भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 623, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 623

५८३] कादम्बरी [उत्तरभागः

के वा वयं ग्रहणस्याग्रहणस्य वा ? गतो वशित्वमसौ जनः। सौजन्यशालिनीभिर्गुणैर्निर्मूलमिवो- पकरणकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम्। अतिदक्षिणायाः खलु देव्याः कादम्बर्याः निर्दाक्षिण्यमपि गुणं न कश्चिन्न दासीकुर्यात्' इत्युक्त्वा च कादम्बरी- सम्बन्धानेव कथाभिः सुचिरं स्थित्वा विसर्जयाम्बभूव मदलेखाम्।

अनतिदूरे गतायां च तस्यां क्रीडापर्वतकारूढं तदुपशिरोवर्तिनं चन्द्रसमं चन्दनदु- कूलहारवन्तं चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निर्वारिताशेषपरिजनानुगमना तमालिकाद्वितीया चित्ररथसुता पुनरपि तत्रैव सौधशिखरमारुरोह। तत्रस्था च पुनस्तस्यैव विविधविलासपरिक्लिन्नविकारिविलोकितेर् जहारस्य मनः। तथाहि- 'सुहृन्निमज्जनबिन्द-


मन समाधेयेत्यभिप्रायः। यद्यप्यत्र "अस्मदो द्वयोश्च" इत्यनेन बहुवचनम्। इयं कया, तस्याः के स्वतन्त्रतामहेतावः, तथा सति, युक्तान्तापादनं सर्वमेवायुक्तं कृतमिति भावः।

केनेति। सौजन्यशालिनीभिः सुजनतायुक्तिकर्त्रीभिः। उपकरणकृतः परिचारकीकृतः अयं महद्गतो जनः स्वद्रुवाह—यथेत्यादि। इष्टेष्वनिष्टेषु हिताहितेषु। विनियुज्यतां प्रेष्यताम्।

अतीति। अतिदक्षिणाया अतिउदारायाः देव्याः कादम्बर्या गुणाः सुशीलतासम्बन्धिदोषाः, निर्दा- क्षिण्यमपि अनुदारमपि कश्चिजनं न दासीकुर्यान्न इति, न, अपि तु सर्वमेवेत्यर्थः। अतएव ममोपायानां करणे किमपि न विप्लवायहेत्वित्याशयः। विसर्जयाम्बभूव गृहे गन्तुमनुज्ञामयाम्बभूव चन्द्रापीड इति शेषः।

अनतीति। गतायां प्राप्तायां तस्यां मदलेखायाम्। तदुपशिरोवदम् तदुपार्वडजातै चन्दनसमं शशिनमिव चन्दनेन मदलेखाद्वारा विहितमण्डनावलेपनेन दुकूलमयं धवलविद्योत्यानां दुकूलवस्त्राणां हारेण च शोभामकन घटयन्तमुज्वलयन्तं, पदान्तरे-चन्दनदुकूलहारवन्तम्। समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामराख्येषु देवतानुरूपवाक्यलक्षणानि विहितानि रूपाणि यथा सा, ताहशी, वेत्रयष्टिधारिणी द्वारपालिकां छत्रधारिणीं चामरधारिणीं च सेविकामानयताम् निर्वार्यन्तेयर्थः, निर्वारितं निवारितम् अशेषाणां समग्राणां परिवारानां परिचारिकाणाम् अनुगमनम् अनुब्रजनं यथा सा, तथा, तमालिकाद्वितीया कपरा यस्याः सा चित्ररथसुता गन्धर्वराजपुत्री कादम्बरी। पुनरपि द्वितीयवारमपि। आरोह आस्ता। इह श्लोकोपना।

तत्रस्थेति। तत्रैव प्रासादेव विविधा नानाप्रकारा ये विलासा शृङ्गारेक्षणलक्षाणैः तैराकुडितानि सपलीकृतानि तैः, विकारिभि विकारोत्पादकानि च यानि विलोकितानि दृष्टिपातादिति तैः, तस्य चन्द्रापीडस्य मनो हृदयं जहार हृतवती।

नानाविधिविलासानेव प्रतिपादयति—तथाहितीत्यादि। निमज्जनबिन्दो संक्रान्तः पश्चात् प्रतिविम्वन्ते तत्रस्थं


ही मैं कौन हूँ! मेरी स्वाधीनता की बात ही क्या उत्पादित हो गई! सौजन्य-युक्त सब सौन्दर्य-युक्त गुणावलियोंने मुझे अपना एक बार दास बना लिया है, अब यह अपना व्यक्ति जिस किसी कार्य में इस व्यक्तिको इच्छानुसार (जिस प्रकार चाहे वैसा ही) नियुक्त करें। अत्यन्त उदार प्रकृति कादम्बरी देवीके वशीकरण-कौतुकप्रधान चित्त सौन्दर्य-विहीन व्यक्तिको भी वशीभूत नहीं करते हैं—यह कहा नहीं जा सकता! यह कह कर कादम्बरी-सम्बन्धी वार्तालाप करने में बहुत समय तक रह कर, राजकुमारने मदलेखाको विदा कर दिया।

मदलेखाके कुछ दूर चले जानेके बाद क्रीडापर्वत पर—अट्टालक पर आए हुए चन्द्रके समान—चन्दन, दुकूल वस्त्र तथा हार धारण करनेसे शोभायमान दीखते हुए चन्द्रापीडको देखनेके लिए, प्रतीहारी, छत्रधारिणी और चामरधारिणी परिचारिकाओंको छोड़ कर, कल्याण सम्बन्ध परिजनोंको भी साथ आनेसे निषेध कर, केवल तमालिकाके साथ कादम्बरी फिरसे उसी अट्टालिका (महल) के शिखरपर चढ़ीं। वहीं रहकर फिरसे पहलेकी भाँति ही वह नानाविध रुचियुक्त चेष्टा और विकारजनक दृष्टिका से उनके मनका हरण करने लगी। जिनमें ही


१. ग्रहणस्याग्रहणस्य । २. गता । ३. इष्टेष्वनिष्टेषु वा । ४. निर्दाक्षिण्याद्यपि। ५. कश्चिदिति नेदम्। ६. क्रीडा- पर्वतकारूढम्। ७. तदुपगगनम् । ८. समाहारित... । ९. क्वचित् 'समुत्सार्य' इति दर्शनं दृश्यते। १०. परिक्लिन्न- तरविहितैर्विलोकितेः, विकारिभिर्विलोकितेः। ११. 'कुहूहृत' इति क्वचित्।