भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 8, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 8

प्रस्तावना ७

'गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते।' इति।
न चाप्याख्यायिकात्वम्, तल्लक्षणासमन्वयात्।

तत्र गद्यं तु—

'वृत्तगन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च।
भवेदुत्कलिकाप्रायं चूर्णकञ्च चतुर्विधम्॥
आद्यं समासरहितं वृत्तभागयुतं परम्।
अन्यद्दीर्घसमासाढ्यं तुर्यञ्चाल्पसमासकम्॥' इति।

तत्राद्यं यथा—'यस्य मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, सृजौ भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, रूपे मनसिजेन, तेजसि सवित्रा चेति (कादम्बरी कथामुखम्)।

द्वितीयं यथा—अम्बिकाकरतलमिव रुद्राक्षग्रहणनिपुणम्, शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम, वडवानलमिव सततपयोभक्षणम्···जाबालिम्। (का० पृ० १३२)

तृतीयं यथा—उद्दामकेकारवानुमीयमानमरकतकृत्रिमस्थितशिखण्डिमण्डलम्, अतिशिशिरचन्दनविटपिच्छायानिषण्णनिद्रायमाणगृहसारसम्······राजकुलम्······(का० पृ० २७०)।

चतुर्थं यथा—'सप्तच्छदतरव इव कुसुमरजोविकारैरासन्नवर्त्तिनां शिरःशूलमुत्पादयन्ति। आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति। उत्कुपितलोचना इव तेजस्विनो नेक्षन्ते। कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते। (का० पृ० ३२७) इति भेदाश्चतुर्विधम्।

इह प्रसङ्गाद्गद्याविर्भावविषयं चैतिहासिकगवेषणादृष्ट्या पुरस्तान्निरूपयिष्यते। अत्र प्रथममिदं विचार्यते—यथार्थतो वैज्ञानिकमते गद्यपद्ययोर्योऽयं भेदो दर्शितः स नेति प्रतिपादयन्त्यालोचकाः। तथाहि—गद्येऽप्येकप्रकारेण छन्दसोऽनुभूतिस्तिष्ठत्येव। यद्यपि साऽक्षरगता मात्रागता वा न तिष्ठति तथापि स्वरपातेन तया शब्दानां लघुगुरुच्चारणेन नियमिताऽवश्यं तिष्ठति। एतादृशीनां छन्दसोऽनुभूतीनां च विशेषप्रकारं छन्दो गद्ये यदि न तिष्ठेत्तदा गद्यं श्रुतिकटु स्यात्। अत एवावगम्यते यत्पद्यमिव गद्यस्यापि रचनाप्रणाली निश्चितरूपेणास्तीति। कया रचनाप्रणाल्या गद्यं विरचनीयं येन तत्प्रभावशालि भवेदिति स्फुटतया वक्तुमशक्यम्। कठिनश्चास्य नियमः सूक्ष्मेक्षिकयाऽवगन्तुं शक्यः, अत एव पद्ये यथा रसानयनं सुलभं न तथा गद्ये। एतदनुसन्ध्यायैव कस्यचिद्विदुष उक्तिरियम्—

'गद्यं कवीनां निकषं वदन्ति'। इति

येन हि सरसं गद्यं निर्मितं स एव वास्तविककवित्वव्यपदेशभाग् भवति। अत एव चोक्तम्—

'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्।' इति।

शब्दानां तारतम्यभावो गद्यमधुरतायै तावानेवापेक्षितो यावान् पद्यनिर्मितये। रमणीयशब्दानां रमणीयक्रमेणैव स्थापनं कवितास्वरूपम्—'Poetry is the best words in their best order'। कोमलकान्तपदावली पद्यादपि गद्ये समधिकाऽपेक्षिता वर्त्तत इति तद्विदो जानन्ति।

संस्कृतं गद्यम्

सुरभारतीसमुपासकानां समेषां सहृदयानां सुविदितमेवास्ति यत् आर्यजातेः साहित्येषु गद्यस्य प्रथमावतारोऽस्माकं सुरभारतीभाषायामेव समजनि। गद्यस्य प्रथमदर्शनं तु वैदिकसंहितास्वेव भवति, गद्यमिश्रितत्वादेव कृष्णयजुर्वेदस्य कृष्णत्वमुपपद्यते इत्यैतिहासिकाः। अस्य वेदस्यैव तैत्तिरीयसंहितायां प्राचीनतमगद्यस्योदाहरणं दरीदृश्यते। अस्याञ्च संहितायां पद्यवन्धापेक्षया कथमपि गद्यबन्धो न न्यूनतमः। अस्यैव वेदस्य काठकमैत्रायण्यादि -संहितासु प्रचुर रूपेण गद्योपलब्धिर्दृश्यते। एवमेवाथर्ववेदस्य षष्ठो भागः गद्यात्मक एव विद्यते। समस्तब्राह्मणग्रन्थानामाविर्भावो हि गद्यरूप एव, यज्ञानां वर्णनात्मकत्वेनैतद्रूपस्यैव युक्तत्वात्। तथोपनिषत्सु हि प्राचुर्येण गद्यान्येवोपलभ्यन्ते। एनेन वैदिकसाहित्येषु गद्योपलब्धिरधिकतरव्यापकरूपेण दृष्टिपथमवतरति, एतदपेक्षया लौकिकसंस्कृतग्रन्थेषु गद्योपलब्धिर्नाममात्रैवेति स्पष्टं वक्तुं शक्यतेऽस्माभिः।