कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 616, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडायोपहारप्रेषण०-१५] चन्द्रकला-विद्योतिनीसहिता । ५७७
वस्त्रशकलाच्छन्नमुखं चन्दनानुलेपनसनाथं नारिकेल¹-समुद्गकमुद्वहन्त्या दक्षिणकरेण दत्त- हस्तावलम्बाम्, केयूरकेण च निःश्वासहार्ये² निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गम्, मालतीकुसुमदामाधिष्ठित-करलतया च तमालिकयानुगम्यमानामाग- च्छन्तीं मदलेखां तस्याश्च समीपे तरलिकां, तया च सितांशुकोपच्छेदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवमिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्ड- रीकस्य, मन्दरक्षोभविक्षिप्तमिवामृतफेनपिण्डनिकरम्, वासुकिनिर्मोकमिव मन्थनश्रमोञ्झि- तम्, हासमिव श्रियः³ कुलगृहवियोगगलितम्, मन्दर-मथन-विखण्डिताशेष-शशिकला-खण्ड- सञ्चयमिव संहृतम्, प्रतिमागततारागणमिव⁴ जलधि⁵-जलादुद्धृतम्, दिग्गज-कर-शीकरा-
मुखं वदनं यस्य तत्तथोक्तम्, तथा चन्दनानुलेपनेन मलयजविलेपनेन सनाथं सहितं नारिकेलस्य श्रीफलस्य समुद्गकं मध्यवर्त्तिगोलकम्, उद्वहन्त्या धारयन्त्या सत्या, दक्षिणकरेण अपसव्यहस्तेन दत्तः अर्पितो हस्ता-वलम्बो यस्यास्ताम् । निःश्वासेन श्वासवायुना हाय हर्तुं शक्ये अत्यन्तक्षुद्रे इत्यर्थः, निर्मोकवद् भुजगक-ञ्चुकवत् शुचिनी श्वेते,, धौते प्रक्षालिते कल्पलताया मन्दारवल्ल्या दुकूले सूक्ष्मवस्त्रद्वयम्, दधता धारयता केयूरकेण निवेद्यमानो ज्ञाप्यमानो मार्गः पन्था यस्यास्ताम् । तथा मालतीकुसुमानां जातीपुष्पाणां दाम्ना मालया अधिष्ठितम् आश्रितं करतलं हस्ततलं यस्यास्तया तादृश्या तमालिकया अनुगम्यमानाम् अनु-व्रज्यमानाम् आगच्छन्तीम् आयान्तीं मदलेखाम्, तस्याश्च समीपे निकटे तरलिकां अद्राक्षीत् अपश्यत् ।
हारं वर्णयति-तयेति । किञ्च,' तया तरलिकया, सितां शुकं श्वेतवस्त्रम् उपच्छद आवरणं यस्य तस्मिन्, पटलके मञ्जूषायां गृहीतं धृतम् । क्षीरोदस्य दुग्धाम्बुधेः धवलतायाः श्वेततायाः कारणं हेतुरिव, तत्र विद्यमानत्वादित्याशयः । चन्द्रमसः शशिनः सहभुवं सहोदरमिव । नारायणनाभिपुण्डरीकस्य विष्ण्-तुन्दकूपिकासिताम्भोजस्य मृणालदण्डमिव । मन्दरस्य मन्दराचलस्य क्षोभेण क्षीरसागरमन्थनसमये, सुरासुरैराकर्षणात् सञ्चलनेन विक्षिप्तं विकीर्णम् अमृतफेनपिण्डस्य पीयूषडिण्डीरपिण्डस्य निकरं समूह-मिव । मन्थनश्रमेण क्षीरोदमथनायासेन उज्झितं त्यक्तम्, वासुकेः रज्ज्वात्मना परिणतस्य शेषनागस्य निर्मोकं कञ्चुकमिव । कुलगृहस्य पितृमन्दिरस्य क्षीरोदवसतेः वियोगेन विश्लेषक्लेशेन गलितं वदनात्पतितं श्रियो लक्ष्म्याः हासं हास्यमिव । संहृतं क्वाप्येकत्रीकृतं मन्दरस्य तदाख्यपर्वतस्य मथनेन मन्थनेन विख-ण्डिताश्चूर्णीकृता अशेषाः समस्ताः शशिकलाश्चन्द्रकलास्तासां खण्डसञ्चयम् अंशनिकरमिव । जलधिजलाद् समुद्रसलिलात् प्रतिमागततारागणमिव तत्रैव प्रतिसङ्क्रान्ततारकासमूहमिव । पुञ्जीभूतम् एकत्रीभूतं
बेंतकी छड़ी और आर्द्रवस्त्र (गीले रुमाल) से आच्छादित, चन्दनानुलेपनसे संयुक्त एक नारियलका सम्पुटले रखा था और दक्षिण हाथसे मदलेखाके हाथको सहारा दिया था । निःश्वास-वायु (फूँक मारने) से भी उड़ जायँ ऐसे, सर्पके कञ्चुक (काँचली, 'केंचुआ' मिथिला भाषामें) के समान स्वच्छ, कल्पलताके दो धुले वस्त्र पहने केयूरक उसे मार्ग-प्रदर्शन करता जाता था । हाथमें मालती (चमेली) पुष्पों के गजरे धारण किये तमालिका उसके पीछे-पीछे आ रही थी, उसके साथ ही तरलिका भी आ रही थी, जिसके हाथमें श्वेतवर्ण वस्त्रसे आच्छादित एक छोटी सी पेटी (टोकरी) के अभ्यन्तरमें मानो क्षीरोदसागरकी धवलताके कारण, चन्द्रके सहोदरके समान दीप्ति बरसाता अत्यन्त शुद्ध एक हार था । वह नारायणके नाभिकमलके मृणाल-दण्डके समान, मन्दराचलके द्वारा उत्पन्न हुए आन्दोलन (क्षोभ) से उठे अमृत-फेन-पिण्डसमूहके समान, समुद्र-मन्थनमें परिश्रम होनेसे शरीरसे परित्यक्त (छोड़े हुए) अनन्तनागके कञ्चुक (काँचुली) के समान, पितृ-गृहके साथ विच्छेद होनेके कारण मुख-मण्डलसे परिस्खलित होकर गिरे लक्ष्मी-देवीके हास्यके समान, मन्दराचलके द्वारा मथन करनेसे चूर्ण-विचूर्ण हुई चन्द्रमाकी समस्त कलाओंके खण्डोंके मानो सञ्चयके समान समुद्र-जलमेंसे उठाए प्रतिबिम्बित तारागणके ही समान, दिग्गजोंकी सूँडमेंसे निःसृत जलविन्दुसमूहके समान, कामदेवके हस्तीके सप्तविंशतितार्यक-मुक्ता-
१. नारिकेर... । २. निश्वासहार्यै । ३. क्वचित् 'श्रिय' इति पदं न दृश्यते । ४. प्रतिमातारागणमिव तारागणमिव । ५. जलनिधि... ।