कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 6, कुल 709 में से
संदर्भ में पढ़ेंप्रस्तावना
काव्यम्
'चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥'
इति दर्पणोक्तिदिशानार्यासेन काव्यस्यैव चतुर्वर्गफलप्रदत्वात्काव्यज्ञानमतीवावश्यकम् । तत्र काव्यस्य किं लक्षणम् (स्वरूपम्) इति विचारणायां सत्स्वप्यनेकेषु लक्षणेषु पण्डितराजानुमतं सर्वप्रसिद्धं लक्षणं 'रमणीयार्थप्रतिपादकः शब्दः काव्यम्' इत्येव रमणीयं प्रतिभाति । तथा च यत् खलु जनानां श्रवणपुटेषु सुधाधारां प्रवाहयत्, सहृदयानां मनसि कमप्यानन्दोल्लासं जनयत्, कामपि परां निर्वृतिं सद्यः सम्पादयत् सकलजनमनोज्ञं तत्काव्यमिति तात्पर्यम् । तच्च प्रधानतया दृश्यत्वेन श्रव्यत्वेन च द्विविधम् ।
दृश्यमभिनेयात्मकं लोके प्रसिद्धम् । श्रव्यं च पुनः पद्य-गद्यमयत्वेन द्विविधम् । तत्र छन्दोबद्धपद्यात्मकं श्रव्यकाव्यं च-'महाकाव्यम्' 'खण्डकाव्यम्' 'उपकाव्यम्' चेति भेदान्नानाविधम् । तथा चैतेषां लक्षणानि—
'नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रदूतप्रयाणादिनायकाभ्युदयैरपि ॥
एतैरुपनिबद्धं यत्तन्महाकाव्यमिष्यते ।
एषामष्टादशानां यैः कैश्चिन्न्यूनमपीष्यते ॥
सर्गबन्धो महाकाव्यमिति केचित्प्रचक्षते ।
असर्गबन्धमपि च महाकाव्यमितीष्यते ॥
यथा—नैषध-शिशुपाल-रघुवंशादिः ।
खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च ।
यथा—मेघदूत-ऋतुसंहारादिः ।
गीततालानुबद्धं यदुपकाव्यमितीष्यते ।
यथा—गीतगोविन्दादिरिति केचित् । तत्र पद्यं तु—
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।
इति भेदाद् द्विविधम्, तथापि वृत्तजात्योरनेकत्वात्पद्यस्यानेकविधत्वम् । तत्रापि परस्परसम्बद्धार्थत्वात्तादृशं पद्यमपि मुक्तादिसंज्ञाभेदेन प्रत्येकमनेकविधम् । यथा—
..................पद्येनेकेन मुक्तकम् ।
द्वाभ्यां तु युग्मकं संन्दानितकं त्रिभिरिष्यते ।
कलापकं चतुर्भिश्च पञ्चभिः कुलकं स्मृतम् ॥' इति ।
१. पादबद्धवृत्तात्मकम्, २. मधुरत्वादामृत्यादिकम्, ३. मात्रासंख्याता जातिरायादिः, ४. अस्यैव 'विशेषकम्, तिलकम्' इति नामान्तरे । ५. 'वकुलकम्' इति संज्ञान्तरम् ।