भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 614, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 614

[चन्द्रापीडायोनिदाहप्रण०-९५] चन्द्रकला-विद्योतिनीसहिता । ५७५

प्रत्यागमना तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारम- करोत् । चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनैव कादम्बरीपरिजनेन निर्वर्त्तित- स्नानविधिर्निरुपहत-शिलोत्तलाचिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहः- कर्म चक्रे ।

क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हरिणी²- रोमन्थफेनशीकरासारे, सीरायुध-हल-भय-निश्चलकालिन्दी-जलत्विषि, तरुणी-चरणालक्तक- रस-शोण-शोचिषि, सुकुमरजः-सिकतिल-तले, लतामण्डपोपगूढे, शिखण्डि-ताण्डव-सङ्गीत- गृहे, मरकतशिलातले समुपविष्टः दृष्टवान् सहसैवातिबहुलधाम्ना धवलेनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लावयमानां महीम्,

प्रत्यागमनं परावर्त्तनं यया सा तादृशी, तस्मात् प्रासादशृङ्गात् अवततार अवतीर्णा ।

स्नानेति । स्नानादिषु मज्जनादिषु मन्दादरापि चन्द्रापीडौत्सुक्यवशात्स्वल्परागापि । दिवसव्या- पारं दिनकृत्यम् अकरोत् व्यदधात् ।

चन्द्रेति । तस्मात् क्रीडापर्वतशिखरात् । प्रथमविसर्जितेनैव प्राक्व्यापारितेनैव कादम्बरीपरिजनेन कादम्बरीपरिचारिकया निर्वर्त्तितो निष्पादितः स्नानविधिः मज्जनव्यापारो येन सः, निरुपहते छेदादिभि- रदूषिते, शिलातले प्रस्तरोपरि अर्चितं पूजितम् अभिमतदैवतम् इष्टदेवता येन सः । आहारादिकम् अशनादिकं सर्वम् अहःकर्म दिनकृत्यं चक्रे कृतवान् ।

क्रमेणेति । किञ्च, कृताहारो विहितभोजनश्चन्द्रापीडः, क्रीडापर्वतकस्य प्राग्भागम् अग्र्यंशं भजत इति तस्मिन् तथोक्ते, मनोहारिणि चित्ताकर्षके, हारीतो 'हरियाल' इति प्रसिद्धः पक्षिविशेषः तद्वत् हरिते नीलवर्णे । लुप्तोपमालङ्कारः । हरिणीनां मृगीणां रोमन्थश्चर्वितचर्वणं तेन ये फेनाः कफाः तेषां शीकरा सारः कणवृष्टिर्यत्र तत्र । सीरायुधो बलरामः तस्य हलभयेन लाङ्गलत्रासेन निश्चलं निष्पन्दं यत् कालि- न्दीजलं यमुनातोयं तस्य त्विट् कान्तिरिव त्विट् यस्य तस्मिन् तादृशे । इहाप्युत्प्रेक्षालङ्कारः । तरुणीनां युवतीनां चरणयोः पादयोः अलक्तरसेन यावकद्रवेण शोणं रक्तवर्णं शोचिर्द्युतिर्यस्य तस्मिंस्तादृशे । कुसुमानां पुष्पाणां रजोभिः परागैः सिकतिलं बालुकामयं तलम् ऊर्ध्वदेशो यस्य तस्मिंस्तादृशे । लता- मण्डपैः उपगूढे संश्लिष्टे परिवृत्त इति यावत् । शिखण्डिनां मयूराणां यत् ताण्डवं लास्यं यत्र तत्तथोक्तं सङ्गीतगृहं गीतनृत्यवादित्रसदनं यस्मिंस्तत्र । एतादृशे मरकतशिलातले अश्मगर्भप्रस्तरवले समुपविष्टः मनासीनः सन्, अग्रेऽभिधीयमानानि दृष्टवान् अवलोकितवान् ।

सहसेति । दिवसं दिनम्, अतिबहलं निरतिशयं धाम तेजो यस्य तेन, धवलेन शुभ्रेण आलोकेन आतपेन जलेनेव सलिलेनेव विद्यमानेन सता, निर्वाप्यमाणम् अरट्यमानमिव दृष्टवान् । आतपं सूर्यालोकं मृणालवलयेन बिसकङ्कणेन पीयमानम् अन्यन्तरीक्रियमाणमिव दृष्टवान् । महीं क्षोणीं क्षीरोदेन दुग्धसमुद्रेण

स्नानके कार्य करनेका थोड़ा आग्रह रहने पर भी उसने महाश्वेताके अनुरोधसे (मन रखनेके लिए) वे सब ही सम्पादन किया । इधर चन्द्रापीड भी क्रीडापर्वतके शिखरसे नीचे उतरा और पहलेसे ही कादम्बरीकी भेजी हुई परिजनोंके साहाय्यसे स्नानकार्य सम्पादन करनेके बाद एक अखण्डित शिलातल पर इष्टदेवताकी पूजा करके, उसी क्रीडा-पर्वतमें ही उसने आहारादिक दिनका समस्त कृत्य सम्पादन किया ।

उस क्रीडापर्वतके पूर्व-भागमें वहीं हारीत पक्षीके समान मनोहर एक मरकत-मणिकी शिला थी, चर्वित- चर्वण (जुगाली) करनेके समयमें हरिणियोंके मुखसे फेनबिन्दुसमूह उसके ऊपर पड़े थे, बलरामके लाङ्गल (हल) के भयसे निश्चल हुए यमुना-जल के समान उसकी प्रभा प्रकाश पा रही थी; युवतियोंके चरणोंके आलक्त-रस (महावर) से उसकी दीप्ति रक्तवर्ण हो गई थी; पुष्पकी रेणुसे उसका ऊपरी भाग बालुकामय हो गया था; लता- मण्डपसे उसको चारों दिशायें वेष्टित (ढक गई) थीं; और उसके बीचमें मयूरोंके नृत्य करनेकी सङ्गीत-शाला थी; चन्द्रापीड भोजन करके उस शिलाके ऊपर बैठकर क्रमसे देखने लगा कि—सहसा (एकाएक) ही अत्यन्त तेजस्वी और जलके समान शुक्लवर्ण आलोकमालासे वह दिनका मानो निर्वाण कर (धो) देता है, मृणालमण्डल


१. निर्वर्त्तित°...। २. ...शिलाचित°...। ३. हरिण ...। ४. उपविष्टः । ५. ...ताल्यदलयेनेव / मृणालवलयेनेव ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 614, कुल 709 में से · BharatKosha