कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 610, कुल 709 में से
संदर्भ में पढ़ेंउत्कण्ठितचन्द्रापीडचिन्ता०-९३ ] चन्द्रकला-विद्योतिनीसहिता । ५७१
रुषितेनेव चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्ज- यात्मानमावृणोति । मल्लज्जाविवर्त्तमानवदना च प्रतिबिम्बप्रवेशलोभेनेव कपोलदर्पणमर्प- यति । मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ता- म्बूलवीटिकोपनयनखेद-विधूतेन¹ रक्तोत्पल-भ्रम-भ्रमद्भ्रमरवृन्देन² करतलेन स्विन्नं³ मुख- मिव⁴ गृहीततमालपल्लवेनेव वीजयति' ।
पुनश्चाचिन्तयत्—'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासङ्कल्पसहस्रैरेवमायास्य मा विप्रलभते, लुप्तविवेको यौवनमदो मद्यति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि
मद्विलोकितेति । अपि च, मया चन्द्रापीडेन विलोकिता दृष्टा सती, लज्जया त्रपया, दुकूलेन 'वस्त्रे- णेव धवलेन शुभ्रेण स्मितालोकेन निजमन्दहास्यप्रभया आत्मानं निजशरीरम् आवृणोति आच्छादयति । 'दुकूलेनेव' द्वत्यत्र जात्युत्प्रेक्षालङ्कारः ।
मल्लज्जेति । अपि च, मल्लज्जया विवर्त्तमानं परावर्त्तमानं वदनं मुखं यस्याः सा, प्रतिबिम्बप्रवेशलो- भेनेव मम प्रतिच्छायापतनाभिलाषेणेव, कपोलौ गण्ड एव दर्पणो मुकुरस्तम् अर्पयति अभिमुखीकरोती- त्यर्थः । वदनविवर्त्तनेन कपोलसांमुख्यस्य प्रत्यक्षात्वादित्याशयः ।
इह 'प्रतिविम्बप्रवेशलोभेन' इत्यत्र गुणोत्प्रेक्षालङ्कारः, तथा 'कपोलदर्पणम्' इत्यत्र निरङ्गकेवलरूप- कालङ्कार इत्युभयोरङ्गाङ्गिभावसङ्करः ।
मदवकाशेति । कररुहेण नखेन, शयनाङ्के शय्याया मध्यभागे, मदवकाशदायिनः ममावस्थितिस्या- नदायिनः आत्मनो हृदयस्य चेतसः प्रथमा आद्या या अविनयलेखा अशिष्टव्यवहारेखा तां लिखतीव अङ्कयतीव । क्रियोत्प्रेक्षालङ्कारः । शयनाङ्के कामाकृतवशाच्च नखैरुल्लेखस्तत्रैवं कल्पना कृतेत्यवधेया ।
मत्ताम्बूलेति । मह्यं ताम्बूलवीटिकाया नागवल्लीदलत्रीटिकाया उपनयने अर्पणायोपस्थापने यः खेदः परिश्रमः तेन विधूतेन कम्पितेन, तत्पाणौ रक्तोत्पलभ्रमेण कोकनदभ्रान्त्या भ्रमत पर्यटत् अमरवृन्दं मधुकरपटलं यत्र तेन, अत एव गृहीततमालपल्लवेनेव आत्ततापिच्छकिसलयेनेव विद्यमानेन मधुकरपट- लस्य तमालपल्लववत् श्यामवर्णत्वादित्याशयः, करतलेन हस्तेन, स्विन्नं घर्माक्तं मुखं वदनं वीजयतीव आन्दोलयतीव । इह श्रमवशाद्विधूते हस्ते मुखवीजनस्य, अमरपाते तमालपल्लवस्य चेत्युत्प्रेक्षाद्वयम् । करे रक्तोत्पलभ्रम इति भ्रान्तिमान् इत्येतेषामङ्गाङ्गिभावसङ्करः । 'भ्रमद्भ्रमरे'त्यादौ वृत्त्यनुप्रासेन स हि सङ्करः पुनः संसृज्यते ।
पुनरिति । प्रायेण बाहुल्येन मानुष्यकेण मानवत्या सुलभा अनायासप्राप्त्या लघुता अगाम्भीर्यम्, मिथ्यासङ्कल्पशतैः अलीकमनोरथजालैः, एवम् अनेन पूर्वोक्तप्रकारेण, आयास्य खेदयित्वा, मां विप्रलभते प्रतारयति । लुप्तो विनष्टो विवेको विधेयाविधेयविचारो यत्र स तथोक्तो यौवनमदः तारुण्याहङ्कारः कामो वा मद्यति मत्तं करोति ।
तदेतत्समर्थयति—यत इत्यादिना । यतो यस्मात्कारणात् । यूनां तरुणानां दृष्टिर्मनोवृत्तिरेव लोच-
हुई नेत्रोंसे कटाक्ष करके देखती है । और मैं जब उसकी ओर दृष्टिपात करता हूं तब वह लज्जावश शुभ्रवस्त्रके समान शुभ्रवर्ण-मन्द-हास्यकी प्रभासे अपने शरीरका आच्छादन कर लेती है । मुझसे लज्जित होकर मेरी ओरसे मुँह फेर, मेरे प्रतिविम्बको प्रवेश करानेकी इच्छासे ही मानो, अपने कपोल (गाल) रूप दर्पणको मेरी ओर समर्पण कर देती है । मुझे अवकाश देनेवाले हृदयके प्रथम अविनयको मानो रेखा ही को वह अपने नखसे शय्याके ऊपर अङ्कित करती (लिखती) है । जब उसने मुझे देनेके लिए उस पान-बीड़ीको उपस्थित किया, तब उसके परिश्रमसे उसका हाथ काँपने लगा था—जिसको रक्तोत्पल मान कर भ्रमरोंके झुण्ड करके ऊपर इधर उधर घूमा करते थे—इससे प्रतीत होता था कि-मानो वह तमाल-पल्लव लेकर घर्माक्त (पसीनेसे तर) अपने मुखमण्डल पर वायु सञ्चारन करती है ।
वह पुनः चिन्ता करने लगा कि—, प्रायशः यह मनुष्य जाति-सुलभ लघुता ही इस प्रकारके हजारों मिथ्या- भावनाओंका संकलन करा-कराकर परिश्रान्त कर शेषमें मेरी प्रतारणा करती है, अथवा यौवन-मद किंवा कन्दर्प
१ ॰॰॰विधुतेन । २. रक्तोत्पलभ्रमद्भ्रमरवृन्देन । ३. खिन्नं । ४. मुखमियं । ५. एवं मां ।