भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 621, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 621
३८२कादम्बरी-[कथामुखम्-

त्मानमवगच्छति कादम्बरी। तदयममृतमथनसमुद्भूतानांसर्वरत्नानामेकः शेष इति२ **शेष-**नामा हारोऽमुनैव हेतुना बहुमतो भगवता अम्भसाम्पत्या गृहमपगंताय प्रचेतसे दत्तः, पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै, तयापि त्वद्वपुस्स्थानुरूपमाभरणस्येति विभावयन्त्या नभस्तलमेवोचितं सुधासूतेर्धाम४ न धरेत्यवधार्यानुप्रेषितः। यद्यपि निजगुणै-गणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम्। किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना६ ! न चैं नारायणोऽत्रभवन्तमति-

इह वाक्यार्थहेतुकं काव्यलिङ्गम्। तथा यत्पदयुक्तवाक्यस्य वाक्यगतविधेयाविमर्शदोषवारणाय पूर्वत्र पाठ एव न्याय्य इति मन्तव्यम्।

तदयमिति। अमृतमथनात् क्षीरसागरमन्थनात् समुद्भूतानां प्रकटितानां सर्वरत्नानाम् एकः शेषः अवशिष्ट इति अस्मात्कारणादेव शेषनामा अयं हारः, अमुनैव हेतुना शेषत्वेन भगवता माहात्म्यवता अम्भसाम्पत्या सागरेण बहुमतः तदतिरिक्ताभावादुत्कर्षाख्यातः। उपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तः अर्पितः, पाशभृताऽपि वरुणेनापि गन्धर्वराजाय चित्ररथाय। 'प्रचेता वरुणः पाशी' इत्यमरः। इह 'प्रचेतसे' इत्युपक्रम्य 'प्रचेतसापि' इत्यग्रे वक्तुमुचितं भग्नप्रक्रमत्वदोषवारणायेत्यवगन्तव्यम्। तयापि कादम्बर्या, अस्य आभरणस्य अलङ्कारस्य त्वद्वपुस्स्वदीयं शरीरम् अनुरूपं रूपस्य योग्यमिति विभाव-यन्त्या चिन्तयन्त्या तथा सुधासूतिश्चन्द्रस्तस्य तादृशस्य, नभस्तलं गगनतलमेव उचितं निर्मलत्वाद्युन्न-तत्वाच्च स्वयोग्यं धाम स्थानम्, न धरा पृथिवी इत्यवधार्य हृदयेन निर्णीय चन्द्रापीड एव अस्य हारस्य समुचित आश्रयो न तु कादम्बरीत्यभिप्रायः। अनुप्रेषितः अनुपेषितः त्वत्समीपं प्रेषित इत्यर्थः। इह 'दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्' इति लक्षणात्।

यद्यपीति। निजाः स्वकीयाः गुणगणा विद्याविनयादय एव आभरणानि आभूषणानि तैः भूषिता अलङ्कृता अङ्गयष्टयो येषां ते तादृशाः। भवादृशाः, त्वत्सदृशाः, क्लेशहेतुं भारवशात् क्लेशकारणम्, इतरैर्गुणरहितैर्जनैर्लोकैर्बहुमतम् आदरपूर्वकसङ्गीकृतम् आभरणभारम् आभूषणवीवधम् अङ्गेषु करचरणा-दिषु नारोपयन्ति न स्थापयन्ति, तथापि एवं सत्यपि कादम्बरीप्रीतिः कादम्बरीस्नेहः अत्र हारधारणे कारणं नियामकम्। कुः पृथिवी 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः, तां स्तुभ्नाति व्याप्नोतीति कुस्तुभः सागरः तत्र भव इत्यर्थेऽणि सति कौस्तुभः स एव अभिधानं नाम यस्य तत्तथोक्तम्, शिलाशकलं पाषाणखण्डं लक्ष्म्याः श्रियः निजप्रियतमाया इत्यर्थः, सहजम् एकसागरोत्पन्नत्वात् सोदर्यम् इति हेतोः बहुमानम् अधिकारदरम् आविष्कुर्वता प्रकटयता भगवता परमैश्वर्यवता शार्ङ्गम् एतन्नामकः-स्वचापः पाणौ हस्ते यस्य स तेन तादृशेन नारायणेन, 'चापः शार्ङ्गं सुरारेस्तु' इत्यमरः, किम् उरसि वक्षसि न कृतम् नार्पितम् अपि तु कृतमेवेत्यर्थः। अत एव तत्प्रीत्यै भवताऽप्ययं हारो वक्षसि परिधेय एवेत्यभि-प्रायः। इहाप्युक्तारङ्कारः, तेन च भवतोऽपि प्रेयसी कादम्बरीति वस्तु प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः।

ननु नारायणादयो ह्यस्मदादिभ्यो महत्तमा अत एव तेषां चरितमपि लोकातीतमहं तु तादृशो न भवामीति चेत्तत्राह—न चेति। अत्रभवन्तं समादरणीयं त्वाम्, नारायणः शार्ङ्गपाणिः न अतिरिच्यते

मानती है। यह हार क्षीरसागर मन्थन करके निकाले गए सब रत्नोंमें अवशिष्ट 'शेष' नामका है, इस कारणसे ही भगवान् जलधि इसका अत्यन्त आदर करते हैं और वे इसे लेकर गृहस्थित वरुणको दान कर दिये थे। उन्होंने गन्धर्वराजको और गन्धर्वराजने कादम्बरीको दिया। उसने भी 'आपके शरीरके उपयुक्त यह 'अलंकार' समझकर 'चन्द्रका उपयुक्त स्थान आकाश ही है भूतल नहीं' यह स्थिर कर इसे आपके समीप भेजा है। यद्यपि आप जैसे सत्पुरुष अपने गुण-ग्रामरूप अलङ्कारसे ही अपने शरीरको आभूषणोंसे अलङ्कृत गिनकर, अपने ही समान अन्य लोगोंके भी प्रिय आभूषणको क्लेश-हेतु जानकर धारण नहीं करतें तथापि [ तो भी ] आपको इस हारके धारण करनेके विषयमें कादम्बरीकी प्रीति ही कारण है। यथा भगवान् नारायणने कौस्तुभ नामक प्रस्तरके खण्ड (टुकडे) को भी, लक्ष्मीके सहोदर होनेके कारण विशेष आदरसे अपने वक्षःस्थल (छाती) पर धारण नहीं


१. उद्गतानाम्। २. एकशेष इति। ३. लग्ननामा। ४. सुधासूतो धाम्नः। ५. गुण......। ६. शार्ङ्गिणा। ७. नापि।