भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 611, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 611

५७२ कादम्बरी- [ कथायाम्-

कालुष्यं¹ महत् पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तार्यते² । स्वयमुत्पा- दितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । निपुणमन्मथै³-गृहीता चित्रवर्त्तिकेव तरुणचित्तवृत्तिर्न किञ्चिन्नालिखति । सञ्जातरूपाभिमाना कुलटेवात्मसम्भावना न क्वचिन्नात्मानमर्पयति । स्वप्न इवाननुभूतमपि⁴ मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासम्भा-

नम् तिमिरेण नेत्ररोगविशेषेण उपहता क्षीणसामर्थ्यैव सती, अल्पमपि स्तोकमपि कालुष्यम् आधारो- भूतकामिनीचित्तविकारं वस्तूनामाविलत्वञ्च, महत् अधिकं पश्यति उत्प्रेक्षते अवलोकते च ।

इह मनोवृत्तिलोचनयोर्भेदेऽपि श्लेषद्वाराभेदाध्यवसायादतिशयोक्तिः, 'तिमिरोपहतेव' इत्यत्र क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

स्नेहलव इति । वारिणा सलिलेनेव यूनां यौवनमदेन तारुण्याहङ्कारेण, स्नेहलवोऽपि कामिन्या अनुरागलेशोऽपि पक्षे तैलादिस्नेहपदार्थकणोऽपि, दूरं विस्तार्यते नितान्तविस्तृतत्वेन बोध्यते पक्षे अत्यन्तं प्रसार्यते ।

स्वयमिति । कविमतिः कविबुद्धिः सेव, तरलता तरुणानां चित्तचापल्यम्, स्वयमात्मनैव उत्पा- दितैः जनितैः अनेकचिन्ताशतैः विविधवाञ्छित-( वर्णनीय ) वस्तुविषयकमनोवृत्तिसमूहैः आकुला व्यग्रा ( व्याप्ता ) सती, किञ्चिन्न उत्प्रेक्षते न सम्भावयति इति न अपि तु सर्वमेवोत्प्रेक्षत इत्यर्थः । कवीनां शेमुषी यथा वर्णनीयविषयकानेकविधचिन्ताभिर्व्याप्ता सती समस्तमेव काव्यमुत्प्रेक्षालङ्कारेण भूषयति, तथा तरुणानां चपला मनोवृत्तिरपि कामिनीविषयकानेकविधचिन्ताभिर्व्यग्रा सती, समस्तमेव समाग- मादिकं सम्भावयतीति निष्कर्षः ।

निपुणेति । चित्रसम्पादनदक्षजनगृहीता चित्रवर्त्तिकेव आलेख्यतूलिकेव यूनां चित्तवृत्तिः मनो- व्यापारः, निपुणेन उत्तेजनाकुशलेन मन्मथेन कामेन गृहीता आविष्टा सती, किञ्चिन्नालिखति नाङ्कयति इति न, अपि तु विश्वस्यालेख्यवत् समस्तमेव कामिनीसम्मिलनादिकं हृदये अङ्कयतीति तात्पर्यम् ।

सञ्जातेति । कुलमटति अतिक्रामति या सा कुलटा स्वैरिणी सेव आत्मसम्भावना आत्मप्रशंसा, सञ्जात उत्पन्नः रूपाभिमानः सौन्दर्याहङ्कारो यस्यां सा तथोक्ता सती, क्वापि कामिन्यां कामुके च, आत्मानं हृदयं निजशरीरं च नार्पयति इति न, किन्तु सर्वस्मिन् स्थले आत्मानमर्पयतीति तात्पर्यम् ।

स्वप्न इति । स्वप्न इव तरुणानां मनोरथः मनोऽभिलाषः, समस्तम् अननुभूतमपि कामिनीस्नेहादिकं द्रव्यादिकं च दर्शयति सम्भावयति दृग्विषयीकरोति च ।

। इन्द्रजालेति । इन्द्रजालस्य पिच्छिकेव सेवकेव तरुणानां प्रत्याशा दुराशा, असम्भाव्यमपि अनु- च्छेद्यमपि कामिनीसम्मिलनादिकम् अद्भुतपदार्थञ्च, पुरोऽग्रे स्थापयति प्रतिष्ठितं करोति 'वारिणेव' इत्यारभ्य 'पिच्छिकेव' इत्यन्तेषु पूर्णोपमालङ्कारः ।

मुझे उन्मत्त करनेमें तुला है। क्योंकि—युवकोंकी दृष्टि तिमिर रोगसे आक्रान्त होकर ही मानो नायिकाओंके मनमें अल्पविकार होने पर भी उसे गुरुतररूपमें देखती रहती है। जलमें थोड़े तैलविन्दु पड़नेसे भी जिस प्रकार वह अत्यन्त विस्तृत हो जाता है, उसी प्रकार युवकोंका यौवन-मद नायिकाओंके अनुरागकी कणिकाको भी अत्यधिक समझा देता है । कवियोंकी बुद्धि जिस प्रकार अपनेसे ही उत्पादित अनेकविध वर्णनीय वस्तुओंकी चिन्तासे व्याकुल होकर किस-किसको उत्प्रेक्षालङ्कारसे अलङ्कृत नहीं करती—अर्थात् सबको ही उत्प्रेक्षा करती है, युवकोंके मनकी चञ्चलता भी उसी प्रकार अपने आपसे उत्पन्न की हुई नानाविध इष्ट वस्तुओंकी चिन्तासे व्याकुल होकर नायिकाके विषय में सबकी ही सम्भावना करती है। उत्कृष्ट चित्रकारके हस्तधृत चित्रतूलिका (कूची) जिस प्रकार सबका ही चित्र काढ़ती है, युवकोंकी चित्तवृत्ति भी उसी प्रकार उत्तेजना-निपुण कामदेवके द्वारा आक्रान्त (वशी) होकर सब कुछ अङ्कित करती है (काढ़ लेती) है। सौन्दर्याभिमानिनी कुलटा जिस प्रकार सब पुरुषोंको ही अपना शरीर अर्पण करती है, सौन्दर्याभिमानी युवकोंकी आत्म-सम्भावना (आत्मश्लाघा, अपनेको श्रेष्ठ समझना) भी उसी प्रकार समस्त नायिकाओंमें ही मन समर्पण करती है। स्वप्नके समान युवकोंका मनोरथ, अननुभूत पदार्थका भी दर्शन करा देता है। एवं इन्द्रजाल (जादूगर) की पिच्छिका (मोरछल) के समान


१. कलुष । २. विस्तार्यते । ३" मदन "। ४. अनुभूतमपि ।