कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 584, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरीवर्णना ८६] चन्द्रकला-विद्योतिनीसहिता । ५४५
निर्गम-निवेदनागतामुद्यानपालीमशेषाभरणदानेन सम्मानयतीम्, उपनीत-विविध-वन-कुसुम-फल-पूर्ण-पत्रपुटामविज्ञायमानालापत्या हासहेतुं पुनः पुनः क्रीडापर्वत^१पात्-शबरीमालाप-यन्तीम्^२, करतलविनिहतैः^३ मुहुर्मुहुरुत्पतद्भिर्भु^४ मुखपरिमलान्वैर्नीलकन्दुकैरिव^५ मधुक़रैः क्रीडन्तीम्, पञ्जरहारीतक^६-रुत-श्रवण-कृत-दुष्टस्मितां चामरग्राहिणीं विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ताफल-खचित-चन्द्रलेखिका-संक्रान्तप्रतिमां^७ स्वेदजल-बिन्दुर्जाल-चित-नख-पदाभिप्रायेण ताम्बूलकरङ्कवाहिनीं पयोधरे^९ पटवासमुष्टिना ताडयन्तीम्,
आद्यो यः कुसुमनिर्गमः प्रसूननिस्सरणं तस्य निवेदनाय कथनाय आगतां प्राप्ताम्, उद्यानपालीम् उपवनरक्षाकारिणीम् अशेषाभरणदानेन समस्तालङ्कारप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् ।
उपनीतेति । उपनीतम् आनीतं विविधैः नानाप्रकारैः वनकुसुमफलैः अरण्यप्रसूनसस्यैः पूर्णं पत्रपुटं यया ताम्, अविज्ञायमाना आयन्तविरूपशब्दप्रचुरत्वाद्विशेषेणाप्रतीयमानार्थका आलापा भाषा यस्याः तस्या भावः तया कारणेन, हासहेतुं कुतूहलेन हास्यनिमित्तीभूताम्, क्रीडापर्वतं खेलागिरिं पाति रक्षतीति क्रीडापर्वतपात्री सा चासौ शबरी किरातपत्नी चेति ताम्, पुनः पुनर्भूयोभूयः आलपन्तीं कुतूहलविधानाय निजभाषां भाषयन्तीम् । अनेन कादम्वर्या निरतिशयकुतूहलप्रियत्वं प्रतीयते । प्राकृतपर्वते निवसन्ती शबरी मानवीं भाषां न जानाति, किन्तु कृत्रिमक्रीडापर्वतपालिकाऽपि निजभर्तुर्भाषां न ज्ञायते इति कल्पनातिशयमेव महाकवेरिति विभावयन्तु सुधियः।
करतलेति । नीलकन्दुकैरिव श्यामवर्णगेन्दुकैरिव करतलाभ्यां हस्ततलाभ्यां विनिहतैः दूरीकरणाय उत्दोलनाय च ताडितैः, अतएव मुहुर्मुहुः वारंवारम् उद्दडयनं कुर्वद्भिः, मुखस्य वदनस्य परिमलेन आमोदेन अन्धैः मत्तैः, मधुक़रैर्रभ्रमरैः क्रीडन्तीं खेलन्तीम्।
इह 'नीलकन्दुकैरिव' इत्युपमा, ज्ञनया च तथाविधभ्रमरैः क्रीडनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः सङ्कीर्यते । तया च तद्वदनस्य निरतिशयामोदवत्वं प्रतीयते ।
पञ्जरेति । पञ्जरे पञ्जरबन्धनगृहे विद्यमानो हारीतको 'हरियाल' इति लोकप्रसिद्धः पक्षिविशेषः तस्य रुतश्रवणेन कूजनाकर्णनेन कृतं विहितं दुष्टं निन्दासूचकं स्मितं यया ताम्, चामरग्राहिणीं बालव्यजनधारिणीं विहस्य हास्यं विधाय शिरसि मस्तके लीलाकमलेन लीलापद्मेन विघट्टयन्तीं ताडयन्तीम् । अनेन तस्या अन्यनिन्दया विरक्तिर्ध्वन्यते ।
मुक्ताफलेति । मुक्ताफलैः रत्नोद्भवैः खचिता उपरि सम्बद्धा या चन्द्रलेखिका लघुचन्द्राकृतिः आभूषणविशेषः तस्याः सकाशात् सङ्क्रान्ता स्तनमण्डले एव पतिता प्रतिमा प्रतिच्छाया यस्यास्ताम्, ताम्बूलकरङ्कवाहिनीं नागवल्लीदलपिटिकाधारिणीम्, स्वेदजलबिन्दुजालेन घर्मसलिलकणसमूहेन चितं व्याप्तं यत्त नखपदं कामुककृतनखक्षतं तदभिप्रायेण तदाशयेन तत्सम्भावनां व्यञ्जयित्वेत्यर्थः, पटवासमुष्टिना मुष्टिपरिमितरक्षपिष्टातकचूर्णप्रक्षेपेणेत्यर्थः, पयोधरे कुचमण्डले ताडयन्तीं विघटयन्तीम्, तद्दिहाच्छादनाभिप्रायेणेत्याशयः । लघुचन्द्रलेखाप्रतिच्छाया नखचिह्नसदृशी लघुमुक्ताप्रतिविम्बानि च स्वेदसलिलकण-
हो जिस लताको परिवर्धित की थी उसमें निकले हुए प्रथम-पुष्पको निवेदन करनेके लिए आई हुई उद्यानपालिका (मालिन) को वह नानाविध आभूषणोंको देकर सन्तुष्ट करती थी; क्रीडापर्वतकी रक्षा करनेके लिए जिसको नियुक्त किया था वह शबरी (भीलनी, म्लेच्छविशेष), नानाविध वन्यपुष्प और फलसे परिपूर्ण एक पत्रपुटक (पत्तोंकी दोनी) को लेकर उपस्थित हो निवेदन करती थी, किन्तु उसके कहनेके अभिप्रायको अच्छी तरहसे नहीं समझनेके कारण हँस-हँस कर वह उससे बार-बार बातें करती थी; हाथसे नीचे झटकार देने पर भी बारम्बार उड़कर ऊपर आते, मुख-सौरभसे अन्धे बने भ्रमरके साथ कन्दुक (काली गेंद) के समान क्रीड़ा करती थी; पञ्जरस्थित हारीतका शब्द सुनकर निन्दासूचक हास्य करती अपनी किसी चामरधारिणीके मस्तक पर हँसती-हँसती लीलापद्मद्वारा ताड़न करती थी; ताम्बूलकरङ्कवाहिनीके कुचमण्डल पर उसकी ही मुक्तरचित चन्द्रलेखाका प्रतिबिम्ब पड़नेसे वहाँ घर्मबिन्दुसे परिपूर्ण नख-चिह्न जान कर मुष्टिपरिमित लोहितपिष्टातक (अबीर) चूर्ण लेकर वह उस
^१. ० पत्र- ०पर्वतका शबरीम्, पर्वतकापात् ०।
^२. आलपन्तीम् ।
^३. विनिहितैः ।
^४. अभिहतैर्मुहुरपसर्पद्भिरुपसर्पद्भिः ।
^५. नीलकन्दुकैरिव ।
^६. हारीतक.रुत ।
^७. लेखिकाप्रतिमा ।
^८. ०...जालश्चित ।
^९. स्तनतटे ।