कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 60, कुल 709 में से
संदर्भ में पढ़ेंशूद्रकवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ११
हतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसोपजायमानोदयः मेरुरिव सकलोपजीव्यमान-
पाणिपद्मतले उपलक्ष्यमाणम् अवलोक्यमानं शङ्खचक्रलाञ्छनं शङ्खचक्राकाररेखोपरेखास्वरूपं चिह्नं पक्षे वस्तुतः शङ्खचक्रस्वरूपं चिह्नं यस्य स तादृशः। 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः।
इहोपमानोपमेयभावस्य साधारणधर्मस्य चोपादानात् पूर्णोपमा, चक्रपदस्यासकृदुक्तत्वाद् वृत्त्यनुप्रासश्चेत्युभयोः परस्परमनपेक्षत्वात्तितलण्डुलवत्संसृष्टिः।
हर इवेति। हरति पापं यः स हरो महेश्वरः तद्वदिव जितः पराभूतः मन्मथः कन्दर्पः येन स तथोक्तः एकत्र भाललोचनाग्निना नामशेषकरणात्, अपरत्रात्यन्तलावण्यवत्त्वादित्याशयः। उभयोः पूर्णसाम्यात्पूर्णोपमालंकारः।
गुह इवेति। गुहः कार्तिकेय इव 'सेनानीरग्निभूर्गुहः' इत्यमरः, अप्रतिहता केनाप्यकुण्ठिता शक्तिः प्रभावोत्साहमन्त्रजनितं सामर्थ्यम् आयुधविशेषश्च यस्य स तथोक्तः। उभयोः साम्यात् पूर्णोपमालङ्कारः।
कमलेति। कमलं भगवतः श्रीमहानारायणाभिषेवं योनिरुद्गमस्थानं यस्य स कमलयोनिर्विधातेव, विमानं देवयानं तत्स्वरूपीकृतं नभसि वाहनीकृतमित्यर्थः राजहंसानां चञ्चुचरणैरतिलोहितानां पक्षिविशेषाणां मण्डलं समूहो येन स तादृशः, 'व्योमयानं विमानोऽस्त्री' इति, राजहंसास्तु ते चंचुचरणैरतिलोहिताः' इति चामरः। राजपक्षे—विगतः पराजयेन विनष्टः मानोऽहङ्कारो यस्य तद्विमानं तथाभूतं कृतं राजहंसानाम् अभ्युच्चमहीपतीनां मण्डलं गणो येन स तादृशः। अस्मिन् पक्षे राजहंसपदे राजानो हंसा इवेति 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्युपमितसमासः। 'स्युरुत्तरपदे व्याघ्र' इत्याद्यमरात्तस्याद्युच्चराजवाचकत्वमिति बोध्यम्। उभयोः साम्यात् पूर्णोपमालङ्कारः।
जलधिरिवेति। जलानि धीयन्तेऽस्मिन्निति जलधिः समुद्र इव लक्ष्म्या रमायाः शोभाया वा प्रसूतिर्निर्गमस्थानं देवासुरैः समुद्रमन्थने चतुर्दशरत्नेष्वस्या अपि तस्मादेव निर्गमात् तथा च जगदलङ्कृतमिति शोभाजनकत्वमित्याशयः। राजपक्षेऽपि लक्ष्मीर्धनसम्पत्तिः शोभा वा 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः, तस्याः प्रसूतिरुद्भवस्थानम्, नीतिचातुर्यादित्याशयः। उभयोः साम्यात्पूर्णोपमालङ्कारः।
गङ्गेति। गङ्गायाः स्वर्धुन्द्याः प्रवाह ओघ इव भगीरथस्य तन्नामकसूर्यवंशीयभूपतिविशेषस्य पन्थाः स्वपितॄणामुद्धाराय रथचक्रकृतमार्गः तदाचारसरणिञ्च तत्र प्रवृत्तो लग्नः। उभयोः साम्यात्पूर्णोपमालंकारः।
पुरा किल सगरो नाम राजाश्वमेधेन यष्टुमश्वं मुमोच तञ्च सुरराजोऽपहृत्य पाताले कपिलाश्रमे बबन्ध। ततश्च तमन्विष्यन्तः सगरसुताश्चतुर्दिक्ष्वनवलोक्य नखेन भुवो मृद उत्खन्य पातालं प्रविश्य तमृषिं भर्त्सयितवन्तः। कुपितेन तेन मुनिनाऽमिशहस्तस्ते भस्मीभूतः अभूवन्। तत्प्रपौत्रो भगीरथो हि तानुद्दिधीर्षुः गङ्गामानेतुं तपस्तप्तवान्। तेन तुष्टा हि सा हिमालयान्निर्गत्य भूमण्डले तद्रथचक्रनिर्मितमार्गे च प्रसरन्ती पाताल प्रविश्य तांस्तारयामास। राजा भगीरथो हि परमस्सदाचारवानासीदिति च पौराणिकी कथानुसन्धेया।
रविरिवेति। रविर्दिवाकर इव प्रतिदिवसं प्रतिदिनम् उपजायमान उत्पद्यमान उदयगिरिसम्बन्धः सम्पत्तेरुद्रेकश्च यस्य स तथोक्तः। पूर्णोपमालंकारः।
मेरुरिवेति। मेरुः सुमेरुगिरिरिव, सकलैः समस्तैश्चर्याद्देवैश्च उपजीव्यमाना सेव्यमाना पादानां प्रत्यन्तपर्वतानां छाया आतपाभावाः, पादयोश्छाया कान्तिश्च यस्य स तथोक्तः। 'पादाः प्रत्यन्तपर्वताः' 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इति चामरः।
वासनाओं को जीत लिया था। ब्रह्मा ने भोले-भाले हंसों को अपना वाहन बनाया था, उसने बड़े-बड़े राजाओं का अभिमान चूर-चूर करके उनके हृदयरूपी हंसों पर अपना आसन जमा लिया था। समुद्र से भगवती लक्ष्मी पैदा हुई थी, उससे राजलक्ष्मी का जन्म हुआ था। गंगा का प्रवाह राजा भगीरथ के रथ की लीकों का अनुगामी था, वह राजा भगीरथ के कठोर सदाचारों और प्रयत्नों की परिपाटी का अनुगामी था। सूर्य के समान उसकी भी श्रीसम्पत्ति दिनोदिन नये-नये रूपों में उगती रहती थी। देवलोक सुमेरु पर्वत के वृक्षों
१. ***उच्चीयमानोदयः । २. सकलभुवनो, सकलभुवनतलो*** । 'बृहस्पतिरिव सकलशास्त्रार्थतत्त्वज्ञः' इत्यधिकः पाठः क्वचित्