भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 7, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 7
प्रस्तावना

अपरे तु—

‘एकः श्लोको मुक्तकं स्याद् द्वाभ्यां युगलकं स्मृतम् ।
त्रिभिर्गुणवती प्रोक्ता चतुर्भिस्तु प्रभावकम् ।
बाणावली पञ्चभिः स्यात् षड्भिस्तु करहाटकः ॥’ इति ।

गद्यात्मकश्रव्यकाव्यं च—

‘आख्यायिका, कथा खण्डकथा, परिकथा तथा ।
कथालिकेति मन्यन्ते गद्यकाव्यं च पञ्चधा ॥’

इत्यग्निपुराणे पञ्चविधम् । दण्ड्यलङ्कारसंग्रहकारमते चेतरेषां खण्डकथादिभेदानां कथाख्यायिकयोर्मध्येऽन्तर्भावात्तद् द्विविधमेव । तथा चोक्तं काव्यादर्शे—

‘अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः । इति ।
( १-२८)

तत्र कथाख्यायिकयोर्लक्षणे काव्यादर्शे—

‘गद्यं तु गदितं द्वेधा कथा चाख्यायिकेति च ।
कथा कल्पितवृत्तान्ता, सत्यार्थाख्यायिका मता ॥’

अग्निपुराणे—

‘श्लोकैः स्ववंशं संक्षेपात्कविर्यत्र प्रशंसति ।
मुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् ॥
परिच्छेदो न यत्र स्याद् भवेद्वा लम्भकैः क्वचित् ।
सा कथा नाम, तद्गर्भे निबध्नीयाच्चतुष्पदीम् ॥’
(अ० ३३७ श्लो० १६-१७ )

कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् ॥
कन्याहरणसंग्रामविप्रलम्भविवपत्तयः ।
भवन्ति यत्र दीप्ताश्च रीतिवृत्तिप्रवृत्तयः ॥
उच्छासैश्च परिच्छेदो यत्र सा चूर्णिकोत्तरा ।
वक्त्रं चापरवक्त्रं च यत्र साख्यायिका मता ॥ ( ३३७-श्लो० १२-१५ )

साहित्यदर्पणे तु—

‘कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् ।
क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।
आदौ पद्यैर्नमस्कारः खलादेवृत्तकीर्त्तनम् ॥
आख्यायिका कथावत्स्यात् कवेर्वंशानुकीर्त्तनम् ।
अस्यामन्यकवीनाञ्च वृत्तं पद्यं क्वचित् क्वचित् ॥
कथांशानां व्यवच्छेद आश्वस इति बद्धयते ।
आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ।
अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् ॥’ इति । ( ६ परिच्छेद )

साहित्यलक्षणग्रन्थेषु कादम्बरी गद्यकाव्यं ‘कथा’^२ इति परिगण्यते ।

न चास्याश्चम्पूकाव्यत्वमाशङ्कनीयम्, गद्यम्, अनन्तरं पद्यम्, ततश्च गद्यमित्येवं क्रमेण यत्र तत्रैव तत्काव्यत्वोपगमात् । प्रकृते च तथास्थितेरभावात् । तथा चोक्तं चम्पूलक्षणम्—


१. कथाकाव्यं वर्त्तमानकालिक 'उपन्यास ( Novel )' स्थानीयमिति न विस्मर्त्तव्यम् ।
2. The Kadambari belongs to that class of prose composition which is Known as Katha or romance. ( Kale's Introduction to Kadambari, P. 29 )