भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 10, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 10

प्रस्तावना

वाणतः पञ्चशतवर्षपूर्वमेवोट्टङ्कित आसीदिति मन्यते ऐतिहासिकैः । हरिषेणस्य प्रयागप्रशस्तिशिलालेखे विजयस्तम्भवर्णनप्रसङ्गे चैतादृशं विदग्धचातुरीचमत्कृतगद्यमुपलभ्यते-

'सर्वपृथिवीविजयजनितोदयव्याप्तानिखिलावनितलां कीर्तिमतस्त्रिदशपतिभवनगमनावासललित-सुखविचरणामाचक्षाण इव भुवो बाहुरयमुच्छ्रितः स्तम्भः ।'

शैलीयं गद्यकाव्यस्य लेखन एव आसीद् , न कथोपकथनेषु । शास्त्रीयविचारविनिमयेषु तु सिद्धान्तवर्णनं गद्यमाध्यमेनैव । दर्शनेषु युक्तीनां तर्काणां च प्रदर्शने प्रौढगद्यस्यैवोपलब्धिर्भवति । गद्यं विना युक्तियुक्तरूपेण दार्शनिकाः स्वविचारं प्रकटयितुं समर्था न भवन्ति । अत एवास्माकं दार्शनिकाः स्वशैल्यानुसारेण दार्शनिकगद्यानां सृष्टिं चक्रुः । परमार्थतस्त्विदमेव यत्कोमलभावप्रकाशने यावती शक्तिः संस्कृतगद्ये वर्तते, तावती ततोऽप्यधिका वा दर्शनशास्त्रस्य दुरूहत्तथ्यानामभिव्यक्तिकारिका शक्तिस्तत्र वर्तत इति निष्प्रपञ्चम् । लैटिनभाषायां गद्यस्यात्यधिकं प्रौढत्वं सौन्दर्यं तयौजस्वित्वगुणसंवलितत्वं निरूपयन्ति विद्वांसः किन्तु संस्कृतभाषाया गद्ये चोक्तगुणातस्ततोऽप्यधिकरूपेण विद्यमाना दृश्यन्ते दार्शनिकगूढातिगूढविषयस्य गद्यमन्तरा स्फुटतया प्रकाशनमसम्भव्येवेति माननीया धीधनाः स्वीकुर्वन्ति । अतः सुरभारतीगद्यं प्राचीनतादृष्ट्या तथा प्रौढतोपादेयताभावाभिव्यक्तिदृष्ट्या चास्माकं साहित्यस्य गौरवपूर्णमङ्गं वर्तत एवेत्यत्र न कश्चन विप्रतिपत्तिलेशोऽपि ।

गद्यस्य विकासः

वैदिककालादारभ्य मध्यकालपर्यन्तं गद्यविकासस्येतिहासो नितरां मनोरमो विद्यते । गद्यस्य त्रिविधं रूपं दृश्यते । तत्र एकञ्च वैदिककालसाधारणम, अपरञ्च आलापकारकं तथा लौकिकसंस्कृतस्य प्रौढिमत् समासवलित गाढवन्धवच्च गद्यम् । द्विविधयोरप्यनयोर्वैशिष्ट्यं सौन्दर्यं मोहकत्वञ्च विद्यत एव । वैदिकगद्ये साधारणानार्मल्पानां शब्दानामुपलम्भो यथा-‘ह’ ‘वै’ ‘उ’ प्रभृतयो वाक्यालङ्काररूपेण प्रयुक्ताः सन्ति’ । एषां प्रयोगे वाक्येषु रोचकतायास्तथा सुन्दरतायाः समावेशो भवति । समासस्तु नाममात्रम्, उदाहरणानं तु बहुलतया प्रयोगः । उपमारूपकयोः कमनीयसन्निवेशेन हि विदग्धदृष्ट्या वैदिकं गद्यं हृदयावर्जकम् । अथैतस्य पुष्टिर्हस्ताद् यथाक्रमं ग्रन्थांशप्रदर्शनेनैव भविष्यति । तथाहि—

'व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत् । स प्रजापतिः सुवर्णमात्मन्नपश्यत् , तत्प्राजनयत् । तदेकमभवत् तल्ललाममभवत् , तन्महदभवत् ; तज्ज्येष्ठमभवत् , तद्ब्रह्माभवत् ; तत्तपोऽभवत् , तत्सत्यमभवत् तेन प्राजायत । ( अथर्व १५ काण्ड १ सूक्तम् )

'अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता । अग्नावैष्णवं पुरोडाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽन्तरायं निर्वपन्ति ( ऐतरेयब्राह्मणम् १।१ )

'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद् विजानाति तद्भूमा, अथ यत्रान्यत् पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम् । ( छान्दोग्यम् ७।२४ )

पुराणेषु यानि गद्यान्युपलभ्यन्ते तानि हि वैदिकलोकिकसंस्कृतगद्ययोः सम्मिश्रणस्य कार्यं कुर्वन्ति । एतादृशं हि गद्यं नितान्तमालङ्कारिकं प्रसादगुणसंवलितं च । प्रचुराप्युदाहरणानि श्रीमद्भागवते तथा विष्णुपुराणे दृग्गोचरीभवन्ति । अत्र हि साहित्यिकगद्यस्य समग्रं सौन्दर्यं विद्यते । विशेष-गाढवन्धताया न्यूनत्वमवश्यं विद्यते । तद्यथा—

'सांसर्गिको दोष एंव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण वलात्कृत ईषदत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह ।' (श्रीमद्भाग० ५ स्कन्ध १० अ० ५)

२ का० भू०