कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 622, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडस्योत्तरवर्णना-९६ ] चन्द्रकला-विद्योतिनीसहिता । ५८३
रिच्यते, नापि कौस्तुभमणिरणुनापि गुणत्वेन शेषमतिशेते न, चापि कादम्बरीमाकारानुकृति- कलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः। नचाभूमिर्रेषा प्रीतिप्रसरस्य । नियतञ्च भवता भग्नप्रणयां महाश्वेतामुपालम्भसहस्रैः खेदयित्वात्मानमु- त्स्रक्ष्यति । अतएव महाश्वेता तरलिकाभपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य सन्दिष्टमेव 'न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः' इत्युक्त्वा च ताराचक्रमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध ।
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत्—'मदलेखे ! किमुच्यते, निपुणासि, जानासि ग्राहयितुम्, उत्तराकाशमपहरन्त्या कृतं वचसि कौशलम् । आये मुग्धे ! के वयमात्मनः ?
गुणैरधिको भवति। अणुनापि अल्पेनापि गुणत्वेन उत्कर्षलेशेन शेषं तत्संज्ञकमिमं हारं न अतिशेते नातिक्रामति अह्वल्पयस्यापि आकारस्य स्वरूपस्य अनुकृतिरनुकरणं तस्याः कलालेशः तयापि कादम्बरीम् अनुगन्तुम् अनुसर्तुं नालं न समर्था, हरिप्रीयात् कादम्बरी रूपेणाधिकश्रेष्ठेति भावः । अतएव तर्ह्रीति- वशाद्धारोऽयं भवता धारणीय एवेति तात्पर्यम् । इह कादम्बरी लक्ष्मीतो मुख्येतिप्रतिपादनाद् व्यतिरेकः ।
अत इति । इयं कादम्बरी, त्वत्तो भवत्सकाशात् इमं हारधारणरूपं बहुमानमत्यादरम् अर्हति लब्धुं योग्या भवति । एषा कादम्बरी, प्रीतिप्रसरस्य भवतः स्नेहातिशयस्य अभूमिः अपात्रं न अपि तु पात्र- मेवेत्यर्थः । भग्नः हारपरावर्तनेन खण्डितः प्रणयः अनुरोधः, स्नेह इत्यर्थः, यस्याः सा कादम्बरी, उपा- लम्भसहस्रैः 'एवंविधेन अदृष्ट्वेन सह त्वया मैत्री विहिता, स एव चेह प्रापितः एवंविधैरपमानसमूहैः, महाश्वेतां खेदयित्वा विषादं प्रापय्य नियतं निश्चितम् आत्मानम् उत्स्रक्ष्यति परित्यक्ष्यति ।
अत इति । हारम् आदाय गृहीत्वा विद्यमानामिति विद्यमानपदाक्षेपान्नैकेककर्तृकत्वव्याघातः । त्वत्सकाशं भवदन्तिकं प्रेषितवती प्रहितवती । महाश्वेताया अपि हारग्रहणे महाननुरोध इत्यवगन्तव्यम्, अन्यथा तरलिकां त्यक्त्वा काचित् सेविकैवागच्छेद्धित्याशयः । तया महाश्वेतयापि, कुमारस्य त्वत्तो निकटे सन्दिष्टमेव वाचिकं कथितमेव । महाभागेन जन्मप्रभृतिकलङ्कपङ्करहितानुपमकीर्त्तिसंयुतेन भवता । प्रथम प्रणयप्रसरभङ्गः आद्यस्नेहप्राप्तिनिरासः मनसा चेतसापि न कार्यो हारनिराकरणेन न विधेयः किं पुनर्वचसे- त्याशयः । चामीकरः सुमेरुः तदाख्यो यः अचलः पर्वतस्तस्य तटे उपरिभागे ताराचक्रं नक्षत्रवृन्दमिव, तस्य चन्द्रापीडस्य वक्षःस्थले उरोदेशे बबन्ध वन्धनं चकार परिहितवतीत्यर्थः, मदलेखेत्यन्वयः । इहोपमा ।
चन्द्रेति । विस्मयमानो मदलेखाया वचनचातुर्येणाश्चर्यमापन्नः । किमुच्यते किं मया वाच्यम् । निपुणासि कुशलासि, ग्राहयितुं स्वीकारयितुं जानासि अवगच्छसि । उत्तराकाशं प्रतिवचनसमयम् अप- हरन्त्या दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतं विहितम् ।
अयीति । अयीति कोमलामन्त्रणे । आत्मनः स्वस्य वय के ? अपि तु न केऽपीत्यर्थः । युष्माकमा- चरणेन वयं युष्मदीया एव सम्पन्ना इत्याशयः । के वेति । युष्माकमभिलाषेणैव स्वीकरणमस्वीकरणं वा
किया ? नारायण कुछ आपसे बढ़कर नहीं हैं, कौस्तुभ-मणि अल्पमात्र गुणसे भी इस हारसे उत्कृष्ट नहीं है और स्वरूपके अनुकरणमें कादम्बरीकी समानता लक्ष्मी अल्पमात्र भी नहीं कर सकती । अत एव यह आपके समीप इस आदर पानेके योग्य है, क्योंकि आपके स्नेह का अपात्र नहीं है । (अतः उसके मानकी रक्षा आपको अवश्य करना चाहिए ।) विशेषतः आप इस अनुरोधकी रक्षा यदि नहीं करेंगे तो हजारों उलाहनोंसे वह महाश्वेताको दुःखित कर निश्चय ही प्राण-त्याग कर देगी । इसलिए ही महाश्वेताने यह हार लेकर तरलिकाको भी आपके समीप भेजा है, और उसने भी, आपके समीप सन्देश दिया है कि—'महाभाग ! कादम्बरीके प्रथम प्रणय-प्रसरके भङ्ग करनेका विचार मनसे भी नहीं करना' इतनी बात कह कर मदलेखाने सुमेरु-शृङ्गके ऊपर तारागणके समान उनके वक्षःस्थल पर हार धारण करा दिया ।
किन्तु चन्द्रापीडने मदलेखाकी वाक्पटुतासे विस्मयापन्न होकर उत्तर दिया—'मदलेखे ! मेरे कहनेके लिए क्या है ? तुम बहुत निपुणा हो, अङ्गीकार कराना जानती हो, बोलनेमें ऐसी विशेष वाक्पटुता दिखलाई है कि मेरे उत्तर देनेके लिए अवकाश ही नहीं रखा । हे मुग्धे ! अपना मैं कौन हूँ ? और फिर लेने और न लेनेका
१. लग्नप्रणया । २. महाश्वेताम् । ३, स्वात्मानम् । ४. महाश्वेतया । ५. अनुप्रेषिता । ६. उच्यते । ७. कार्ययितुम् ।