कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 618, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडायोपहारप्रेषणव० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ५७६
दृष्ट्वा चायमस्य चन्द्रापीडश्चन्द्रातपद्युतिमुषः¹ धवलिम्नः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण² मदलेखामापतन्तीं³ प्रतिजग्राह⁴ । सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्त्तमुपविश्य स्वयमुत्थाय तेन चन्दनाङ्गरागेणानुलिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच—‘कुमार ! तवेयमपहसिताहङ्कारकान्ता⁵ पेशलता प्रीतिपरवशं⁶ जनं कमिव न कारयति ? प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी ? अनेन चाकारणविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि ? एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति ? कं⁷ वा न समाश्वासयन्त्यमी⁸ स्वभाव-
दृष्ट्वेति । अपि च, तं हारं मौक्तिकं दृष्ट्वा निरीक्ष्य चन्द्रापीडः, अयं हार एव, चन्द्रातपस्य चन्द्रालोकस्य द्युतिं दीप्तिं मुष्णाति अपहरतीति तस्य, अस्य ऊहितपूर्वस्य धवलिम्नः श्वेततायाः कारणं हेतुरिति मनसा चेतसा निश्चित्य निर्णीयैति सम्बन्धः । समुचितोपचारक्रमेण उपयुक्त्याचरणानुपूर्व्या । आपतन्तीम् आयान्तीम्, प्रतिजग्राह अभ्यर्थितवान् ।
सेति । सा मदलेखा । मरकतग्रावणि अश्मगर्भात्मकशिलायाम् । तेन नारिकेलसमुद्गकसम्मानीतेन चन्दनाङ्गरागेण मलयजविलेपनेन अनुलिप्य परिधाप्य चन्द्रापीडमित्यन्वयः । मालतीकुसुमदामभिः जातीपुष्पस्रग्भिः, आरचितो विहितः शेखरः शिरोऽलङ्कारो यस्य तम् ।
कुमारेति । अपहसितो दूरीकृतः अहङ्कारः समस्तानामेव रूपवर्गों यया सा चासौ कान्ता समस्तानामेव स्पृहणीया चेति तादृशी । पेशलता चारुता (सौन्दर्यम् ), कमिव जनं न प्रीतिपरवशं स्नेहपरावीनं न कारयति ? अपि तु समस्तमेवं जनं प्रीतिपरवशं कारयतीत्यर्थः, अतएवास्मानपि स्नेहपराधीनाः कारितवतीत्याशयः । अर्थापत्तिरलङ्कारः, अनेन च सामान्येनाप्रस्तुतात् प्रस्तुतस्य विशेषस्यावगमादप्रस्तुतप्रशंसालङ्कारः सङ्कीर्यते । 'चारौ दक्षे च पेशलः' इत्यमरः । ते तव प्रश्रयो विनय एव एवंविधानां स्नेहपराधीनानां लोकानाम् अवकाशम् उपसर्पणावसरं ददाति । आकृत्या आकारविशेषेण जीवितस्वामी प्राणाधीश्र्वः कस्य नासि, अपि तु सर्वस्यैवासीत्यर्थः । इहाप्युक्तभावः उक्तादलङ्कारश्च ज्ञेयः । अकारणम् अनिमित्तम् आविष्कृतं प्रकटीकृतं वात्सल्यं स्नेहो येन तेन, चरितेन चरित्रेण, बन्धुत्वं स्वजनत्वम् । इहाऽप्युक्तभावः उक्तादलङ्कारश्च । प्रकृतिमधुरा स्वभावमनोहरा व्यवहृतिर्व्यवहारः । वयस्यतां मित्रत्वम् उत्पादयति जनयति । इहाऽप्युक्तभाव उक्तादलङ्कारश्च । स्वभावेन प्रकृत्या सुकुमारा मृदुला वृत्तयो व्यवहारा येम्यस्ते अमी भवद्गुणाः त्वदुत्कर्षाः कं वा लोकं न समाश्वासयन्ति .समाश्वासनां विदधते अपि तु सर्वमेवेत्यर्थः । इहाऽप्युक्तभाव उक्तादलङ्कारश्चेत्यवधेयम् ।
चन्द्रापीड उस हारको देख कर मन ही मन निश्चय किया कि—'यह हार ही, इस चन्द्र-किरणके सौन्दर्यको मात करनेवाले इस धवलताका कारण है।' उसके बाद दूरसे उसने अभ्युत्थानादि समुचित आचरण द्वारा आती हुई मदलेखाका स्वागत किया । आकर वह उसी मरकत-मणिके शिलातल पर ही कुछ समय तक बैठी किन्तु अपनेसे ही उठकर, उस चन्दनाङ्गरागसे चन्द्रापीडको लिप्त किया, दोनों सूक्ष्म-वस्त्र पहनाये, मालतीके पुष्पोंकी मालाओंसे मस्तक अलंकृत की और उस हारको लेकर कहने लगी—'राजकुमार ! आपका यह सौन्दर्य सभी सौन्दर्योके अहङ्कारको दूर करता है और सबका अभिलषणीय होनेसे किस व्यक्तिको आनन्दित नहीं करता है ? आपका विनय ही प्रीतिपरवश जनोंको आपके सम्मुख उपस्थित होने का अवसर देता है । इस आकृति द्वारा आप किसके जीवनके अधीश्वर नहीं हैं । निष्कारण वात्सल्यप्रकाशकारी इस चरित्र द्वारा आप किसमें बन्धुता उत्पन्न नहीं करते हैं ? आपका यह स्वभाव-सुन्दर व्यवहार किसके साथ मैत्री उत्पादन नहीं करता हं ? स्वभावसे ही सुकुमारवृत्तिवाले आपके ये गुण किसका समाश्वासन नहीं करते ? इस विषयमें आपको यह प्रकृति ही तिरस्कार करने योग्य है जो कि वह प्रथम दर्शनमें ही ऐसा विश्वास उत्पन्न कर देती है; नहीं तो
१ ॰मुषः । २. समुचितेन ॰॰॰ । ३. आयान्तीम् । ४. जग्राह । ५. अपहस्ति दिङ्कारकान्ता ६. परवशं किमिव । ७. कस्य । ८. समावासयन्त्यमी ।