कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 624, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरी निजविकारप्रशम० ६७ ] चन्द्रकला-विद्योतिनीसहिता । [ ५८५
न्यस्तवामहस्तपल्लवा प्रावृतांशुकानुसारिप्रसारित-दक्षिणकरा निश्चलतारका लिखितेव, मुहुर्जृम्भिकारम्भदत्तोत्तानकरतलतया तद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुकपल्लव-ताडित-निःश्वासामोद-लुब्ध-मधुकर-मुखरतया प्रस्तुताह्वानेव, मुहरनिलगलितांशुक-सम्भ्रम-द्विगुणीकृत-भुजयुगल-प्रावृत-पयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्ट-कुसुम-पूरिताञ्जलि-समाघ्राण-लीलया कृतनमस्कारेव, मुहुरुभय-तर्जनी-भ्रमित-मुक्ताप्रालम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलन-विधुत-करतलतया कथितकुसुमायुधशरप्रहारवेदनेव.
स्थापितं वामहस्तपल्लवं सव्यपाणिकिसलयं यया सा, प्रावृतस्य परिहितस्य अंशुकस्य सूक्ष्मवस्त्रस्य अनुसारेण पवनेनापहृतस्य तत्सज्जीकरणव्याजेनेत्यर्थः प्रसारितो विस्तारितो दक्षिणकरः अपसव्यहस्तो यया सा, तथा निश्चले निष्पन्दे तारके कनीनिकायुगलं यस्याः सा, लिखिता चित्रितेव सती कादम्बरी, 'विलोकयन्तो तावदवतस्थे' इत्यग्रिमेण सम्बन्धः। अग्रेऽपीत्थमेव सम्बन्धो ज्ञेयः। इह क्रियोत्प्रेक्षा।
मुहुरिति। जृम्भिका मुखाद्विविकाशः तस्य आरम्भे प्राङ्काले दत्तं व्यात्तवदनोपरि न्यस्तम् उत्तानं करतलं पाणितलं यया तस्या भावस्तया कारणेन, तस्य चन्द्रापीडस्य यद् गोत्रस्खलनं भ्रमेण नामोच्चारणं तद्भियेव तद्भीत्येव निरुद्धवदना पिहितमुखी। मदनजागरेण या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यः कर आच्छादनीकृतः स मन्ये प्रीतिवशाच्चन्द्रापीडस्य नामनिर्गमनभीत्या विहित इत्यभिप्रायः। हेतूत्प्रेक्षा।
मुहुरिति। अंशुकपल्लवेन वस्त्रप्रान्तेन ताडिताः प्रहताः निःश्वासस्य आमोदेन परिमलेन लुब्धा लिप्सवो ये मधुक्रा भ्रमराः तैर्मुखरतया शब्दायमानतया, प्रस्तुतम् उपक्रान्तम् आह्वानम् आकारणं यया सेव। आह्वानप्रस्तावेोत्प्रेक्षणात् क्रियोत्प्रेक्षा।
मुहुरिति। अनिलेन पवनेन गलिते कुचमण्डलात् स्रस्ते अंशुके उत्तरीयवस्त्रे सम्भ्रमेण शीघ्रेण द्विगुणीकृतम् ऊर्ध्वाधोरूपेणोरसि स्थापितं यद् भुजयुगलं बाहुद्वयं तेन प्रावृतौ आच्छादितौ पयोधरौ कुचौ यया तस्या भावस्तस्या कारणेन बाहुद्वयवेष्टितकुचयेत्यर्थः। दत्ता अर्पिता आलिङ्गनाय आश्लेषाय संज्ञा सङ्केतो यया सेव, बाहुद्वयेनाश्लेषप्रकारविधानादित्याशयः। उक्तालंकारः।
मुहुरिति। केशपाशात् कचकलापात् आकृष्टैः आनीतैः कुसुमैः प्रसूनैः पूरितस्य अञ्जलेः समाघ्राणस्य लीलया विभ्रमेण कृतनमस्कारेव विहितप्रणामेव, अञ्जल्युपरि आघ्राणाय नमिते शिरसि नमस्कारचेष्टा सञ्जातेति भावः। उक्तालंकारः।
मुहुरिति। उभयतर्जनीभ्याम् अङ्गुष्ठसमीपाङ्गुलिद्वयाभ्यां भ्रमितं घूर्णितं मुक्ताप्रालम्बं मौक्तिकहारो यया तस्या भावस्तया कारणेन, निवेदितो ज्ञापितो हृदयस्य उत्कलिकाया सङ्गमोत्कण्ठाया उद्गम उत्पत्तिर्यया सेव, हारभ्रान्त्या औत्सुक्येन हृदयभ्रमणस्य द्योतनादित्याशयः। उक्तालंकारः।
मुहुरिति। उपहारकुसुमेषु उपायनप्रसूनेषु स्खलनेन विधुतं कम्पितं करतलं पाणितलं यया
वार अपना बायाँ कोमल हाथ नितम्बमण्डल पर रखकर पहने हुए वस्त्रके वायुद्वारा उड़ाकर ले जाने तक दायाँ हाथ नीचे लटका कर, निश्चल कनीनिकाद्वय (दो पुतली) रखकर चित्रितके समान (काढ़ी गई) हो, कितनी ही बार जँभाई-आरम्भ करनेके समयमें मुखके ऊपर उत्तानभागसे (चित्त) करतल रखनेसे भ्रमवश चन्द्रापीडका नामोच्चारण हो जानेके भयसे ही मानो अपना मुँह बन्द करती हो; निश्वास (साँस) के सौरभलोभसे घूमते भ्रमरोंको, कितनी ही बार, वस्त्राञ्चल (वस्त्रके किनारे) से झपट मार कर उनकी गुञ्जारसे मानो चन्द्रापीडको आह्वान करती (बुलाती) हो; कितनी ही बार वायुके वेगसे वक्षःस्थलीय उत्तरीय वस्त्रके उड़ जानेकी त्वरा (घबराहट) से अपनी दोनों भुजाओंको मोड़ और उनसे स्तनोंको आच्छादित (ढक) कर मानो आलिङ्गनका सङ्केत (इशारा) करती हो; कितनी ही बार केशकलापमेंसे पुष्पोंको लेकर अपनी अञ्जलीपूर्ण (भर) कर लीलासहित सूँघनेके बहाने मानो नमस्कार करती हो; कितनी ही बार दोनों हाथोंकी तर्जनी अङ्गुलियोंसे मुक्ताहार भ्रमण कराने रहनेसे हृदयमें उत्पन्न होती उत्कण्ठाको मानो सूचित करती हो; कितनी ही बार विक्षिप्त कुसुमोके ऊपर ठोकर लगजानेसे हाथ काँपते रहनेके कारण मानो मदन-बाणके प्रहारकी वेदना प्रकाशित करती
१. अंशप्रावृत०००। २. गोत्रस्खलनभयविरुद्धवदनेव। २निःश्वातामोदः। ४*सम्भ्रमद्विगु-णितभुजलतावृतपयोधरतया, संवरणसम्भ्रम०००। ५ प्रलम्बतया। ६. करतया।
३७ का०