भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 607, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 607
५६८कादम्बरी-[ केयूरकवाक्-

मन्त्रितम्, तथा च केयूरकस्य हस्ते^१ सन्दिष्टम्^२। न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यसञ्चयेन वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः। कोऽपि वा न कदाचिद् दृष्टो नानुभूतो न श्रुतो न चिन्तितो नोत्प्रेक्षितो मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव^३ संयम्य दत्तेवेन्द्रियैः, शरपञ्जरे निक्षिप्य समर्पितेव मन्मथेन, दासीकृत्यापनीतेवानुरागेण, गृहीतगुणपणेन^४ विक्रीतेव हृदयेन, उपकरणीभूतास्मि^५। न मे कार्यं तेन चपलेनेति क्षणमिव सङ्कल्पमकरोत्। कृतसङ्कल्पा च, अन्तर्गतन 'मिथ्याविनीते! यदि मया न कृत्यम्, एष गच्छामि' इति हृदयोत्कम्पचलितेन परिहसितेव चन्द्रापीडेन, तत्परित्यागसङ्कल्प-समकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन,

तत्प्रतिज्ञावत् मन्त्रितम् अभिहितम्। अपि च केयूरकस्य हस्ते पात्तौ तथा सन्दिष्टं महाश्वेतासमीपे प्रतिज्ञानुरूपं सन्देशवचनं प्रेषितम्। सम्प्रति पाणिग्रहणे तु सर्वथालीकभाषित्त्वप्रसङ्गः त्रपातिशयश्रेयस्याश्च।

न खल्विति। जानामि आकलय्यामि। उत्सन्नमन्मथेन मदनहतकेनेत्यर्थः। पूर्वकृतः प्राग्विहितो यः अपुण्यसञ्चयः दुष्कृतसमूहः तेन। मृत्युहतकेन दुष्टप्रकृतिना यमेन, चेनैतदवलोकनेन यथा मम प्राणत्याग एव सम्भावयिष्यत इत्याशयः। विप्रलम्भको वञ्चकश्चन्द्रापीड आनीतः प्रापितः।

कोऽपीति। चिन्तितो ध्यातः, नोत्प्रेक्षितः प्रागसम्भावितः। कोऽपि वा अनिर्वचनीयः पुरुषः। विडम्बयितुं कदर्धनां प्रापयितुम्, उपागतः प्राप्तः। इन्द्रियैश्चित्तादिभिः संयम्य बद्ध्वा दत्तेव चन्द्रापीडाय अर्पितेव। अनुरागेण प्रेम्णा दासीकृत्य परिजनीकृत्य उपनीतेव प्रापितेव। गृहीता आत्ता गुणाः चन्द्रापीडस्य सौन्दर्यादय एव पणा मूल्यानि येन तेन हृदयेन चित्तेन विक्रीतेव विक्रयीकृतेव अतएव यस्य उपकरणीभूतास्मि विक्रेयद्रव्यीभूतास्मि।

इह दत्तेव, समर्पितेव उपनीतेव, इत्येतेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः। तथा 'विक्रीतेव' इत्यत्र परिवृत्तिः क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः।

न मे इति। चपलेन चञ्चलेन तेन कुमारेण मे मम कार्यं प्रयोजनं न विद्यते, इति सङ्कल्पं मनोरथं क्षणमिव क्षणसदृशम् अकरोत् व्यदधात्। कृतसङ्कल्पा विहितमनोरथा। अन्तर्गतन सावनावदृष्टहृदयवर्तिना, हृदयस्य गन्धर्वराजपुत्र्या एव चित्तस्य य उत्कम्पः चन्द्रापीडगमनभयाञ्चितान्तकम्पनं तेन चलितः चित्तात् प्रस्थितः। वृत्तकम्पनेन यथा तत्रत्यः पक्षी सन्तिष्ठते तद्द्वित्याशयः, तेन तादृशेन चन्द्रापीडेन हे मिथ्याविनीते अतीकशिष्टाचारवति कादम्बरि! यदि चेत् मया चन्द्रापीडेन तव कृत्यं प्रयोजनं न विद्यते, तदा (तर्हि) एषः अहं गच्छामि व्रजामि' इत्यभिधाय परिहसितेव कृतहास्येव। चित्ते मां गाढं स्थापयसि अथ च सङ्कल्पयसि 'तेन चञ्चलेन न मे प्रयोजनम्' इति परिहासः सम्भवत्पं-


रूपमें भी उस प्रकार कह दी थी, और केयूरक द्वारा भी मैंने उस प्रकारका सन्देश भेज दिया था; किन्तु मुझ मन्दभागिनीके समझमें नहीं आता कि मुझे प्रतारक- (छलनेवाले) चन्द्रापीडको मेरे निकट धूर्त विधाता ले आया, या मदन अथवा पूर्वजन्मकृत पापसमूह, किंवा मेरी मृत्यु अथवा अन्य कोई दूसरा ले आया! जिनको मैंने पहले कभी नहीं देखा था, जिनका मुझे अनुभव नहीं था, जिनका नाम भी मैंने नहीं सुना था, जिनका चिन्तन भी नहीं किया था, किंवा जिनको सम्भावना भी नहीं की थी, ऐसे कोई अनिर्वचनीय व्यक्ति मुझे प्रतारणा करनेके लिए आया है, जिनके केवल देखनेसे ही मेरी इन्द्रियोंने मानो मुझे बाँधकर उनको दान कर दिया है; अपने शरण पिंजरेमें डालकर कामदेवने मानो मुझे समर्पण कर दिया है; दासी बनाकरके अनुराग मानो मुझे उपहार दे दिया है; और हृदयने उनके गुणरूप मूल्य-ग्रहण करके मानो मुझे बेच दिया है; इस प्रकार मैं उन्हीं की उपहार-व्यवहारकी सामग्री हो गई हूँ; जो हो अब मुझे उस चपल-स्वभाव कुमारसे कुछ भी प्रयोजन नहीं है' ऐसा मन-ही-मन संकल्प उसने कुछ देर तक किया तत्काल ही—'मिथ्याविनीते! यदि मुझसे तेरा कोई प्रयोजन नहीं है तो ले यह मैं चला' इस प्रकार, हृदय काँपनेसे चलायमान हुए हृदयस्थित चन्द्रापीडने मानो उसका उपहास किया हो। उनके परित्यागके सङ्कल्पके समयमें ही बाहर प्रस्थान करनेके लिए


१. केयूरकहस्ते।
२. सन्दिष्टम्; उपनतः।
३. दर्शनमात्रकेणैव।
४. गृहीत मूल्येन गुणपणेन, गुणपणेन।
५. उपकरणीभूतास्मि।