्तिनीमुद्वहन्तीम्, त्रिभुवन-विजय-प्रशस्ति-वर्णावली-मिव लिखितां मन्मथेन रोमराजिमञ्जरीं² बिभ्राणाम्, अन्तःप्रविष्ट कर्ण-पल्लव-प्रतिबिम्बेनाति-भरे³स्विद्यमानहृदय-करतल-प्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुख-कर्णाभरण-मयूखाभ्यामिव प्रसूताभ्याममल-लावण्य-जल-मृणाल-काण्डाभ्यां⁴ बाहुभ्यां नख-किरण-विसर-वर्षिणा च माणिक्यवलयगौरवश्रमवशात्⁵ स्वेदजल-धाराजालकमिव मुञ्च-ता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमानमाननमिवोन्नमयता हारेणोद्यैः⁶ करैर्गृहीत-
स्रष्टुः निमग्नां देहे प्रविष्टाम् अङ्गुल्या अङ्गुल्यस्य मुद्रां चिह्नमिव आवर्त्तिनीम् आवर्त्तवत् अम्भसां भ्रमिवत् मध्यगतौ यस्यास्तादृशीं नाभिमण्डलीम् उद्वहन्तीं धारयन्तीम् । जात्युत्प्रेक्षा ।
त्रिभुवनेति । मन्मथेन कामेन लिखितां 'सौन्दर्येणानया त्रिभुवनं विजितम्' इति कामदेवसदृशेन ( निर्णायकेन ) लिपीकृतामित्यर्थः स्वस्य त्रिभुवनविजयस्य प्रशस्तिवर्णावलीम् आत्मप्रशंसावोधकाक्षर-पङ्क्तिमिव रोमराजिमञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । उक्तालंकारः ।
अन्तरिति । अन्तःप्रविष्टं निर्मलत्वादन्तर्गतं कर्णपल्लवप्रतिबिम्बं श्रवणकिसलयप्रतिच्छाया यस्य तेन अतिभरेण कुचयोरत्यन्तभारेण स्विद्यमानं पीड्यमानं हृदयं वक्षस्तेन कर्त्रा करतलेन ( हृदयपतितमेतद्वि-म्बमेव हृदयस्य करतलं तेन ) 'करणेन' प्रेर्यमाणेन नोद्यमानेन, अतएव च निष्पतता निःसरता, मकर-केतोः कामस्य पादपीठेनेव पदासनेनेव विद्यमानेन स्तनभरेण भारवत् कुचमण्डलेन भूषितां मण्डिताम् । अयमाशयः—स्रष्टु हृदयं कामपीठातितस्तनभारेण नितान्तं स्विन्नम्, अतएव कर्णपल्लवप्रतिविम्वरूपेण आत्मनः ( हृदयस्य ) करतलेन तत् ( स्तनरूपं कामपदासन्म् ) खेदभरासहनतया बहिर्निस्सार्यमाण-मस्ति, अतएव तु क्रमेण बहिर्निस्सरतीति । उक्तालंकारः अतएव हि कुचयोर्निर्मलत्वं कामोद्दीपकत्वं विशालत्वञ्च ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ।
अधोमुखेति । प्रसूताभ्यां सुदूरपर्यन्तं विस्तृताभ्याम्, अधोमुखयोः अवाङ्मुखयोः कर्णाभरणयोः सुवर्णरचितश्रवणालङ्कारयोः मयूखाभ्यां स्थूलरश्मिभ्यामिव विद्यमानाभ्याम् । उक्तालंकारः, अतएव च भुजयोर्निर्मलत्वं ध्वन्यते । तथा श्रमलं स्वच्छं यत् लावण्यमेव जलं तस्य मृणालकाण्डाभ्यां बिसदण्ड-रूपाभ्यां बाहुभ्यां भुजाभ्यां समुद्भासितां शोभितामिति सम्बन्धः । इह परम्परितरूपकम्, अतएव च भुजयोर्मार्द्दवत्वं प्रतीयते । तथा नखकिरणानां करशाखारश्मीनां विसरं समूहं वर्षति वृष्टिं करोतीति तेन, अतएव माणिक्यवलययोः रत्नमयकटकयोः गौरवेण उद्वहनभारेण यः श्रमः तद्वशात्, अनेन नितान्तको-मलत्वं ध्वन्यते, स्वेदजलधाराणां प्रस्वेदसलिलप्रवाहाणां जालकं समूहमिव मुञ्चता त्यजता करयुगलेन हस्तद्वयेन च समुद्भासितम् ।
इह नखकिरणसमूहे स्वेदसलिलप्रवाहसमूहत्वमुत्प्रेक्षितमिति जात्युत्प्रेक्षा ।
स्तनेति । स्तनयोर्वक्षोजयोः भारेण अवनम्यमानं नम्रत्वं नीयमानम् आननं मुखम् उन्नमयतेव उच्चैः कुर्वतेव विद्यमानेन, हारेण मुक्ताकलापेन कर्त्रा, उच्चैः उत्तोलितैः करैः रश्मिभिरेव हस्तैः करणैः, गृहीतः चिबुकदेशः अधराघोभागो यस्यास्ताम् ।
विधाताके मानो अङ्गुष्ठ का चिह्न जिसके भीतर निमग्न हो गया हो ऐसे-नदीके जलावर्त्तके समान-गोल नाभि-मण्डलको उसने धारण किया था; कामदेवने मानो अपने त्रिभुवन-विजयकी कीर्त्तिसूचक वर्णमाला लिखकर रखा हो इस प्रकारकी रोमपंक्तिको वह धारण करती थी; कामदेवके पादपीठके समान भारी उसका स्तन-युग—इस प्रकार बाहर निकल पड़ा था मानो कर्णपल्लवके प्रतिबिम्बका अन्तःप्रवेश हो जानेके कारण हृदय, अत्यन्त भारसे परिश्रान्त हो (थक) कर नीचे दब जानेसे, हस्तद्वारा उसको ठेल देता (सरकता) हो; उसके बाहु; मानो कर्णा-भरणके अधोमुख फैलती किरणोंके समान एवं निर्मल लावण्य-जलमें उगे मृणालदण्डके समान प्रतीत होते थे; नखोंमेंसे बरसते किरणोंके मेहसे उसके दोनों हाथ ऐसे दीखते थे मानो मणिनय-वलय (कङ्कण) पहननेके भारसे श्रान्त होकर घर्मजल (पसीने) की धारा गिराते हों; स्तनके भारसे अवनत हुए (नीचे झुके) मुखमण्डलको मानो फिरसे उन्नत (ऊँचा) करनेके लिए किरणमय हस्त उठा करके हार उसके चिबुकदेश (अधराधो भाग),
१. नाभिमण्डलम्, नाभित्थलीम् ।
२. रोमराजी ।
३. ॰॰॰मर॰॰॰ ।
४. ॰॰॰मृणालकान्त्यामिव, मृणालाभ्याम् ।
५. वहनश्रमात् ।
६. रुच्चैः ।