कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 615, कुल 709 में से
संदर्भ में पढ़ें५७६ | कादम्बरी- | [ कथायाम्-
चन्दनरसवर्षेणेव सिच्यमानान् दिगन्तान्१ सुधयेव विलिप्यमानमम्बरतलम् । आसीच्चास्य मनसि—किमु खलु भगवानोषधिपतिरैकाण्ड एव शीतांशुरुदितो भवेत्, उत यन्त्रविक्षेप-विशीर्यमाण-पाण्डुर-जल-धारा-सहस्राणि३ धारागृहाणि मुक्तानि, अहोस्विदनिल-विकीर्यमाण-शीकर-धवलित-भुवनाम्बरसिन्धुर्धरातलमवतीर्णे'ति४ ।
कुतूहलाच्च५ आलोकानुसारप्रहितचक्षुरद्राक्षीत् । अनल्पकन्यकाकदम्बपरिवृतां ध्रियमाणधवलातपत्रसमुद्धूयमानचामरद्वयां कादम्बरीप्रतीहार्या६ वामपाणिना वेत्रलतागर्भेणार्द्रे-
प्लाव्यामानामिव पूर्यमाणामिव दृष्टवान् । दिगन्तान् चन्दनरसवर्षेण मलयजद्रववृष्ट्या सिच्यमानानिव अभिषेकविषयीक्रियमानानिव दृष्टवान् । तथा अम्बरतलं गगनं सुधया गृहधवलीकरणद्रव्येण विलिप्यमानमिव विलेपनविषयीक्रियमाणमिव दृष्टवान् । मरकतमणिशिलातले समासीनश्चन्द्रापीडः अकस्मात् गगनधरण्यादिषु समन्ताद् व्यासमद्भूतं श्वैतिमानमपश्यत् येन हि अकाण्डे चन्द्रोदयादेः सन्देहोऽस्य समजनीति प्रघट्टकस्य निष्कर्षः । कादम्बर्या प्रेषितस्य तरलिकयानीयमानस्य हारस्यायं प्रकाश इति कविना विहितो भूमिकातिशय इति हृदयम् ।
इह 'जलेनेव' इत्यत्र श्रौतोपमा, 'विलुप्यमानमिव' इत्यत्र च क्रियोत्प्रेक्षेत्युभयोरङ्गाङ्गिभावसङ्करः । 'पीयमानमिव, प्लाव्यामानमिव, सिच्यमानमिव, विलिप्यमानमिव' इत्येतेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।
आसीदिति । अस्य चन्द्रापीडस्य । खलु निश्चयेन । अकाण्ड एव असमय एव, शीतांशुरश्चन्द्रः । इह 'ओषधिपति' पदं न किमपि मुख्यमुपकरोतीति परित्याज्यमेव, अन्यथापुष्टार्थत्वदोषस्य वारयितुमशक्यत्वात् । उदितो भवेत् उद्गतः स्यात् । उत अथवा यन्त्राणां जलयन्त्राणां विक्षेपेण आर्मणेन विशीर्यमाणानि परितो विक्षीर्यमाणानि पाण्डराणि श्वेतानि जलधाराणां सलिलसाराणां सहस्राणि समूहा येषां तानि धारागृहाणि जलयन्त्रभवनानि मुक्तानि त्यक्तानि । अहोस्वित् किं वा, अनिलेन पवनेन विक्षीर्यमाणैः समन्ताद्विक्षीर्यमाणैः शीकरैः सलिलकणाभिः, धवलितं श्वेतीकृतं भुवनं यया सा तादृशी, अमरसिन्धुः आकाशगङ्गा धरातलं भूतलम् अवतीर्णा आगतेत्यर्थः, कथमन्धथा समन्तादेवेवंविधा श्वेतता प्रसरतीत्याशयः । इह शुद्धसन्देहोऽलङ्कारः ।
कुतूहलादिति । किञ्च, कुतूहलात् कौतुकात् आलोकानुसारेण तं प्रकाशमुद्दिश्येत्यर्थः प्रहितं प्रेषितं चक्षुर्लोचनं येन स तथोक्तश्चन्द्रापीडः आगच्छन्तीं मदलेखाम्, तस्याश्च समीपे तरलिकांम, तथा च गृहीतं हारमद्राक्षीदिति सम्बन्धः ।
आदौ मदलेखां विशिनष्टि—अनल्पेति । अनल्पैः अधिकैः कन्यकानां कुमारीणां कदम्बैः समूहैः परिवृतां परिवेष्टिताम्, ध्रियमाणम् उद्वहमानं धवलं शुभ्रम् आतपत्रं छत्रं यस्यास्ताम्, उद्धूयमानं वीज्यमानं चामरद्वयं वालव्यजनयुगलं यस्यास्ताम्, कादम्बरीप्रतीहार्या गन्धर्वराजपुत्रीद्वारपालिकया वेत्रलतागर्भेण वेतयष्टिधारिणा वामपाणिना सव्यहस्तेन, आर्द्रवस्त्रशकलेन क्लिन्नवसनखण्डेन अवच्छन्नम् आच्छादितं
मानो रौद्रका पान करता है, क्षीरोदसागर मानो पृथिवीको प्लावित कर (डुबा) रहा है, चन्दन-जलकी वृष्टि मानो दिशाओंको सिक्त करतो (भिगोती) है, और अमृत मानो आकाशको लिप्त करता है । यह देखते ही उसके मनमें यह हुआ कि—'क्या ओषधिपति भगवान् चन्द्र, असमयमें ही उदित हुए हैं, क्या धारागृह (फुहारेके यन्त्र) को खोल दिया गया है, जिससे उसके चारों ओर भ्रमण करते रहनेसे शुभ्रवर्ण हजारों जलधाराएँ निकली हुई हैं ? अथवा आकाश-गङ्गा भूतलमें उतरी है, जिसके जलविन्दुसमूह वायुके वेगसे फैलकर भुवन-मण्डलको शुभ्रवर्ण कर दिया है ?'
जिस दिशामें से वह आलोक (प्रकाश) आता था उस ओर कौतुकसे दृष्टिपात किये (नेत्र फेके) तो बहुतर कन्याओंके बीचमें आती हुई मदलेखा को देखा । उसके मस्तकके ऊपर कोई परिचारिका श्वेतच्छत्र धारण की हुई थी, और दोनों ओर दो परिचारिकाएँ चमर डुला रहीं था । कादम्बरीकी प्रतीहारीने अपने बाएँ हाथमें
१. दिगन्तरान् ।
२. भगवानौषधिपतिः, केतकीगर्भपत्रपाण्डुरो भग...।
३. पाण्डुरधारासहस्राणि पारदप्रसाराः, जलधाराः ।
४. कुतूहलाद्धरातलम् ।
५. क्वचित्त 'कुतूहलाव' इति नास्ति ।
६. कादम्बरी प्रतीहार्या ।