भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 9, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 9

प्रस्तावना

दर्शनसूत्रप्रणेतॄणां तद्भाष्यकर्त्तॄणाञ्च समये गद्यलेख एव प्राचुर्यमविन्दत, किन्तु सा शैली दार्शनिकीं धारामन्वसरत् न काव्यकमनीयाम्। ततः पञ्चधर-गदाधर-प्रभृतिसमयात् प्रचलिते शास्त्रार्थयुगेऽवच्छेदकताच्छन्नैः समासाच्छन्नैश्च पदस्तत्कैरैव व्याप्रियत संस्कृतगद्याङ्गणमिदम्। व्याकरणमहाभाष्येऽवलोकितेभ्यः वासवदत्ता-सुमनोत्तराभैमरथीत्यादिकाख्यायिकाभ्यश्च बहोः कालात्पूर्वमेव गद्यकाव्यानां प्रादुर्भाव आसीदिति वक्तुं शक्यते, ता न साहित्यनियमानुसारिण्य इत्याचक्षते आलोचकाः। तत्र च व्यापकरूपेण गद्यस्योपलब्धिर्दृश्यते, किन्तु ज्योतिषवैद्यकादिग्रन्थेषु गद्यावलोकनं सुदुर्लभमेव सञ्जातम्। यद्यपि चरकसंहितायां यत्र तत्र गद्यांशः समुपलभ्यते तथापि तच्छास्त्रीयान्यान्यग्रन्थानां छन्दोबद्धत्वमेवावलोक्यते। ज्योतिषशास्त्रस्यापीयमेव दशा वरीवर्त्ति। भारतीयकवीनां सर्वविदितेऽपि सामर्थ्ये विशुद्धसंस्कृतसाहित्यस्य निर्माणं गद्यशून्यमेव प्रवृत्तमवलोक्यतेऽस्माभिः। तथाहि प्रसिद्धद्यनुसारं यथा भगवतो वाल्मीकेर्यथैव छन्दोवन्धरीतिलोंकेऽस्मिन् प्रसूता तथैवास्या माधुर्यप्रभावस्तथा कविषु बद्धास्पदो बभूव यथा गद्यगुम्फः शनैः शनैर्विरलतामवाप वराकः। पद्यबन्धो हि प्रचुरतया आसाद्यामास विस्तारम्। यावन्ति प्रायः षडङ्गानि धर्मशास्त्राणि पुराणेतिहासादीनि तानि पद्यमयान्येवेति दृग्गोचरीक्रियत एव सर्वैः। किबहुनाऽद्यापि पद्यप्रवाहो यथा प्रकामं प्रसृतोऽवलोक्यते न तथा गद्यप्रवाहः पद्याभासान्येव यद्यपि तानि भवन्ति तथापि गद्यनिर्माणे नास्माकं चेतः प्रवृत्तं भवति। तत्र समालोचका धीधना एव समालोचयन्तु-यदिह यानि खलु गद्यमयानि निर्मितानि तान्यपि पद्यमयानि विधाय मन्येऽनवधानतासंशोधनमिव विधीयतेऽस्माभिः। अत एव कादम्बर्या अपि पद्यकादम्बरीनाम्ना पुनः संस्करणं पुनर्जन्म वा सञ्जातम्। जयपुरात्पूर्वं पद्यबद्धं दशकुमारचरितं प्रकाशितमिति तद्विदो जानन्त्येव।

संस्कृतगद्यस्य विशेषता

अत्रेदं विचारणीयम्—पद्यं प्रति कवीनां पक्षपातस्य किं कारणमिति 'गवेषणायां शीघ्रतया ग्रन्थाभ्यास एव हेतुरिति निगदामः। अपि च पद्ये नियताक्षरबन्धेनोत्पादिता सङ्गीनानुगामिनी कापि गतिर्निभृततरं जनयति माधुर्यं मानसे। छन्दसां माध्यमं हि संगीतमयं तथा लघुशरीरं सम्पादयति येन स्मृतिपटे परिनिष्ठितरूपेण अङ्कितं भवति। छन्दसामाश्रयेणे 'निर्मातुरल्पीयसैव प्रयत्नेन स्वयुक्तिप्रदर्शनस्यावसरो मिलति। स्वकीयामशक्तिकमपि गोपायितुं प्रभवति कविरत्र। पद्ये हि छन्दसोऽनुरोधेन कल्पनायाः शरीरं चलादेवाकुञ्चनीयं भवति। पुरतोऽवलोक्यमानेऽपि हि विपुले कल्पनाऽङ्गणे छन्दःप्रतिबन्धकवशात् पङ्गूक्रियते कविरयम्। गद्ये तु मानसोत्थितं कल्पनोद्गारं यथाभिलापमविकृतरूपेणैव प्रकाशयितुं नान्तरायः कश्चित्। अत एव गद्यगुम्फः पूर्णपरिनिष्ठतस्यैव कवेः कर्त्तव्यमित्यवगतं भवति। 'काव्यकौशलं गद्येनैव पूर्णतया परीक्ष्यते' इत्यत्र न मनागपि शङ्काकलङ्कपङ्कः समुदेति। किञ्च पद्ये छन्दोऽनुरोधेन न स्वच्छन्दमभिरचितशब्दावली यथावन्निर्वाहयितुं सुसमर्था परन्तु गद्ये हि नायं प्रतिबन्धः। इह हि यथास्थलनिवद्धैर्मौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैर्द्वार इव स्वाभिप्रायाविष्कारः सचेतसां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसाधनदारिद्र्यं न पुरः प्रतिरोधकं भवेत्। अपि चात्र स्वच्छदर्पण इव समग्रं प्रतिबिम्बिता कविप्रतिभा सर्वतो विभाति, अत एव हि चिरन्तनकालात्प्रथितं पूर्वोक्तिमिदं सहृदयहृदयगरिष्ठगोष्ठ्याम्—'गद्यं कवीनां निकषं वदन्ति' इति।

अपरञ्चैतद्वैशिष्ट्यं विचारपथमवतरति—यदेतस्य लाघवं लघुशरीरता च। अत्र हि समासकरणेन ये विचारणीयविषया अन्यभाषायां दीर्घतर-दीर्घतम-वाक्येन प्रकटतामुपयान्ति ते हि संस्कृतगद्यस्यैकेनैव पदेनाभिव्यञ्जयितुं समर्था भवन्ति। संस्कृतभाषायाः समास एव जीवनम्। समासेन हि अधिकाधिकार्थम्योऽल्पाल्पशब्दैरभिव्यञ्जनसामर्थ्यं प्रदत्तम्। ओजोगुणेन संस्कृतगद्येषु विविधभावग्राहितायास्तथा गाढबन्धतायाः सञ्चारो भवति येन गद्यस्य सौन्दर्यं पूर्णरूपेण विकसितं भवति जीवनञ्चैतस्योक्तगुण एव। ओजसो लक्षणं गद्यस्यैतज्जीवनञ्चेति दण्डिनोक्तं यथा—'ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम्' इति। गद्यस्येयं विशिष्टता बहुप्राचीनकालादेवायाततीति सर्व एव जानन्ति। एवंविधस्य गद्यस्य सद्भावो हि प्रथमद्वितीयशतकयोः शिलालेखेषु प्राचुर्येणोपलभ्यते। पश्चिमभारत-प्रसिद्ध-क्षत्रप 'रुद्रदाम्न' शिलालेखपठनेनावगतो भवति यद् बाणशैलीप्रभावितं गद्यं वाचयामि, किन्त्वयं शिलालेखः