भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 620, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 620

चन्द्रापीडायोपहारख०-१५ ] चन्द्रकला-विद्योतिनीसहिता । ५८१

प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया, दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते। प्रणयिताञ्चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम्। अप्रतिपाद्या हि परस्वता सज्जनविभवानाम्। आस्तां तावद्विभवः, भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते^१, दत्त्वात्मानमपि वञ्चिता न भवति, जीवनमप्यर्पयित्वा न पश्चात्तप्यते। प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती^२ महत्ता सताम्^३। न च तादृशी भवति याचमानानान्, यादृशी ददतां लज्जा, यत्सत्यम्^४ अमुना व्यतिकरेण कृतापराधमिव त्वय्या-

दाशयः। प्रथमम् आदौ कृतं विहितम् आगमनमेव महोपकारो निरतिशयोपकृतिर्येन तस्य ते तव आगमनं केन दर्शनेन सफलं क्रियते विधातुं शक्यते, अपि तु न केनापीत्यर्थः, समस्तफलापेक्षयैव जीवन-फलं श्रेष्ठं तत्त भवतावलोकनेनैवार्पितम् अतएव तत्सदृशमस्माभिः किं फलं देयमिति येन तवागमनं तत्सदृशफलवद्भवेदित्याशयः।

इह सर्ववाक्येष्वेवार्थपत्तिरलङ्कार इति सुधीभिराकलनीयम्।

अथैवं कस्मै प्रयोजनायेदं भवत्या उपायनानयनमित्यन आह—प्रणयितामिति। कादम्बरी गन्धर्व-राजपुत्री अनेन व्यपदेशेन उपायनार्पणव्याजेन प्रणयितां भवन्तं प्रति सौहार्दं दर्शयति प्रकटयति, न विभवं न तु वित्तसम्पदम्। हि यतः, सज्जनविभवानां सत्पुरुषधनसम्पत्तीनां परस्वता अन्यदीयता अप्रतिपाद्या अर्पणादिना न सम्पादनीया, अपि तु परोपकारफलकत्वेन स्वतःसिद्धैवेत्याशयः। अनेन कादम्बर्या धनसम्पदि भवतोऽपि स्वत्वमस्तीति केवलसौहार्दप्रकटनमेव फलं दानस्येति ध्वनितम्। इह शाब्दी परिसंख्यालङ्कारः सामान्येन विशेषसमर्थनरूपोऽलङ्कारश्चेत्युभयोरङ्गाङ्गिभावसङ्करः। तथा ‘अप्रतिपाद्या’ इत्यत्र नञर्थस्य प्राधान्येनैवोपादानं युक्तम्, अन्यथा समासे तस्य गुणीभावत्वेन विधेया-विमर्शस्य वारयितुमशक्यत्वादिति कुशलाः।

आस्तामिति। विभवो हारादिरूपः स्तोकफर्लहेतुः तावद् आस्तां तिष्ठतु दूर इति शेषः। भवादृशस्य त्वद्विधस्य। अङ्गीकुर्वाणा स्वीकुर्वाणा नाकार्यकारिणी नाकृत्यविधायिनी नियुज्यते व्यपदिश्यते कादम्बरीति शेषः। दत्त्वा त्वदधीनं कृत्वा वञ्चिता प्रतारिता न भवति। जीवनं जीवितमपि अर्पयित्वा दत्त्वा न पश्चात्-तप्यते नानुत्पप्यते। इह चन्द्रापीडस्य मुख्यनिरूपणकार्यं प्रति अधिकहेतोरुपस्थापनाद् समुच्चयोऽलङ्कारः।

ननु कादम्बर्या अर्पितमप्युपायनं मया कथं स्वीकरणीयमित्यत आह—प्रणयीति। सतां सज्जनानां महत्ता महिमा मनसः सद्द्व्यवहारप्रसार इत्यर्थः, प्रणयिजनानां स्नेहेलोकानां द्रव्योपायनदानस्य प्रत्याख्याने निराकरणे पराङ्मुखी तद्व्याख्यानं न कदाचित्कुर्वन्तीत्यर्थः, यतो हि दाक्षिण्यपराधीना औदार्याधीना सा महत्ता, अतएवावश्यमेवेदमुपायनं भवता स्वीकरणीयमित्याशयः।

ननुदासीनत्वादिदमुपायनं स्वीकर्तुं मयि लज्जा सञ्चायत इत्यत आह—न चेति। तादृशी यादृशी ददतां वितरणं कुर्वतां लज्जा त्रपा याचमानानाम् अभ्यर्थ्यमानानां पात्राणामित्यर्थः। यत्सत्यमित्येक-मेवेति पदं निश्चयार्थे। अतएव कादम्बरी, अमुना हारसमर्पणव्यतिकरेण आत्मानं त्वयि कृतापराधमिव विहितागासमिव अवगच्छति जानाति यत्स्वस्वरूपोचितदानाभावेऽपि दातृत्वं स्वीकृतमित्याशयः।

आपने पहले ही यहाँ पधार कर जो गुरुतर उपकार किया है, उसके उपयुक्त प्रत्युपकार क्या हो सकता है? दर्शनद्वारा ही आपने हम लोगोंका जीवन सफल किया, अत एव आपके आगमनको हमलोग सफल किस प्रकार कर सकती हैं? तब कादम्बरी इस उपहारप्रदानके बहानेसे आपके साथ केवल स्नेह दिखाती है, किन्तु ऐश्वर्य नहीं, क्योंकि—सज्जनोंकी धनसम्पत्तिमें स्वभावतः दूसरोंका अधिकार होता ही है, अत एव उससे और सत्त्व उत्पन्न नहीं हो सकता (यह कुछ सिद्ध करनेका विषय नहीं है)। तब तक धनसम्पत्ति तो दूर रहे अर्थात्—उसकी बात तो यहाँ है ही नहीं। आपके समान व्यक्तिके दासत्व स्वीकार कर रहनेसे भी वह कुछ अकार्यकारिणी नहीं कही जायगी। अपनी आत्मा आपको वह समर्पित करे तो भी वह वञ्चित हुई नहीं कही जायगी, अथवा जीवनका समर्पण करे तो भी उसको कभी अनुताप नहीं होगा। सज्जनोंकी चित्तवृत्ति, प्रणयिजनका प्रत्याख्यान करनेके पराङ्मुख (अनिच्छुक) और विशेषतः उदारताके अधीन रहती है। दाताओंको जिस प्रकार लज्जा होती है, याचकोंको उस प्रकार नहीं होती (अर्थात् कुछ देते हुए हमको जितनी लज्जा आती है, उतनी तो माँगते हुए भी नहीं आती) इसलिए इस उपहारदानसम्बन्धसे निश्चय ही कादम्बरी मानो आपके समीप अपनेको अपराधिनी


१. गृह्यते। २. परवशा। ३. महतान्। ४. यत्तु सत्यम्।