भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 608, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 608

कादम्बर्या निजविकारजनितचिन्ता० १२ ] चन्द्रकला-विद्योतिनीसहिता । ५६१

'अविशेषज्ञे ! पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वे'ति तत्कालागतेनाभिहितेव बाष्पेण, अपनयामि ते सहासुभिर्धैर्यावलेप'मिति निर्भर्त्सितेव मनोभुवा, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव ।
तदेवमस्तमितप्रतिसमाधानबलौवलात् प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापर्वतम् अवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा ।

वेत्याशयः । इह क्रियोत्प्रेक्षा । तस्य चन्द्रापीडस्य परित्यागसङ्कल्पसमकाले प्रस्थितेन शरीरं परित्यज्य चलितेन, अतएव कण्ठलग्नेन गललग्नेन जीवितेन जीवनेन, पृष्टेव 'अहमपि व्रजामि' इत्यामन्त्रितेव । अपरोऽपि गमनाभिलाषी दयितः कण्ठमाश्लिष्य निजप्रयाणं पृच्छति । इहाप्युक्तालङ्कारः, तेन च चन्द्रापीडपरित्यागे जीवितमपि उज्झितं स्यादित्यनुरागस्य चरमावस्था प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः । तत्काले चन्द्रापीडपरित्यागसङ्कल्पविधानक्षणे आगतेन शोकोद्भायकतया नेत्रान्निर्गतेन बाष्पेण नयनाम्बुना 'हे अविशेषज्ञे तारतम्यापरिचिते गन्धर्वराजपुत्रि ! त्वया मद्द्वारा प्रक्षालितलोचनया धौतनेत्रया सत्या पुनरपि भूयोऽपि दृश्यताम् अवलोक्यतां यत् असौ जनश्चन्द्रापीडस्तव प्रत्याख्यानयोग्यो निराकरणोचितो न वा' इति अभिहितेव कथितेव । उक्तालङ्कारः, तेन च निराकरणाणयोग्य इति व्यज्यते इत्यलङ्कारेण वस्तुध्वनिः । तथा मनोभुवा कामेन 'ते तव असुभिः प्राणैः सह धैर्यावलेपं, न मे प्रयोजनं तेन चञ्चलेन, इति धैर्यगर्वम् अपनयामि दूरीकरोमि' इति निर्भर्त्सितेव अधिक्षिप्तेव । उक्तालङ्कारः, तेन च तत्काले धैर्यलोपः जीवनगमनोपक्रमश्च समुत्पन्न इति ध्वन्यत इति प्राग्वदेव ध्वनिः । अतएव तथैव प्राग्वदेव पुनरपि भूयोऽपि चन्द्रापीडाभिमुखं तदाकाङ्क्षि हृदयं चेतो यस्याः सा तथोक्ता बभूव जाता ।

तदेवमिति । एवम् अनेन विधिना अस्तमितं विलुप्तं प्रतिसमाधानं धैर्यावलम्बनं तद्रूपं बलं सामर्थ्यं यस्याः सा तथोक्ता कादम्बरी, प्रेमावेशेन प्रीत्यतिशयेन बलात् हठात् अस्वतन्त्रीकृता अस्वाधीनीकृता, अतएव परवशेव पराधीनेव । जालवातायनेन जालगवाक्षेण तमेव क्रीडापर्वतकं चन्द्रापीडविश्रामस्थानम् अवलोकयन्ती पश्यन्ती अतिष्ठत् आसीत् । इह 'परवशेव' इत्यत्र गुणोत्प्रेक्षालङ्कारः ।

तत्रस्थेति । आनन्दजलेन नयनेनावलोकने प्रम दाश्रुपातेन यद् व्यवधानं तिरोधानं तस्माद् उद्विग्नेव उद्वेगं प्राप्तेव सती, स्मृत्या स्मरणेन तं चन्द्रापी डं ददर्श शुबोध, न तु चक्षुषा नयनेन ।

इह क्रियोत्प्रेक्षालङ्कारः शाब्दी परिसंख्यालङ्कारश्चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

अङ्गुलीति । पाणिगृहीतया चित्रतूलिकया चित्रणे, अङ्गुलिभ्यः करशाखाभ्यो गलितैः स्यन्दितैः स्वेदघर्मैः यः परामर्शः संम्बन्धस्तेनानय्याभाव इति तात्पर्यम् तस्माद् भीतेव त्रस्तेव सती, चिन्तया ध्यानेन लिलेख हृदये चन्द्रापीडं चित्रयामास, चित्रतूलिकया । उक्तालङ्कारः ।

रोमाञ्चेति । उरःस्थलेन वक्षःस्थलेन आलिङ्गने, रोमाञ्चैः पुलकयत् तिरोधानं व्यवधानं तस्माद् शङ्कितेव सञ्जातशङ्केव सती; हृदयेन चेतसा चन्द्रापीडम् आलिलिङ्ग आश्लेषं कृतवती, न तु वक्षसा उरसा । प्राग्वदलङ्कारः ।

उसके प्राणने कण्ठ पर आकर मानो आज्ञा माँगी हो, 'हे तारतम्यानभिज्ञे ! तुम आँख धोकर फिर देखो कि यह व्यक्ति तुम्हारे प्रत्याख्यान करनेके योग्य है कि नहीं—इस प्रकार उस समय आविर्भूत होकर अश्रु-जल (बाष्प) ने मानो उससे कहा हो' 'कादम्बरी ! तुम्हारे प्राणके साथ धैर्यका अहङ्कार मैं दूर कर दूँगा, इस प्रकार मानो कामदेवने उसे तिरस्कार किया (फटकारा) हो'—यों फिर पहलेके ही समान उसका हृदय चन्द्रापीडके अभिमुखन हुआ ।

इस प्रकार उसकी धैर्यावलम्बन करनेकी शक्ति विनष्ट होनेके कारण प्रेमावेशते स्वतन्त्रता खोकर, पराधीनके समान उठ कर, गवाक्षके द्वार (खिड़की की जाली) में से क्रीडा-पर्वतकी ओर देखती-देखती वह खड़ी रही । वहाँ खड़ी-खड़ी आनन्दाश्रु-जलके व्यवधानसे मानो उद्विग्न होकर नयनोंसे देखनेके बदले वह उसे स्मृतिसे देखने लगी, अङ्गुलियोंमेंसे घर्मजल (पसीने) की बूँदें टपकनेके कारण बिगड़ जानेके भयसे मानो चित्रतूलिकासे चित्र काढ़नेके बदले, केवल भावनासे ही उसका चित्र खींचने लगी, रोमाञ्च व्यवधान कर देगा, इस आशङ्कासे ही मानो वक्षःस्थलसे लिपट्नेके बदले वह मन ही मन आलिङ्गन करने लगी; और उसके


१...बलात्प्रेमावेशेन । २. क्रीडापर्वतकम् ।
३६ का०