भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 619, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 619

५८० | कादम्बरी- | [ कथायाम्- ]

सुकुमारवृत्तयो भवद्गुणाः ? त्वन्मूर्त्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विश्रम्भमुप- जनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवा- भाति । तथाहि, सम्भाषणमप्यधःकरणमिवापतति, आदरोऽपि प्रभुताभिमानमिवानुमाप- यति, स्तुतिरप्यात्मोत्सेकमिव सूचयति, उपचारोऽपि चपलतामिव प्रकाशयति, प्रीतिरप्यना- त्मज्ञतामिव ज्ञापयति, विज्ञापनापि प्रागल्भ्यमिव जायते², सेवापि चापलमिव दृश्यते, दान- मपि परिभव इति भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते, जीवितेश्वरायं किं प्रतिपाद्यते


ननु मय्याज्ञाभावेऽपि लोकाः कथमेवं स्नेहपराधीनतादिकं स्वीकुर्वन्तीत्यत आह—त्वदिति । अत्र स्नेहपराधीनतादौ । त्वन्मूर्त्तिः भवदाकृतिरेव उपालम्भं प्रतिषेधवचनम् अर्हति योग्यं भवति, या प्रथम-दर्शने एव प्रथमावलोकने एव विश्रम्भं समस्तविषयेषु विश्वासम् उपजनयति उत्पादयति अत्यन्तशान्त-रूपत्वादित्याशयः । इह निन्दया स्तुतेरवगमाद् व्याजस्तुतिः

इतरथेति । इतरथा विश्वासात्पादनाभावे हि, सकलेषु समस्तेषु भुवनेषु विष्टपेषु प्रथितो विख्यातो महिमा माहात्म्यं यस्य तस्मिन् त्वद्विधे लोके प्रयुज्यमानं विधीयमानं सर्वमेव मधुरालापादिकम् अनुचितमिव अयोग्यमिव आभाति प्रकाशते सर्वैरवगम्यत इत्यर्थः, विश्वासात्पादनाभावेऽपि अनुपममहिम्नस्त्वद्विधस्य मधुरालापादिकरणे धाष्ट्र्यौद्र्मादित्याशयः । अनेनात्मनान्तु विश्वासात्पादनेन मधुरालापादौ नास्त्यनौचित्यमिति व्यञ्जितम् ।

निखिलानामेवानौचित्यमुपपादयति—तथाहीत्यादिना । सम्भाषणं मधुरालापोऽपि अधःकरणम् अधिक्षेप इव, आपतति उपस्थितो भवति, मधुरालापस्य यथार्थं विधातुमसमर्थत्वादित्याशयः । आदरोऽपि समानोऽपि प्रभुताया ऐश्वर्यस्य अभिमानम् अहङ्कारमिव अनुमापयति अनुमितिविषयं कारयति, तुल्येनैव तुल्यस्य संमाननाद्यत्वेन स्वामिनस्त्व संमाने संमानयितुरपि स्वामित्वाभिमानोऽन्यैरनुमातव्य एवेत्यभिप्रायः । स्तुतिः प्रशंसावादोऽपि आत्मनः प्रशंसाकर्त्तुः उत्सेकं स्तुतिकरणे शक्तिगर्वं सूचयतीव द्योतयतीव, अतिमहतः पुरुषस्य प्रशंसायाम् असामर्थ्यवतः प्रवृत्त्यसम्भवादिति भावः । उपचारोऽपि अभ्युत्थानादिव्यवहारोऽपि चपलतां चञ्चलतां प्रकाशं व्यञ्जयतीव, तथाविधव्यवहारेऽपि स्वस्यायोग्यत्वादिव्याशयः । प्रीतिः स्नेहोऽपि अनात्मज्ञतां स्वस्य परिणामापरिचिततां ज्ञापयतीव बोधयतीव, सदृशेष्वेव स्नेहोचित्यादिति भावः । विज्ञापनापि विषयविशेषविज्ञप्तिरपि प्रागल्भ्यं वाचालतेव जायते, तत्रापि साहसादित्याशयः । सेवापि शुश्रूषापि चापंल चाञ्चल्यम् दृश्यते अवलोक्यते, तत्राप्यनधिकारादित्याशयः । दानमपि अर्पणमपि परिभव इव त्वद्विधपात्रस्य विभवस्यावमाननेव भवति, प्रायेणैव दानेन पात्रस्य दारिद्र्यद्योतनादित्यभिप्रायः ।

  • इह 'प्रागल्भ्यमिव' 'चापलमिव' इत्युभयत्र गुणोत्प्रेक्षालङ्कारः, शेषेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः

अन्यप्रियवचनमुत्थापयितुमाह—अपि चेति । स्वयमेवैतेनैव गृहीतम् आत्तं हृदयं चेतो येन तस्य भवते किं दीयते अर्पयितुं शक्यते, अपि तु न किमपीत्यर्थः, दानवृत्त्य हृदयपर्यन्तत्वात्तस्याऽप्यात्मनैवोपादानेनान्यादातव्याभावादित्याशयः । जीवितेश्वराय सदाचरणादिना जीवनस्वामिने भवते, किं प्रतिपाद्यते समर्प्येश्वरीकर्त्तुं³ शक्यते, अपि तु न किमपीत्यर्थः । दीयमानपदार्थानामपि जीवनावधित्व्रादिति प्राग्व-


आपके समान समस्त संसारमें विख्यात महिमावाले पुरुषोंके साथ जो कुछ (चाहे जैसा व्यवहार) किया जाय वे सब ही मानो अनुचित-सा प्रतीत होता है। देखिए—सम्भाषण करना भी मानो तिरस्कारके समान प्रतीत होता है, आदर करना भी मानो आधिपत्यका अभिमान सूचित होता है, प्रशंसा करना भी मानो स्वाभिमान का सूचन होता है, अभ्युत्थानादि-योग्य आचरण भी मानो चञ्चलता प्रकाश करता है, सौहार्द भी मानो अपनी योग्यताको अनभिज्ञता ज्ञापन करता है, किसी विषयका निवेदन करना भी मानो प्रगल्भताके समान हो जाता है, परिचर्या करना भी मानो चपलताके समान देखता है और दान करना भी मानो तिरस्कार करनेके समान होता है । और भी देखिये—आपने स्वयं ही हम लोगोंके हृदयको ग्रहण कर लिया है, अत एव आपको क्या दिया जाय ? आप जीवनके ही अधीश्वर हो गये हैं, अत एव आपको क्या देकर उसका अधीश्वर बनाया जाय ?


१. उपलम्भम् ।
२. ज्ञायते ।
३. आयत्तजीविताथाय ।